SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ मार्गणासु सप्तानामुत्कृष्टस्थितेः ] द्वितीयाधिकारे स्थितिबन्धप्रमाणद्वारम [७३ "णाणावरणीयदसणावरणीयवेयणीयअंतराइगाणं एएसिं चउण्हं कम्माणं उक्कोसतो ठिइबंधो तीसं सागरोवमकोडाकोडीओ, तिन्नि वाससहस्साणि अबाहा, अबाहूणिआ कम्मठिई कम्मणिसेगो। मोहणिज्जस्स कम्मस्सुक्कोसो ठितिबंधो सत्तरिसागरोवमकोडाकोडीओ, सत्तवाससहस्साणि अबाधा, अबाहूणिया कम्मठिती कम्मणिसेगो। णामगोत्ताणं उक्कोसश्रो ठिइबंधो वीसं सागरोवमकोडाकोडिओ, बेवाससहस्साणि अबाहा, अबाहूणिया कम्मठिती कम्मणिसेगो। आउगस्स उक्कोसओ ठितीबंधो तेत्तीसं सागरोवमाणि पुव्यकोडीतिभागभहियाणि, पुचकोडितिभागो अबाहा, अबाहए विणा कम्मट्टिई कम्मणिसेगो ॥५२॥५३।।'' इति । इत्थमेवानन्तरवक्ष्यमाणमार्गणास्थानेषूत्कृष्टजघन्यस्थितिबन्धविषये सप्तानामवाधावर्जशेषस्थितिषु तथाऽऽयुषः सर्वस्थितिषु कर्मदलनिषेकः स्वयमेव द्रष्टव्य इति ॥३७॥३८॥ ___ तदेवमुक्तं मौलानामष्टानामपि प्रकृतीनामुत्कृष्टस्थितिबन्धप्रमाणमोघतः । साम्प्रतमादेशतो व्याजिहीर्षुरादौ तावदायुर्वर्जानां सप्तानामाह असमत्तपणिदितिरियमणुसपणिदितस-प्राणताईसु। अाहारदुगम्मि विउवमीस-उरलमोस-कम्मेसु ॥ ३६॥ चउणाण-संयमेसु समइत्र-छेत्र-परिहार-देसेसु। ओहि-सुइल-सम्मेसु खाइअ-वेग-उवसमेसु॥ ४०॥ सासायण-मीसेसु तहऽणाहारम्मि होइ सत्तण्हं । अंतोकोडाकोडी अयरा उक्कोसठिइबंधो॥४१॥ (प्रे०) “असमत्तपणिदि" इत्यादि, तत्राऽपर्याप्ताऽपरपर्यायस्यासमाप्तशब्दस्य सान्तेषु प्रत्येकं योजनादपर्याप्तपञ्चेन्द्रियतिर्यग्भेदे, अपर्याप्तमनुष्यभेदे, अपर्याप्तपञ्चेन्द्रियभेदे, अपर्याप्तत्रसकायभेदे चेत्यर्थः, तथा “आणताईसु" ति आनतकल्पादिषु सर्वार्थसिद्धविमानपर्यन्तेषु द्वादशषु देवगतिसत्कमार्गणाभेदेषु, तथा "पाहारदुगम्मि" त्ति आहारकाऽऽहारकमिश्रकाययोगयोर्यद् द्विकं तस्मिन्नाहारकद्विके, आहारककाययोगमार्गणायामाहारकमिश्रकाययोगमार्गणायां चेत्यर्थः। तथा 'विउवमीसउरलमीसकम्मेसुं" ति वैक्रियमिश्रकाययोगौ-दारिकमिश्रकाययोग-कार्मणकाययोगरूपासु तिसृषु मार्गणासु, तथा “चउणाणसंयमेसु" ति केवलज्ञानवर्जेषु चतुषु मत्यादिज्ञानमार्गणाभेदेषु संयमौधमार्गणायां चेत्यर्थः । “समइअछे अपरिहारदेसेसुं" ति सामायिकसंयम-छेदोपस्थापनसंयम-परिहारविशुद्धिकसंयम-देशसंयममार्गणासु, तथा “प्रोहिसुइलसम्मेसुं” ति अवधिज्ञानस्यप्राग् मत्यादिज्ञानचतुष्के गृहितत्वाद् "अोहि" इत्यनेनावधिदर्शनमार्गणा गृह्यते, ततोऽवधिदर्शनशुक्ललेश्या-सम्यक्त्वौघमार्गणासु, तथा "खाइप्रवेअगउवसमेसु" ति क्षायिकसम्यक्त्व-वेदकसम्यक्त्वौ-पशमिकसम्यक्त्वमार्गणासु “सासायणमोसेसु" ति सासादन-सम्यग्मिथ्यात्वमार्गणयोः, गाथायां बहुवचननिर्देशस्तु प्राकृतत्वाबोद्धव्यः, यतः प्राकृतलक्षणे द्विवचनेऽपि बहुवचनमेव प्रयुज्यते, यथा “हत्था पाया" इति । "तहणाहारम्मि" ति तथाशब्दः समुच्चये, “णाहारम्मि" इत्यत्राऽकारस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy