________________
[८३
उत्कृष्टस्थितिबन्धस्य ] द्वितीयाधिकारे स्थितिबन्धप्रमाणद्वारम्
अत्रैव मार्गणाद्वये मतान्तरेण प्रस्तुतस्थितिवन्धप्रमाणमाह- "अण्णे भणन्ति" इत्यादि, अन्ये केचनाऽऽचार्याः पुनरधिकृतमार्गणाद्वये क्रमात् सप्तदश सप्त च सागरोपमाण्यायुष उत्कृष्टः स्थितिबन्ध इति भणन्तीत्यर्थः । अयम्भावः-पूर्वमतेनाधःपञ्चमपृथिव्याः प्रथमे प्रतरे केषाञ्चिन्नारकाणां नीललेश्याऽभिमता, न पुनस्ततोऽधस्तनप्रस्तटेष्वपि, मतान्तरेण तु पञ्चमपृथिव्याश्चरमे प्रतरेऽपि केषाञ्चिन्नारकाणां नीललेश्याऽङ्गीकृता, तत्र च चरमे प्रतरे नारकाणामुत्कृष्टा स्थितिः सप्तदश सागरोपमाणीतिकृत्वा नीललेश्यामार्गणायामुत्कृष्टस्थितिकनिरयायुषो बन्धकाः सप्तदशसागरोपमप्रमाणां स्थिति निर्वतयन्ति । यथा नीललेश्यायां तथा कापोतलेश्यायामप्यायुष उत्कृष्टः स्थितिवन्धः सप्तसागरोपमाणि तृतीयपृथिव्याश्चरमप्रस्तटेऽपि कापोतलेश्याकनैरयिकाणां सद्भावमङ्गीकर्तुमतेन बोद्धव्यः । तत्त्वं त्वतीन्द्रियार्थवेदिगम्यमिति । "तेउपउमासु"त्ति तेजोलेश्यामार्गणायां पद्मलेश्यामार्गणायां च "अयरा दो अट्ठारह कमा” त्ति प्रागवद् द्वे सागरोपमे, अष्टादश सागरोपमाणि चाऽऽयुष उत्कृष्टस्थितिबन्धो ज्ञातव्यः । अत्रापि—“दस बाससहस्साई तेउए ठिई जहनिया होइ । दुएणुदुही पलियोवमसंखभागं च उक्कोस्सा ॥५३॥” इत्यादिवचनात् तेजोलेश्यामार्गणायां मूलोक्तमायुष उत्कृष्टस्थितिबन्धप्रमाणं पल्योपमासंख्यभागेनाधिकं द्रष्टव्यम् । पद्मलेश्यामार्गणायां तु पद्मलेश्याकदेवानामुत्कृष्टायुरष्टादशसागरोपमप्रमाणापेक्षया प्राग्वद्भावनीयम् ।।
ननु “जोइसकप्पदुगे तेऊ कप्पतिय पम्हलेसा लंताइसु सुकलेस हुंति सुरा” इत्यादिवचनात् पञ्चमब्रह्मदेवलोककल्पादृवं न सन्ति पद्मलेश्याकदेवाः, ब्रह्मदेवलोके च देवानामुत्कृष्टमप्यायुर्दशसागरोपमप्रमाणमस्ति, तत्कथं पद्मलेश्याकदेवानामुत्कृष्टायुरष्टादश सागरोपमाणीति सङ्गच्छेत् ? इति चेद, उच्यते, सत्यम् , यदुक्तं भवता “जोइसकप्पदुगे तेऊ कप्पतिय पम्हलेसे" त्यादि, नवरं तस्येवायमपि मतान्तरो दृश्यते यदष्टमकल्पान्तानां पद्मलेश्याऽस्तीति, कथमन्यथा बन्धस्वामित्वोक्तम्-“उज्जोअचउनिरयबार विणु सुक्का विणुनिरयबार पम्हे"त्यादि सङ्गच्छेद् , यतस्तत्र शुक्ललेश्यामार्गणायामुद्योतादिप्रकृतयो बन्धविषयत्वेन प्रतिसिद्धाः, तासां तिर्यङ्नरकप्रायोग्यत्वात्, पद्मलेश्यामार्गणायां तु निरयद्वादशकं बन्धविषयतया निषिद्धम् , न तूद्योतचतुष्कम् , तस्य तिर्यप्रायोग्यत्वात् । उक्तं च तट्रीकायाम-"विंशत्युत्तरशतमध्यादुद्योतादिचतुष्कं नरकादिद्वादशकं च मुक्त्वा शेषं चतुरुत्तरशतमोघतः शुक्ललेश्यायां बध्यते, उद्योतादिप्रकृतीनां तिर्यटनरकप्रयोग्यत्वेन देवनरकप्रयोग्यबन्धकैः शुक्ललेश्यावद्भिरबध्यमानत्वात्" तथा "विंशत्युत्तरशतमध्यान्नरकत्रिकादिप्रकृतिद्वादशकं विना शेषमष्टोत्तरशतं पद्मलेश्यायामोघतो बध्यते, तल्लेश्यावतां सनत्कुमारादिदेवानां तिर्यक्प्रायोग्यबध्नतामुद्योतादिप्रकृतिचतुष्कस्य बन्धसम्भवान्नात्र तबन्धाभावः” इत्यादि । तथा च सत्यानिषिद्धं शुक्ललेश्याकानां तिर्यग्गतिगमनं नरकगतिगमनं च, पद्मलेश्यावतां तु नरकगतिगमनमेव निषिद्धम् , न तु तिर्यग्गतिगमनमपि । इत्थं हि व्यवस्थितः पद्मलेश्यावतां तिर्यग्गतिप्रायोग्यस्य तिर्यगायुषोऽपि बन्धः, शुक्ललेश्यावतां तु नेति । एवं च स्थिते ब्रह्मदेवलोकपर्यन्तानां देवानामेव पद्मलेश्या, न तु तदुपरितनकल्पवासिनामित्येक एव मतस्तदाऽऽनत
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International