________________
८०]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्थानेष्वायुषः (प्रे०) "पाउस्स खलु” इत्यादि, आयुषो वेद्यमानायुरवशेषरूपाऽबाधा खलु ज्ञातव्या इति द्वितीयगाथाप्रान्तेऽन्वयः । केषु मार्गणाभेदेषु कियतीत्याह-"सव्वेसु णिरयसुरेसु" इत्यादि, सर्वेषु निरयगतिमार्गणाभेदेषु, सर्वेषु देवगतिमार्गणाभेदेषु, “विउवे य” त्ति वैक्रियकाययोगमार्गणाभेदे चेत्येतेष्वेकोनचत्वारिंशन्मार्गणाभेदेषु प्रत्येकम् “उक्कोसा छम्मासा" ति उत्कृष्टा पण्मासाः । कुतः? देवनायिकर्वेद्यमानायुषि षण्मासेऽनवशेषे पारभविकायुर्वन्धस्याऽकरणात् । उक्तं च कर्मप्रकृतिचूणा
“देवनेरइयअसंखेज्जवासाउयतिरियमणुयाणं आउगस्स अबाहा छम्मासा उक्कोसा भवति ॥” इति।। ___ "उरालमीसे महत्तंतो" ति औदारिकमिश्रकाययोगमार्गणाभेदे 'मुहूर्तान्तः'-अन्तर्मुहूर्तम्, उत्कष्टाबाधा इत्यनुवर्तते । कुतोऽन्तमुहूर्तम् ? उच्यते, औदारिकमिश्रकाययोग्यवस्थायां ह्यायुषो बन्धका लब्ध्यपर्याप्ता जीवा एव, ते चान्तमुहूर्तस्थितिकाः, तथा च सति प्रागुक्तनीत्या भवतृतीयभागावशेषे आयुबन्धकरणेऽपि तेषामुत्कृष्टाऽबाधाऽन्तमुहूर्तमेवावाप्यते, न पुनस्तदधिका । लब्ध्यपर्याप्तवर्जानां त्वौदारिकमिश्रकाययोग्यवस्थायामायुबन्ध एव न भवति, इत्थं हि प्रकृतमार्गणायामायुष उत्कृष्टाऽप्यबाधाऽन्तमुहूर्तमेवोक्तेति । "जेट्ठभवठिइतिभागो" त्ति मार्गणागतजीवेषु यस्य कस्यापि या ज्येष्ठा-उत्कृष्टा 'भवस्थितिः'-वेद्यमानायुमानम् , तस्या ज्येष्ठभवस्थितेस्त्रिभागः-तृतीयभागः. उत्कृष्टाबाधा इति प्राग्वद् योज्यम् । केषु मार्गणाभेदेष्वित्याह-"एगिदियविगलपंचकायेसु सव्वेसं" इत्यादि. एकेन्द्रिय-विकलेन्द्रिय-पृथिव्यादिवनस्पतिकायान्तपञ्चकायभेदेषु सर्वेषु, एतेषामेकेन्द्रियादीनामोघ-सूक्ष्म-बादर-पर्याप्ता-ऽपर्याप्तादिभेदनिष्पन्ना ये पञ्चपञ्चाशद् भेदास्तेषु मूलोत्तरभेदरूपेषु सर्वेष्वित्यर्थः। उक्तं च पञ्चसंग्रहे उत्कृष्टमबाधामानं दर्शयता ग्रन्थकृता--"इगविगलाणं भवट्रिहतंसो" इति । अन्यमार्गणा भेदान् संग्रहीतुमाह- "सेसेसुं असमत्तेसु"ति अनन्तरगृहीतैकेन्द्रियादिभेदेष्वप्रविष्टा ये शेषा अपर्याप्तपञ्चेन्द्रियतिर्यग-पर्याप्तमनुष्या-ऽपर्याप्तपञ्चेन्द्रिया-ऽपर्याप्तत्रसकायलक्षणाश्चत्वारोऽपर्याप्तभेदास्तेष्वित्यर्थः । इदमुक्तं भवति-देवनिरयवर्जानां संख्येयवर्षायुषां तिर्यङमनष्याणां वेद्यमानायुपश्चरमे तृतीये भागे वेदयितुभनारब्धे पारभविकायुर्वन्धो नैव भवतीत्यादि प्रागस्मिन्नेव प्रकरणे प्रसङ्गाद् व्याख्यातम् , ततश्यमेकेन्द्रियादीनां ज्येष्ठभवस्थितितृतीयभागप्रमाणोत्कृष्टाऽवाधा सुखेन गम्यते, तथाहि-एतास्वेकेन्द्रियोघाघेकोनषष्टिमार्गणासु प्रत्येकमस्ति संख्येयवर्षायुषां तिरश्चां मनुष्याणां वा समावेशः, तत्रापि पृथिवीकायौषभेद-वादरपृथिवीकायौघ-पर्याप्तबादरपृथिवीकायभेदेषु द्वाविंशतिवर्षसहस्रप्रमाणोत्कृष्टस्थितिकानां पर्याप्तखरबादरपृथिवीकायजीवानां समावेशादुत्कृष्टाऽबाधा द्वाविंशतिवर्षसहस्रतृतीयभागप्रमाणा लभ्यते । अपर्याप्तबादरपृथिवीकायभेदे तु सा तावती न लभ्यते. कुतः ? तस्मिन् तेषामुत्कृष्टस्थितिकानां पर्याप्तखरबादरपृथिवीकायजीवानामप्रवेशात् । तर्हि तस्मिन कियती लभ्यते ? अन्तमुहूर्तमात्रा । कस्माद् ? उच्यते,-अपर्याप्ततयात्र लब्ध्यपर्याप्ता इष्यन्ते, ते चोत्कृष्टतोऽप्यन्तमुहूर्त स्थितिका एव भवन्ति, ततोऽबाधाऽपि तदीयभवतृतीयभागप्रमाणाऽन्तम हतमात्रा भवति । इत्थमेव पृथिव्यादिसत्केषु सर्वाऽपर्याप्तभेदेषु, सर्वसूक्ष्मजीवभेदेषु, सर्वेषु साधारण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org