________________
उत्कृष्ट स्थितिबन्धस्य ] द्वितीयाधिकारे स्थितिबन्धप्रमाणद्वारम्
७७ पलिअोवमस्स हीणो भागेण असंखियेण उक्कोसो।
संखंसेणं हीणो पलियस्स अपज्जविगलेसु॥४५॥ (प्रे०) “णवरं णेयो” इत्यादिगाथाद्वयम्, नवरं-परमेकेन्द्रियाद्युक्तमार्गणाभेदेष्वपि “बायरअसमतेंगिदि" त्ति बादरापर्याप्तैकेन्द्रियमार्गणाभेदे, तथा 'सव्वसुहुमेसुं" ति ओघपर्याप्ताऽपर्याप्तभेदभिन्नेषु सर्वेष्वेकेन्द्रियपृथिव्यादिसत्केषु सूक्ष्मैकेन्द्रियोघाद्यष्टादशमार्गणाभेदेषु, तथा 'बायरअपज्जपुहवाइचउग" ति बादरापर्याप्तपृथिवीकाय-बादरापर्याप्ताप्काय-बादरापर्याप्ततेजस्काय-बादरापर्याप्तवायुकायमार्गणालक्षणा ये बादरापर्याप्तपृथिव्यादिचतुर्भेदास्तेष्वित्यर्थः । तथा “पत्तेप्रवणणिगोएसं" ति "बायरअपज्ज" इत्यस्यात्रापि योजनाद् बादरापर्याप्तप्रत्येकवनस्पतिकायमार्गणाभेदे बादरापर्याप्तनिगोदभेदे चेत्यर्थः । अत्र प्रत्येकवनस्पतिकायपक्षे बादरेति विशेषणं स्वरूपदर्शकमेवावसातव्यम् , निगोदेत्यनेन साधारणवनस्पतिकायभेदश्च ग्राह्यः । एवमुत्तरत्रापि प्रकरणवशादविरोधेन समन्वयो द्रष्टव्य इति । एतेषु बादरापर्याप्तैकेन्द्रियादिपञ्चविंशतिमार्गणाभेदेषु "पलिनोवमस्स हीणो भागेण असंखियेण उक्कोसो' ति मोहनीयोत्कृष्टस्थितिभागहरणप्रक्रिययाऽऽनीतो ज्ञानावरणादीनां सागरोपमस्य त्रिसप्तभागादिप्रमाणः स्थितिबन्धोऽपि पल्योपमस्याऽसंख्येयेन भागेन हीनः सन्नुत्कृष्टस्थितिबन्धो ज्ञेय इति पूर्वेण योगः। इयमत्र भावना-एकेन्द्रियादिभिन्न भिन्नजातीयजीवानां प्रायोग्यो य उत्कृष्टस्थितिबन्धः स पर्याप्तवादरजीवैरेव क्रियते, न त्वपर्याप्तः सूक्ष्मैर्वा । इत्थं च बादरापर्याप्तकेन्द्रियादिप्रकृतपञ्चविंशतिमार्गणासु प्रत्येकं बादरपर्याप्तजीवानामसमावेशेन तास्वसावपोद्य पल्योपमाऽसंख्येयभागेन न्यूनोऽभिहितः, तथा च सति प्रकृतपञ्चविंशतिमार्गणासु ज्ञानावरण-दर्शनावरणवेदनीया-ऽन्तरायकर्मणां प्रत्येकं पल्योपमासंख्येयभागेनोनाः सागरोपमस्य त्रिसप्तभागा उत्कृष्टस्थितिबन्धो ज्ञातव्यः। मोहनीयस्य पल्योपमासंख्येयभागेनोनं सागरोपममुत्कृष्टस्थितिबन्धो बोद्धव्यः । नामगोत्रयोरप्येवमेव सागरोपमस्य द्वौ सप्तभागौ पल्योपमासंख्येयभागेनोनो उत्कृष्टतोऽपि द्रष्टव्य इति । एकेन्द्रिय-पृथिव्यादिसत्केघोष-बादरौष-बादरपर्याप्तभेदेषु तूक्तकरणेन यथा प्राप्तस्तथैव सागरोपमस्य त्र्यादिसप्तभागाः सम्पूर्णा एव बोद्धव्य इति । अन्यत्र द्वीन्द्रियादिमार्गणाभेदेषु यत्र पर्याप्तजीवानामप्रवेशस्तत्राऽप्यपवदति-"संखंसेणं हीणो' इत्यादि, "अपज्जविगलेसु" त्ति अपर्याप्तद्वीन्द्रिया-ऽपर्याप्तत्रीन्द्रिया-ऽपर्याप्तचतुरिन्द्रियलक्षणेसु त्रिषु मार्गणाभेदेषु पञ्चविंशत्यादिगुणनप्रकारेणाऽऽनितः स्थितिबन्धः पल्योपमसंख्येयभागेन हीनः सन्नुत्कृष्टो ज्ञेय इति पूर्वतोऽनुवर्तत इति । सुगमम् ॥४४॥४५॥
अथ कयाऽपि मार्गणयाऽसाम्यमितिकृत्वाऽपगतवेद-सूक्ष्मसम्परायसंयममार्गणयोः पृथक् पृथग् व्याजिहीर्षुरादावपगतवेदमार्गणायामाह
गयवेए घाईणं संखसहस्सवरिसाऽत्थि संखसमा । मोहस्स अघाईणं असंखिययमो पलियभागो॥४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org