________________
७४ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्थानेषु सप्तानाम् दर्शनादनाहारे, अनाहारकमार्गणायामित्यर्थः । एतासु समुदितास्वपर्याप्तपञ्चेन्द्रियतिर्यगादिपञ्चचत्वारिंशन्मार्गणासु किमित्याह-'होइ सत्तण्ह"मित्यादि, आयुर्वर्जानां सप्तानां कर्मणामुत्कृष्टस्थितिवन्धोऽन्तःकोटीकोट्यः "अयरा” ति अतिमहत्त्वादुदधिवत्तरितुमचिरात्पारं नेतु न शक्यन्त इत्यतराः, सागरोपमाणीत्यर्थः । ननु कस्मादेतासु मार्गणासु प्रत्येकं सप्तानामुत्कृष्टोऽपि स्थितिबन्धोऽन्तःकोटिकोटीसागरोपमाण्येव भवति, न पुनरोधोत्कृष्टः ? इति चेद्, उच्यते,-संज्ञिपर्याप्तजीवान विवर्य न केषाञ्चिदपि जीवानामौधिकोत्कृष्टस्थितिबन्धो जायते, संज्ञिपर्याप्तानामपि मिथ्यावोदयादिसामग्रीसद्भावेऽसौ जायते, नान्यथा । वक्ष्यते चात्रैव ग्रन्थे स्गमित्वद्वारे ओघोत्कृष्टस्थितिबन्धस्वामिनः प्रदर्शयता ग्रन्थकृता यत्
"सागारो जागारो सुअओवउत्तो पणिंदियो सरणी। पज्जत्तो सव्वाहिं पज्जत्तीहिं चउगइट्ठो ।। ७७ ।। मिच्छादिट्ठी उ परमसंकेसेणीसिमझिमेणं वा । परिणामेणं बंधइ सत्तण्ह ठिई उ उक्कोसं ॥ ७८ ॥' इति ।
किञ्च सासादनाद्यपूर्वकरणान्तगुणस्थानगतानां पर्याप्तानामपर्याप्तानां वा जीवानां मूलसप्तप्रकृतिसत्क उत्कृष्टो जघन्यो वा स्थितिवन्धोऽन्तःकोटीकोटीसागरोपमेभ्योऽधिको हीनो वा नैव जायते । उक्तं च नव्यशतके देवेन्द्रसूरिपादैः- "साणाइअपुव्वंते अयरंतोकोडिकोडीउ नऽहिगो। बन्धो न ह हीणो" इति । ननु सासादनमार्गणायामेकेन्द्रियादीनामपि प्रवेशात् कथं जघन्योऽपि स्थितिबन्धोऽन्तःकोटीकोटीसागरोपमाण्येव ? इति चेत्, सत्यमेतत्, नवरं स्वल्पकालिनोऽसौ इति कयाचिद्विवक्षयोपेक्षितः सम्भाव्यते । उक्तं च तट्टीकायामपि-"केवलं कादाचित्कोऽसौ न सार्वदिक इति न तस्य विवक्षा कृतेतिसंभावयामि" इति । न चैतावन्मानं, किं तर्हि ? शुक्लेश्याकानामपि जीवानां तथाविधसंक्लेशाभावेन सप्तानामुत्कृष्टोऽपि स्थितिबन्धोऽन्तःकोटीकोटीसागरोपमेभ्योऽधिको नैव जायते । इत्थं हि प्रकृते कासुचिदपर्याप्ततिर्यक्पञ्चेन्द्रियाऽपर्याप्तमनुष्यादिमार्गणासु मिथ्यादृष्टिसंशिजीवानां प्रवेशेऽपि तेषामपर्याप्तत्वात्सप्तानामुत्कृष्टस्थितिबन्धोऽन्तःकोटीकोटीसागरोपमाणि लभ्यते, आनतकल्पादिदेवगतिभेदेषु शुक्ललेश्यामार्गणायां च पर्याप्तमिथ्याष्टिसंज्ञिजीवानां प्रवेशेऽपि तेषां शुक्ललेश्यत्वेनोत्कृष्टस्थितिबन्धोऽपि यथोक्त एव लभ्यते, आहारककाययोगादिशेषमार्गणाभेदेषु तु मिथ्यादृष्टिवर्जानां सासादनाद्यप्रमत्तान्तान्यतमगुणस्थानकवर्तिनां जीवानां प्रवेशाद् यथोक्तोऽन्तःकोटीकोटीसागरोपमप्रमाण एव स्थितिबन्ध उत्कृष्टतोऽपि प्राप्यत इति ॥ ३६॥४०॥४१॥
अथैकेन्द्रियादिमार्गणासु सप्तकर्मसत्कोत्कृष्टस्थितिबन्धमानं दर्शयन्नाह
मोहगुरुट्टिइभत्तो सत्तण्हं अोहजेट्टठिइबंधो। सो जेठो सव्वेसु एगिदिय-पंचकायभेएसु॥४२॥ (गीतिः) स यो पणवीसाए पण्णासाए सयेण सहसेणं । सत्तण्ह गुरू कमसो समत्थविगलेसु अमणम्मि ॥४३॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org