________________
७६ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्थानेषु सप्तानाम् इदमेव ज्ञानावरणादीनामेकेन्द्रियादिमार्गणासत्कोत्कृष्टस्थितिबन्धप्राणं पञ्चविंशत्या ताडितं सद् द्वीन्द्रियजातिमार्गणाभेदेषु ज्ञानावरणादीनामुत्कृष्टस्थितिबन्धप्रमाणं भवति । तद्यथा-एकेन्द्रियोघादिमार्गणासु ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायकर्मणां प्रत्येकमुत्कृष्ट स्थितिबन्धो यः सागरोपमस्य त्रयः सप्तभागाः प्राप्तास्तस्मिन् पञ्चविंशत्या ताडिते जाताः (३४ २५ = ७५ ) सागरोपमस्य पञ्चसप्ततिः; सप्तभागाः । एतावान् द्वीन्द्रियजातिमार्गणाभेदेषु ज्ञानावरणादीनां चतुर्णामुत्कृष्टस्थितिबन्धो जायते । इत्थमेवैकेन्द्रियसत्कमोहनीयस्थितिबन्धे पञ्चविंशत्या ताडिते (१४२५=२५) पञ्चविंशतिः सागरोपमाणि प्राप्तानि, एतावान् द्वीन्द्रियजातिमार्गणाभेदेषु मोहनीयस्योत्कृष्टस्थितिबन्धो भवति । एकेन्द्रियसत्कनामगोत्रयोरुत्कृष्टस्थितिबन्धे पञ्चविंशत्या गुणिते प्राप्ताः (२४२५=५९) सागरोपमस्य पञ्चाशत् सप्तमभागाः, एतावद् द्वीन्द्रियजातिमार्गणाभेदेषु नामगोत्रयोः प्रत्येकमुत्कृष्टस्थितिबन्धमानम् ।
____ इत्थमेवैकेन्द्रियमार्गणासत्के ज्ञानावरणादीनामुत्कृष्टस्थितिबन्धे पञ्चाशता हते त्रीन्द्रियजातिसत्कमार्गणाभेदेषु ज्ञानावरणादीनामुत्कृष्टस्थितिबन्धप्रमाणं प्राप्यते । तद्यथा-त्रीन्द्रियजातिसत्कमार्गणाभेदेषु ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायाणां प्रत्येकमुत्कृष्टस्थितिबन्धमानं पञ्चाशत् शतं च सागरोपमसप्तभागाः (१५० सागरोप०)। मोहनीयस्य पञ्चाशत् सागरोपमाणि ( ५० सागरोपम० )। नामगोत्रयोः प्रत्येकमुत्कृष्टस्थितिबन्धप्रमाणं तु सागरोपमस्य शतसप्तमभागा (१०० सागरोपम० ) इति । चतुरिन्द्रियजातिमार्गणाभेदेषु ज्ञानावरणादीनामुत्कृष्टस्थितिबन्धप्रमाणमानयनायैकेन्द्रियसत्को ज्ञानावरणादीनामुत्कृष्टस्थितिबन्धः शतेन गुणितव्यस्ततो ज्ञानावरणादीनां चतुर्णामुत्कृष्टस्थितिबन्धप्रमाणं सागरोपमस्य त्रिशतानि सप्तमभागा लभ्यते (३७ सागरोप० )। मोहनीयस्योत्कृष्टस्थितिबन्धः शतसागरोपमप्रमाणः प्राप्यते, (१०० सागरोपम० )। नामगोत्रयोः प्रत्येकमुत्कृष्टस्थितिबन्धप्रमाणं तु द्विशतसागरोपमसप्तमभागा अवाप्यते ( २०० सागरोप०)। असंज्ञिमार्गणायां त्वेकेन्द्रियस्योत्कृष्टस्थितिबन्धे सहस्रेण ताडिते ज्ञानावरणादीनामुत्कृष्टस्थितिबन्धो लभ्यते. स च ज्ञानावरणादीनां चतुर्णां प्रत्येकं त्रिसहस्राणि सागरोपमसप्तमभागाः ( 30. सागरोप० ) । मोहनीयस्य सम्पूर्णानि सहस्रसागरोपमाणि (१००० सागरोपमाणि)। नामगोत्रयोस्तु प्रत्येक सहस्रद्वयं सागरोपमसप्तमभागा ( २०७० सागरोप० ) इति ॥४२॥४३॥
इत्थं हि लाघवार्थमेकेन्द्रियोघादिसमुदितमार्गणाभेदेषु युगपदुत्कृष्टस्थितिवन्धप्रमाणेऽभिहिते कतिपयमार्गणासु याऽतिप्रसक्तिस्तामुद्दिधीपुरपवदन्नाह
गवरं णेयो बायरअसमत्तेगिदि-सव्वसुहमेसु । बायरअपज्जपुहवाइचउग-पत्तेप्रवण-णिगोएसू॥४४॥ (गीतिः)
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org