________________
[८१
उत्कृष्टस्थितिबन्धस्य ] द्वितीयाधिकारे स्थितिबन्धप्रमाणद्वारम वनस्पतिकायभेदेषु च प्रत्येकमायुष उत्कृष्टाऽप्यबाधाऽन्तमुहूर्तमात्रा भावनीया, अन्तमुहर्तस्थितिकत्वात् तेषां सर्वेषाम् । तदन्यभेदेषु तूत्कृष्टस्थितिका कायादिजीवानां प्रवेशात् तदीयोत्कृष्टभवस्थित्यनुसारेण सा बोद्धव्या । पृथिवीकायाप्कायादीनामुत्कृष्टभवस्थितिप्रदर्शिका गाथा त्वियम् ----
__बावीससगतिदसवाससहसगणितिदिण बेइंदियाइसु।
बारसवासुणपणदिणछम्मासतिपलिय ठिई जिवा ॥२५६।। इति । विशेषतस्तु प्रतिमार्गणमुत्कृष्टभवस्थितिः प्राक्प्रकृतिबन्धप्रथमाधिकारान्तद्वारेऽभिहिता इति तत एव द्रष्टव्या इति ॥४८॥४६॥
तदेवं निरयगत्यादिनवनवतिमार्गणास्वायुष उत्कृष्टामवाधामभिधाय तास्वेवाऽऽयुषोऽनुभवयोग्यतालक्षणस्थितिबन्धप्रमाणमाह
एअासु पुव्यकोडी ठिइबंधो अाउगस्स उक्कोसो ।
(प्रे०) “एमासु पुव्वकोडो” इत्यादि, एतास्वनन्तरोक्तासु निरयगत्योघादिनवनवतिमार्गणासु प्रत्येकमायुरेशयुष्कस्तस्याऽऽयुष्कस्योत्कृष्टः स्थितिबन्धः “पुवकोडी" ति पुर्वकोटीवर्पप्रमाणः, भवतीति शेपः । तत्र पूर्वप्रमाणं त्वन्यजेत्थमभिहितम्– “पुब्बस्स उ परिमाणं सयरिं खलु बासकोडी लक्खाओ । छप्पन्नं च सहस्सा बोद्धव्वा वासकोडीणं ॥२६२।।” इति ॥
अथोक्तशेपासु चतुःषष्टिमार्गणासु प्रस्तुतमायुष उत्कृष्टस्थितिबन्धप्रमाणं दिदर्शयिपुरादौ तास्ववाधामानं दर्शयति
सेसामु पुवाणं कोडितिभागो गुरुग्रवाहा ॥५०॥
(प्रे०) "सेसासुं पुव्वाण" मित्यादि, अभिहितशेपासु वक्ष्यमाणस्थितिबन्धप्रमाणासु तिर्यग्गत्योपादिमार्गणासु प्रत्येकं 'पुव्वाणं कोडितिभागो गुरुप्रबाहा" त्ति बध्यमानपारभविकायषो वेद्यमानायुरवशेषरूपा दलनिषेकाऽयोग्यकाललक्षणा गुरुरवाधा पूर्वकोटीविभागप्रमाणा भवतीत्यर्थः । अयम्भावः-- एतासु शेषमार्गणासु प्रत्येकं प्रविष्टः पूर्वकोटीवर्षायुष्मद्भिस्तिर्यग्भिर्मनुष्यैर्वा यदा वेद्यमानायुषोर्द्रयोस्त्रिभागयोनिष्क्रान्तयोस्तृतीयभागप्रारम्भे पारभविकायुर्वन्धः क्रियते तदा प्रकृतोत्कृष्टाऽबाधा लभ्यत इति ॥५०॥
एतासु शेपमार्गणासु कर्मदलनिषेकरू पोऽनुभवयोग्यतालक्षणस्थितिबन्धस्तद्युत्कृष्टतः कियान् भवतीत्यत्राह
परिहारे कालगो उप्पज्जइ जेठ्नो सहस्सारे । इइ भगवईत्र भणियं विति परे जलहितेत्तीसा ॥५१॥ ठिइबंधो उक्कोसो अयरा पाउस्म णीलकाऊ। दस तिषिण कमा अरणे भणन्ति सत्तरह सत्त पुणो ॥५२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org