________________
2
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्थानेषु सप्तानाम् (प्रे०) “गयवेए घाईण" मित्यादि, अपगतवेदमार्गणायाम् “घाईणं" ति मोहनीयस्य वक्ष्यमाणत्वात्तद्वर्जानां ज्ञानावरण-दर्शनावरणा-ऽन्तरायलक्षणानां त्रयाणां घातिकर्मणां प्रत्येकं "संखसहस्सवरिसाऽत्थि' ति संख्येयानि वर्षसहस्राण्युत्कृष्टस्थितिबन्धोऽस्ति । “संखसमा” त्ति संख्येयाः समाः-वर्षाणि “मोहस्स"ति मोहनीयकर्मण उत्कृष्टस्थितिबन्धो भवतीत्यर्थः । एवमुतरत्रापि । ततः 'अघाईणं" ति सप्तानामेवोत्कृष्टस्थितिबन्धस्य वक्त प्रक्रान्तत्वाद् वेदनीय-नाम-गोत्रलक्षणानां त्रयाणामघातिकर्मणाम् "असंखिययमो पलियभागो" त्ति असंख्येयतमः पल्योपमभागः, पल्योपमाऽसंख्येयभागप्रमाण उत्कृष्टस्थितिबन्ध इत्यर्थः । इति ॥४६॥ अथ सूक्ष्मसम्परायमार्गणायां प्रकृतोत्कृष्टस्थितिबन्धं प्रदर्शयन् लाघवार्थं शेषमार्गणास्वतिदिशंश्चाह--
सुहुमे कमा पुहुत्तं मुहुत्त-मासाण घाइ-इयराणं ।
अहव दिण-समाण कमा पुहत्तमोघव सेसासु ॥४७॥ (प्रे०) “सुहमे कमा पुहुत्त"मित्यादि, सूक्ष्मसम्परायसंयममार्गणायां क्रमात् "पुहत्तं मुहत्तमासाण"त्ति मुहूर्तानां पृथक्त्वं मासानां पृथक्त्वं चेत्यर्थः, उत्कृष्टस्थितिबन्ध इति गम्यते । केषां कर्मणां क्रमात् मुहूर्तपृथक्त्वं मासपृथक्त्वं चोत्कृष्टस्थितिबन्धः ? इत्याह-"घाइइयराण"मिति सूक्ष्मसम्परायमार्गणायां बन्धप्रायोग्यानां ज्ञानावरण-दर्शनावरणा-ऽन्तरायलक्षणानां त्रयाणां घातिकर्मणां तदितरेषां वेदनीय-नाम-गोत्र-लक्षणानां त्रयाणामघातिनां च, त्रयाणां घातिनामुत्कृष्टस्थितिबन्धो मुहूर्तपृथक्त्वम् , त्रयाणामघातिनामुत्कृष्टस्थितिबन्धस्तु मासपृथक्त्वमित्यर्थः । अत्रैव विकल्पान्तरं दयितुमाह- अहव दिणसमाण कमा पुहुत्तं" ति अथवैतेषां त्रयाणां घातिनां त्रयाणामघातिनां च क्रमादिनानां समानां च पृथक्त्वम्, त्रयाणां घातिनां दिवसपृथक्त्वमुत्कृष्टस्थितिबन्धस्त्रयाणामघातिनां तु वर्षपृथक्त्वमुकृष्टस्थितिवन्ध इत्यर्थः । “मोघव्व सेसासु" ति अपर्याप्तपञ्चेन्द्रियतिर्यगादिवर्जासूक्तशेषासु नरकगत्यादिसप्तषष्टिमार्गणासु प्रत्येकमौधिकोत्कृष्टस्थितिबन्धस्वामिनां पर्याप्तसंज्ञिपञ्चेन्द्रियमिथ्यादृष्टिजीवानां प्रवेशात् प्रकृतानामायुर्वर्जानां सप्तकर्मणामुत्कृष्टस्थितिबन्ध श्रोधवद भवतीत्यर्थः । उक्तशेषमार्गणा नामत इमाः-नरकगत्योघभेदः, धर्मादिपृथिवीभेदेन सप्तोत्तरभेदाः, इत्थं नरकगतिसत्का अष्टौ भेदाः, तिर्यग्गत्योधभेदसहिताः पञ्चेन्द्रियतिर्यगोघ-पर्यातपञ्चेन्द्रियतिर्यक्-तिरश्चीरूपाश्चत्वारो भेदाः, मनुष्यगत्योध-पर्याप्तमनुष्य-मानुपीरूपास्त्रयो भेदाः, देवगत्योघभेदः, भवनपत्यादिसहस्रारकल्पान्ता अन्ये एकादशेति देवगतिसत्का द्वादशभेदाः, पञ्चेन्द्रियौघपर्याप्तपञ्चेन्द्रियभेदौ, त्रसकायौव-पर्याप्तत्रसकायभेदौ, मनोयोगसामान्यभेदः, सत्यमनोयोगा-ऽसत्यमनोयोग-सत्यासत्यमनोयोगा-ऽसत्यामृषामनोयोगरूपाश्चत्वार उत्तरभेदाश्व, एवं वचनयोगसामान्यसत्यवचनयोगा-ऽसत्यवचनयोग-सत्यासत्यवचनयोग-व्यवहारवचनयोगभेदात् पञ्च वचनयोगभेदाः, काययोगसामान्यौ-दारिककाययोग-वैक्रियकाययोगरूपास्त्रयः काययोगभेदाः, स्त्री-पुरुष-नपुसकाख्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org