________________
उत्कृष्टस्थितिबन्धस्य ] द्वितीयाधिकारे स्थितिबन्धप्रमाणद्वारम्
[७६ स्त्रयो वेदमार्गणाभेदाः, तथैव क्रोधादिकषायभेदाचत्वारः कषायमार्गणाभेदाः, मत्यज्ञान-श्रुताज्ञानविभङ्गज्ञानरूपास्त्रयोऽज्ञानभेदाः, असंयममार्गणाभेदः, चक्षुर्दर्शना-ऽचक्षुदर्शनभेदौ, शुक्ललेश्यावर्जाः कृष्णादिपञ्चलेश्यामार्गणाभेदाः, भव्या-ऽभव्यमार्गणे, मिथ्यात्वमार्गणा, संज्ञिमार्गणा-ऽऽहारिमार्गणा चेति ।
नन प्रस्तुतबन्धविधानग्रन्थप्रारम्भे ग्रन्थकृताऽऽदेशतो नरकगत्यादिचतुःसप्तत्युत्तरशतमार्गणासु प्रकृत्यादिबन्धचतुष्टयं प्ररूपणीयत्वेन प्रतिज्ञातं, तथैव प्रकृतिवन्धे प्ररूपितं च, अत्रापि तयैव नीत्या चतुःसप्तत्युत्तरशतमार्गणातु प्ररूपितव्यं, तथा च सत्यनन्तरं पृथक पृथगभिहिता अपर्याप्ततियेगादिव्युत्तरशतमार्गणाः संत्यज्य शेषा एकसप्ततिमागेणाः शेषमागंणात्वेन द्रष्टव्या भवन्ति, तत्कथमकषाय-केवलज्ञानादिमार्गणा अपि शेषमार्गणासु न सङगृहीताः ? इति चेद, उच्यतेसर्वा प्ररूपणा सत्पदप्ररूपणापूर्विका कर्तव्या भवति, अन्यथा वस्तुनः सत्त्वा-ऽसत्त्वनिर्णयाभावे किमश्वघटादिवत् सतः स्थितिबन्धस्य प्रमाण-स्वामित्वादिकं प्ररूप्यते, उताकाशकेशवदसतः कल्पनाशील्पिविनिर्मितस्येति संदोहदोलादोलायितविद्वज्जनमनसस्तपणं न स्यात् , ततः स्थितिबन्धेऽपि प्रकृतिवन्धवदादौ सामान्येन मार्गणास्थानेषु च सा सत्पदप्ररूपणाऽवश्यं कर्तव्या, किन्तु सुगमत्वात सा ग्रन्थकृता पृथग् न दर्शिता, तथाऽपि यदा प्रकृतिबन्धवत् स्थितिबन्धोऽपि सत्पदप्ररूपणाविषयीक्रियते तदा यथा प्रकृतिबन्धे आयुर्वन्धो वैक्रियमिश्रकाययोगाद्येकादशमार्गणावर्जासु शेषमार्गणास्वेव सन् प्राप्तः, न पुनक्रियमिश्रकाययोगादिमार्गणस्वपि, ततश्च यथा तत्र स्वामित्वादिद्वारेषु वैक्रियमिश्रकाययोगादिमार्गणा अधिकृत्यायुपः स्वाम्यादिचिन्ता न कृता, अर्थात् ता वैक्रियमिश्रकाययोगायेकादशमार्गणा आयुर्वन्धविषयचिन्तायां न परिगणितास्तथा कषायोदयप्रत्ययो मूलाष्टकर्मसत्कस्थितिबन्धोऽपि कषायोदयविरहितास्वकषाय-केवलज्ञान-यथाख्यातसमय-केवलदर्शनरूपासु चतसषमार्गणासु न सल्लभ्यते, इत्थं हि तत्र मार्गणाचतुष्के स्थितिबन्धस्यासचात् स्थितिबन्धप्रमाण-स्वाम्यादीनामप्यसम्भव एव, तत एव ताश्चतस्रो मार्गणा मूलत एव न परिगणिताः, उक्तनीत्यैवायुषः स्थितिबन्धे वैक्रियमिश्रकाययोगायेकादशमार्गणा न गणयिष्यन्ते च, प्रकृतिबन्धाविनाभावित्वात्स्थितिबन्धस्य । वैक्रियमिश्रकाययोगाद्यकादशमार्गणास्वायुर्वन्धाऽसत्वं तु प्राक प्रकृतिबन्धे आवेदितमेवेत्यलं विस्तरेण ॥४७॥
तदेवं दर्शितं सप्तानां मूलकर्मणामुत्कृष्टस्थितिवन्धप्रमाणमादेशतोऽपि । साम्प्रतमुक्तशेषस्याऽऽयुष उत्कृष्टस्थितिबन्धप्रमाणं मार्गणास्थानेषु प्ररूपयितुकाम आह–
अाउस्स खलु अबाहा सव्वेस णिरय-सुरेसु विउवे य । उक्कोसा छम्मासा उरालमीसे मुहुत्तंतो ॥४८॥ जेट्टभवठिइतिभागो एगिदिय--विगल--पंचकायेसू । सव्वेसु सेसेमु असमत्तेसु मुणेयव्वा ॥४६॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org