________________
उत्कृष्टस्थितिबन्धस्य ] द्वितीयाधिकारे स्थितिबन्धप्रमाणद्वारम्
[ ७५ (प्रे०) “मोहगुरुट्टिइभत्तो' इत्यादि, मोहनीयकर्मणो 'गुप्'-उत्कृष्टया स्थित्या भक्तः, सप्ततिसागरोपमकोटीकोटीलक्षणेनौधिकोत्कृष्टस्थितिबन्धेन विभक्त इत्यर्थः । उक्तमोहनीयोत्कृष्टस्थित्या विभक्तः कः ? इत्याह- "सत्तण्हं पोहजेठठिइबंधो" ति आयुर्वर्जानां सप्तानां यस्त्रिंशत्कोटीकोटीसागरोपमाद्यौधिकोत्कृष्टस्थितिबन्धः सः इत्यर्थः। सः विभक्तः सन् कः भवेदित्याह – “सो जेठो" इत्यादि, सः विभक्तः सन्नेकेन्द्रियजातिसत्का ये एकेन्द्रियौघ-बादरैकेन्द्रियौघ-बादरपर्याप्तैकेन्द्रियबादरापर्याप्तैकेन्द्रिय-सूक्ष्मैकेन्द्रियोघ सूक्ष्मपर्याप्तैकेन्द्रिय-सूक्ष्मापर्याप्तैकेन्द्रियलक्षणाः सप्तमार्गणाभेदाः, एवं पृथिव्यादिवायुकायान्तानां प्रत्येकं सप्त सप्त, तथा पञ्चमस्य वनस्पतिकायस्यौघ-प्रत्येकौघतत्पर्याप्ता-ऽपर्याप्त-साधारणोघ-बादरसाधारणौध-तत्पर्याप्ता-ऽपयोप्त-सूक्ष्मसाधारणोघ-तत्पर्याप्ता-ऽपर्याप्तलक्षणा ये एकादश भेदा एतेषु सर्वेषु ज्ञानावरणादीनां सप्तानां 'ज्येष्ठः'-उत्कृष्टः स्थितिबन्धो भवेत् । "स हयो” त्ति स एव मोहनीयोत्कृष्टस्थित्या विभक्तो ज्ञानावरणादीनामुत्कृष्टस्थितिबन्धो 'हतःताडितः सन् , “सत्तण्ह गुरू" ति ज्ञानावरणादीनां प्रकृतानां सप्तानां 'गुरु'-उत्कृष्टः, स्थितिबन्ध इति परेणान्वयः, भवेदिति पूर्वतो योज्यम् । केन हतः सन् कासु मागंणासु ज्ञानावरणादीनामुत्कृष्टस्थितिबन्धो भवेदित्याह-"पणवीसाए" इत्यादि, 'कमसो समथविगलेसु” इत्यादि च, उक्तप्रक्रिययाऽऽनीत एकेन्द्रियपृथिव्यादिमागणागतजीवानां यो ज्ञानावरणादिसत्कोत्कृष्टस्थितिबन्धः स पञ्चविंशत्या हतः सन् “कमसो" इति वचनाद् द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-जातिरूपभेदत्रयात्मकस्य विकलेन्द्रियस्य यः प्रथमभेदो द्वीन्द्रियजातिस्वरूपस्तस्य 'समस्तेषु'-अोध-पर्याप्ता-ऽपर्याप्तलक्षणेसु सर्वेषु भेदेषूत्कृष्टस्थितिबन्धो भवेत् । पञ्चाशता हतः-ताडितस्तु सः क्रमप्राप्तद्वितीयभेदस्य त्रीन्द्रियजातिलक्षणस्य समस्तेषु भेदेषूत्कृष्टस्थितिबन्धो भवेत् । इत्थमेव शतेन ताडितः स चतुरिन्द्रियजातिसत्कसमस्तभेदेष सप्तानामुत्कृष्टस्थितिवन्धो भवेत् । सहस्रण ताडितस्त्वसंज्ञिमार्गणाभेदे प्रकृतोत्कृष्टस्थितिबन्धो भवेदित्यर्थः । इयमत्र भावना-अोघतो ज्ञानावरण-दर्शनावण-वेदनीया-ऽन्तरायकर्मणां प्रत्येकमुत्कृष्टस्थितिबन्धस्त्रिंशत्सागरोपमकोटीकोटीप्रमाण उक्तः, तस्य सप्ततिसागरोपमकोटीकोटीप्रमाणेन मोहनीयोत्कृष्टस्थितिबन्धेन भागे ह्रियमाणे "शून्यं शून्येन पातयेत" इति नियमाल्लब्धास्त्रयः सागरोपमस्य सप्तभागाः ( सागरोपम० ), एतावानेकेन्द्रियजाति-पृथिव्यादिपञ्चकायसत्कभेदेषु ज्ञानावरणादीनां चतुर्णामुत्कृष्टः स्थितिबन्धो भवति । मोहनीयस्योत्कृष्टस्थितिबन्ध श्रोषतः सप्ततिसागरोपमकोटीकोटीप्रमाणोऽभिहितः, तस्य तावन्मात्रया मोहनीयोत्कृष्टस्थित्या भागे ह्रियमाणे उक्तनियमात् शून्येषु पातितेषु लब्ध एकः सागरोपमः (१ सागरोप०), एतावानकेन्द्रियादिप्रकृतमार्गणासु मोहनीयस्योत्कृष्टस्थितिबन्धो जायते । इत्थमेवौघतो नामगोत्रयोः प्रत्येक यो विंशतिकोटिकोटिसागरोपमप्रमाण उत्कृष्टस्थितिबन्ध उदितस्तस्मान् मोहनीयोत्कृष्टस्थित्या भागे हते, लब्धौ सागरोपमस्य द्वौ सप्तभागौ (3 सागरोप० ), एतावान् प्रकृतमार्गणासु नामगोत्रयोः प्रत्येकमुत्कृष्टस्थितिबन्धोऽस्तीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org