________________
८४ ]
बन्धविहाणे मूलपयडिठिइबंधो [ोधत आदेशतश्च प्रभृतिविमानवासिनां मनुष्येष्वेवोत्पादः, सनत्कुमारकल्पादिसहस्रारकल्पान्तानां सुराणां तु तिर्यग्गतावपीति सिद्धान्तः कथं सङ्गच्छेद् ; अभिमतं चैतदपि, यत उक्तमन्यत्र-“जति सुरा संखाउयगम्भवपज्जत्तमणुयतिरिएसु। पज्जत्तेसु य बायर-भू-दग-पत्तेयगवणेसु ॥ तत्थवि सणंकुमारपभिइ एगिदिएसु नो जंति । प्राणयपमुहा चविउं मणुएसु चेव गच्छंति ॥” इति ॥ न च कुत्रचिच्छुक्ललेश्यावतां तियग्गतिप्रायोग्यवन्धनिषेधानुसारेण ब्रह्मकल्पादुपरितनवर्तिविमानवासिनां तियग्गतिगमनप्रतिषेधः कृतो दृश्यते, अत एव ज्ञायते यल्लान्तक-शुक्र-सहस्रारकल्पवासिनां पद्मलेश्या मतान्तरेणाभिमता विद्यते, इत्थं च मतविशेपेणायं ग्रन्थः, नातः पद्मलेश्यायामायुष उत्कृष्टस्थितिबन्धोऽष्टादशसागरोपमप्रमाण इत्यत्र कश्चिद्विरोधः, उत्तरत्रापि “पउमाअ तहेव णवरि तइबाइगअट्ठमंतसुरो” इत्यनेन वक्ष्यमाणाः पद्म लेश्यामार्गणायां सप्तकर्मणामुत्कृष्टस्थितिबन्धस्वामिनः सहस्रारान्ता मिथ्यादृष्टयो देवा इत्यादिषु चेति भावितं यथामति, तत्वं पुनः बहुश्रुतगम्यमिति न केनापि मतिमताऽऽग्रहो विधेय इति । अथ प्रकृतमेवोच्यते-"होइ दुवीसा जलही तिरिक्खजोणिमइ-देसेस" ति आयुष उत्कृष्टस्थितिबन्धस्तियग्योनिमतीमार्गणायां देशसंयममार्गणायां च प्रत्येकं द्वाविंशतिर्जलधयः-सागरोपमाणि भवति । सुगमं चैतत् , यतो “जा अच्चुत्रो सड्ढा” इत्यादिवचनाद् देशसंयतानामुत्कृष्टतोऽप्यच्युत्कल्पे उत्पादोऽभिहितः, तत्र चोत्कृष्टा स्थितिद्वाविंशतिः सागरोपमाणि, उत्कृष्टतश्च तामेव देशविरतिबंधनातीति । तिरच्या अप्यधःषष्ठपृथिव्यां नारकतयोत्पादः, न पुनस्ततः परतः सप्तम्यामपि, स्त्रीणामुत्कृष्टतोऽपि षष्ठपृथिवीं यावदुत्पादस्य विहितत्वात् , उक्तं च दुःपमानभावजनितमोहतिमिरतरणिश्रीमदभयदेवसूरिपादैः पञ्चमाङ्गवृत्तौ--“षष्ठयन्तास्वेव पृथिवीपु स्त्रीणामुत्पत्तेः” इति । तिरश्ची तु स्त्रीरेव, इत्थं हि सा उत्कर्षतोऽपि पष्ठपृथिवीसत्कं द्वाविंशतिसागरोपमस्थितिकमेवायुर्वध्नातीति । 'जलहीण एगतीसा सासाणे जेट्टगोति प्रकृतस्याऽऽयुषो ज्येष्ठ एव ज्येष्ठकः, उत्कृष्टस्थितिबन्ध इत्यर्थः । स च 'जलवीनामेकत्रिंशत्'-एकत्रिंशत्सागरोपमाणि सासादनमार्गणायां भवतीत्यर्थः । "असण्णिम्मि" ति असंज्ञिमार्गणायां “पलियासंखियभागो" ति पल्योपमस्यासंख्येयभागः, आयुष उत्कृष्टस्थितिबन्ध इत्यनुवर्तते । सुगमम् ।।
अथोक्तशेषमार्गणासु प्रकृतमाह- ‘सेसासु जलहितेत्तोसा' त्ति उक्तशेषासु पञ्चपञ्चाशन्मागणापु प्रकृत आयुष उत्कृष्टस्थितिवन्यो जलधीनां त्रयस्त्रिंशत्, त्रयस्त्रिंशत्सागरोपमाणि भवतीत्यर्थः। शेषमार्गणास्तु नामत इमाः--तिर्यग्गत्योध-पञ्चेन्द्रियतिर्यगोघ-पर्याप्तपञ्चेन्द्रियतिर्यगमनष्योध-पर्याप्तमनुष्य-मानुपी-पञ्चेन्द्रियौष-पर्याप्तपञ्चेन्द्रिय-त्रसकायौध-पर्याप्तत्रसकाय-पञ्चमनोयोगपञ्चवचोयोग-काययोगसामान्यौ-दारिककाययोगा-ऽऽहारका-ऽऽहारकमिश्रकाययोग-स्त्री-पुनपुंसकवेदत्रय-क्रोधादिकायचतुष्क-मत्यादिज्ञानचतुष्क-मत्यज्ञानाद्यज्ञानत्रिक-संयमोघ-सामायिकसंयमच्छेदोपस्थापनसंयमा-ऽसंयम-चक्षुरादिदर्शनत्रिक-कृष्णलेश्या-शक्ललेश्या-भव्या-ऽभव्य-सम्यक्त्वौधक्षायिक-वेदकसम्यक्त्व-मिथ्यात्व-संड्या-ऽऽहारिमार्गणा इति । एतासु शेषमार्गणासु प्रत्येकं पर्याप्तसंज्ञि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org