________________
जघन्यस्थितिबन्धस्य ] द्वितीयाधिकारे स्थितिबन्धप्रमाणद्वारम
[८५ पञ्चेन्द्रियमिथ्यादृष्टि-सर्वसंयतैकतरजीवानां प्रवेशात् तेषां चाऽऽयुष अोघोत्कृष्टस्थितिबन्धस्वामित्वादुत्कृष्स्थितिवन्धमानमोघवत् त्रयस्त्रिंशत् सागरोपमाण्य भिहितमिति ॥५१॥५२॥५३॥५४॥
तदेवमभिहितमष्टानामपि मूलप्रकृतीनामुत्कृष्टस्थितिबन्धप्रमाणमोघत आदेशतश्च । अथ तासामेव जघन्यस्थितिबन्धप्रमाणं प्रतिपिपादयिषुरादौ तावदोघत आह--
घाईण मुहुत्तंतो हस्सो तइअस्स बारहमुहुत्ता ।
अाउस्स खुड्डगभवो सेसाण भवे मुहुत्ताऽट्ठ ॥५५॥ __(प्रे०) 'घाईण मुहत्तंतो'' इत्यादि, आत्मनो मूलगुणानां ज्ञानादीनां घातनशीलानां ज्ञानावरण-दर्शनावरण-मोहनीया-ऽन्तरायलक्षणानां चतुर्णां घातिकर्मणां प्रत्येकं 'मुहूर्तान्तः'-अन्तर्मुहूर्तम्। किं तदित्याह-हस्सो"त्ति ह्रस्वः-जघन्यः, स्थितिबन्ध इति प्रक्रमाद्गम्यते । “तइअस्स बारहमुहुत्ता"त्ति तृतीयस्य वेदनीयकर्मणो द्वादशमुहूर्ताः, ह्रस्वः स्थितिन्ध इत्यनुवर्तते । इत्थमेवोत्तरत्राऽप्यनुवृत्तिर्बोद्धव्या । "अाउस्स खुड्डुभवो'त्ति अायुपो ह्रस्वस्थितिबन्धः क्षुल्लकभवः, क्षुल्लकासर्वजघन्यो यः षट्पञ्चाशदभ्यधिकशतद्वयावलिकाप्रमाणोऽपर्याप्तजीवानां जीवनकालस्तत्प्रमाण इत्यर्थः । उक्तं चान्यत्र-“श्रावलियाणं दोसयछप्पन्ना एगखुडुभवे” इति । 'सेसाण"त्ति प्राकृतत्वाद् द्विवचनान्ते बहुवचनान्तनिर्देशस्ततः शेषयोर्नामगोत्रकर्मणोः प्रत्येकम् “भवे मुहुत्ताऽटु" ति ह्रस्वः स्थितिबन्धोऽष्टौ मुहूर्ता भवेदिति । उक्तं च शतकचूर्णावष्टानामपि मूलप्रकृतीनां जघन्यस्थितिबन्धप्रमाणं दर्शयता चूणिकृता—'बारस अंतमुहुत्ता वेयणिए अट्ठ नामगोयाणं । सेसाणंतमुहुत्तं खुड्डुभवं आउए जाण ॥” इति । अत्र प्रत्येकं जघन्यावाधाऽन्तमुहूर्तमाना, तया हीनकर्मस्थितिप्रमाणः कर्मदलनिषेकश्च प्रागुक्तनीत्या स्वयमेव द्रष्टव्यः, तत्राऽप्यायःकर्मणो निषेकेऽबाधा न्यूना न द्रष्टव्या, तस्या वेद्यमानायुरवशेषरूपत्वात् । तद्यथा-ज्ञानावरण-मोहनीया-ऽन्तरायकर्मणां प्रत्येकमन्तमुहूर्तमबाधा, अबाधाहीनजघन्यकर्म स्थितिः कर्मदलनिषेकः । वेदनीयकर्मणोऽन्तर्मुहूर्तमवाधा, अबाधाहीनजघन्यकर्मस्थितिप्रमाणः कर्मदलनिषेकः । आयुषोऽन्तर्मुहूर्तमवाधा, क्षुल्लकभवप्रमाणः कर्मदलनिषेकः । नामगोत्रयोरन्तमुहूर्तमवाधा, अबाधान्यूनजघन्यकर्मस्थितिप्रमाणः कर्मदलनिषेक इति । इत्थमेव वक्ष्यमाणमार्गणास्थानेष्वपि स्वयमेव योज्यमिति ॥५५॥
अभिहितमोघतोऽष्टानां मूलप्रकृतीनां जघन्यस्थितिबन्धमानम् । अथ तदेवाऽऽदेशतो दिदर्शयिषुरादाबायुर्वर्जानां सप्तानामाह
णिरय-पढमणिरयेसुदेव-भवण-वंतरेसु सव्वेसु। पंचिंदियतिरियेसु असमत्तमणुसपणिंदियेसु य ॥५६॥ (गीतिः) मोहगुरुठिइविभत्तो सहस्सगुणिो य अोघगुरुबंधो। स पलियसंखंसूणो सत्तण्ह लहू मुणेय वो ॥५७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org