________________
बंधविहाणे मूलप डिठिइबंधो
ते - पउमासु अयरा दो अट्ठारह कमा मुणेयव्वा । होइ दुवीसा जलही तिरिक्खजोणिमह - देसेसु ॥५३॥ जलही एगतीसा सासाणे जेठगो सरिणम्मि । पलिया संखियभागो जलहितेत्तीसा ||५४ ||
सेसास
(प्रे०) परिहारे" इत्यादिगाथाचतुष्कम्, “परिहारे" त्ति परिहारविशुद्धिकसंयममार्गणायाम् "कालगनी "त्ति कालगत : - मृत्युमितः परिहारविशुद्धिकसंयतः ' उप्पज्जइ जेटुप्रो सहस्सारे "त्ति ज्येष्ठतः - उत्कृष्टतः सहस्राराख्येऽष्टमकल्पे उत्पद्यते, न पुनस्ततः परतः, यतो देवलोके उत्पद्यमानस्य परिहारविशुद्धिकस्योत्कृष्टतः स्थितिर्भगवत्यामष्टादश सागरोपमाण्यभिहिता । तथा च तद्ग्रन्थ:-- "परिहारबिसुद्धियस्स पुच्छा, गोयमा ! जहन्नेणं दो पलिवमाइं, उक्को सेणं अट्ठारस सागरोवमाई" इति ।
ततः किम् ? ततो भगवत्यभिप्रायेण परिहारविशुद्धिकसंयममार्गणायामायुष उत्कृष्टस्थितिबन्धोऽष्टादशसागरोपमाणि सम्भवति, न पुनस्तदधिक इति । अत्र महाबन्धकाराभिप्रायमाह-"बिति परे" इत्यादि, परिहारविशुद्धिकसंयममार्गणायां परे - महाबन्धकारा जलधयः - सागरोपमाणि त्रयस्त्रिंशदुत्कृष्टस्थितिबन्धो भवतीति ब्रुवन्ति इति । "अयरा प्राउस्स"त्ति ठिइबंधो उक्कोसो" इत्येतत्पदद्वयमत्रापि सम्बध्यते, ततः प्रकृतस्याऽऽयुपोऽवाधायाः पृथगभिहितत्वात्तया हीनोऽनुभवयोग्यतालक्षणः स्थितिबन्ध उत्कृष्टतोत्तराः - सागरोपमाणि, भवन्तीति शेषः । कस्यां कस्यां मार्गणायां कियन्ति कियन्ति सागरोपमाणीत्याह - " णीलकाऊ सु" मित्यादि, नील- कापोतलेश्यामार्गयोः ' दस तिणि कमा" ति क्रमाद् दश सागरोपमाणि त्रीणि सागरोपमाणि चेत्यर्थः । एतानि च मूलेऽनुक्तान्यपि साधिकानि बोद्धव्यानि । कस्मात् ? नीललेश्या मार्गणायामायुष उत्कृष्टस्थितिबन्धः साधिकानि दशसागरोपमाणि जायत इतिकृत्वा । यत्र योऽधिकांशः स पल्योपमासंख्येयभागमात्रो ग्रन्थकृता लाघवार्थं नाभिहितस्तथाऽप्यसौ व्याख्यानतो विशेषप्रतिपत्तिरिति न्यायेन व्याख्यानाद् बोद्धव्यो भवति । तदुपपत्तिस्त्वेवम् - नीललेश्यायामुत्कृष्ट स्थितिकायुषो बन्धका मनुष्यास्तिर्यञ्चो वा भवन्ति, एतच्चाग्रे स्वामित्वद्वारे वच्यते ग्रन्थकृतैव । ते च नीललेश्याका मनुष्यतिर्यञ्च उत्कृष्टस्थितिकमायुर्निरयसत्कं बध्नन्ति तत्प्रायोग्यमायुर्वघ्नन्त एते तिर्यङ्मनुष्याः पल्योपमासङ्ख्यभागेनाधिकदशसागरोपमेभ्योऽधिकां स्थिति न बध्नन्ति । कुतः ? तदधिकस्थितिकनरकायुर्वन्धस्य कृष्णलेश्यायां भावात् । एतदपि कुतः ? तदधिकायुषां नारकाणां कृष्णलेश्यत्वात् । उक्तं च द्रव्यलोकप्रकाशे पञ्चमपृथिवीवर्णनायाम् – " केषांचिदाद्यप्रतरे नारकाणां भवेदिह । नीललेश्या यदुकृष्टादृत्यस्याः स्थितिराहिता ।। २५८|| पल्योपमासंख्यभागाधिका दशपयोधयः । ततोऽधिकस्थितीनां तु तेषां कृष्णैव केवलम् || २५६ || ” युग्ममिति । इत्थमेव कापोत लेश्यामार्गणायामपि मूलोक्तस्थितिबन्धः साधिको द्रष्टव्यः कुतः ? कापोतलेश्याकनैरयिकाणामुत्कृष्टस्थितेः साधिकत्रिसागरोपमप्रमाणत्वात् । उक्तं चोत्तराध्ययन सूत्रे – “दस वाससहरसाई काऊ ठिई जहनिया होइ। तिररगुदही पलियोत्रमासंखभागं च उक्कोसा || ४१ || ” इति लेश्याध्ययने ।
"
↑
८२ ]
Jain Education International
For Private & Personal Use Only
[ मार्गणास्थानेष्वायुषः
www.jainelibrary.org