________________
७२ ]
बंधविहाणे मूलपयडिठिइबंधो [अष्टकर्मणामुत्कृष्टस्थितेः यथावद् वस्तुनिकुरम्बं सम्यगवलोकमानो वेदयतेऽमन्दमानन्दसन्दोहम्, तत एतदर्थप्रतिपत्त्यर्थ दर्शनावरणानन्तरं वेदनीयग्रहणम् । वेदनीयं च सुखदुःखे जनयति, अभीष्टानभीष्टविषयसम्बन्धे चावश्यं संसारिणां रागद्वेषौ, तौ च मोहनीयहेतुकौ, तत एतदर्थप्रतिपत्तये वेदनीयानन्तरं मोहनीयग्रहणम् । मोहनीयमूढाश्च जन्तवो बह्वारम्भ-परिग्रहप्रभृतिकर्मादानासक्ता नरकाद्यायष्कमारचयन्ति, ततो मोहनीयानन्तरमायग्रहणम। नरकाद्यायष्कोदये चावश्यं नरकगत्यादीनि नामान्यदयसायान्ति, तत आयरनन्तरं नामग्रहणम। नामकर्मोदये च नियमादुच्चनीचान्यतरगोत्रकर्मविपाकोदयेन भवितव्यम् , अतो नामग्रहणानन्तरं गोत्रग्रहणम्। गोत्रोदये चोच्चैःकुलोत्पन्नस्य प्रायो दानलाभान्तरायादिक्षयो भवति, राजप्रभृतीनां प्राचुर्येण दानलाभादिदर्शनात; नीचैः कुलोत्पन्नस्य तु दानलाभान्तरायाधुदयः, नीचजातीनां तथादर्शनात; तत एतदर्थप्रतिपत्त्यर्थं गोत्रानन्तरमन्तरायग्रहणम ॥" इति ।।
इत्थं च व्यवस्थिते क्रमे “पढमदुइअतइअप्रमाण" ति प्रथमस्य ज्ञानावरणस्य, द्वितीयस्य दर्शनावरणस्य, तृतीयस्य वेदनीयकर्मणोऽष्टमस्याऽन्तरायकर्मणश्चेत्येतेषां चतुर्णा प्रत्येकमुत्कृष्टः स्थितिबन्धः "सागरकोडाकोडी तीसा" त्ति प्रागवत् सागरपदात सागरोपमेति गम्यमाने त्रिंशत्सागरोपमकोटीकोट्य इत्यर्थः । 'तुरिअस्स खलु सयरी" त्ति तुर्यस्य मोहनीयकर्मण उत्कृष्टस्थितिबन्धः सप्ततिः, सागरोपमकोटीकोट्य इत्यनुवर्तते । खलुशब्दस्तु वाक्यालङ्कारे। अथ पञ्चमस्याह-"पाउस्स" इत्यादिना, आयुःकर्मणो गुरुः-उत्कृष्टः स्थितिबन्धः “सागराणि तेत्तीसा' त्ति पूर्ववत्पदैकदेशे पदसमुदायोपचारात् सागरोपमाणि त्रयस्त्रिंशत्, ज्ञेय इति पूर्वेण योगः; अयं ह्यायुषः स्थितिवन्धोऽनुभवयोग्यतामपेक्ष्य योद्धव्यः, कमरूपतावस्थानलक्षणाधिकृतस्थितिबन्धप्रमाणमानयनाय तु तत्रोत्कृष्टाऽवाधाऽधिकतया प्रक्षेप्येति । अथ शेषयोद्वयोमूलकर्मणोराह-वीसा कोडाकोडो' ति नामगोत्रकर्मणोः प्रत्येकमुत्कृष्टः स्थितिबन्धो विंशतिर्जलधीनां-सागरोपमाणां कोटीकोट्य इति । अत्र ह्यनन्तरोक्तनियमानुसारेणाऽवाधानिषेकौ स्वयमेव योज्यौ । तद्यथा-ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायाणां प्रत्येकमुत्कृष्टस्थितिबन्धस्त्रिंशत्सागरोपमकोटीकोट्य उक्तोऽतस्तत्र त्रीणि वर्षसहस्राण्यवाधा, अबाधोना कमस्थितिः कर्मनिषेकः । मोहनीयकर्मणस्तूत्कृष्ट स्थितिबन्धः सप्ततिः सागरोपमकोटीकोट्यस्ततस्तत्र सप्तवर्षसहस्राण्यबाधा, अबाधोना कर्मस्थितिः कमदलिकनिपेकः। आयुष उत्कृष्टस्थितिवन्धस्त्रयस्त्रिंशत् सागरोपमाणि तथाऽपि "आउस्स जाणियव्यो ठिइबंधो चेव कम्मणणिसेगो" इति वचनात् त्रयस्त्रिंशत्सागरोपमाणि य उत्कृष्टस्थितिबन्धस्तत्प्रमाणः कर्मनिषकः । अबाधा तर्हि कियती ? उत्कृष्टा, उत्कृष्टस्थितिवन्धे उत्कृष्टाऽबाधाया ग्राह्यत्वात् , सा तु "जेट्ठाबाहा पुव्वा कोडितिभागो" इति वचनात् पूर्वकोटीत्रिभागप्रमाणा बोद्धव्येति । अयमेवायुष उत्कृष्टः स्थितिबन्धः कर्मरूपतावस्थानापेक्षया पूर्वकोटीतृतीयभागाभ्यधिकानि त्रयस्त्रिंशत्सागरोपमाणि, तत्र पूर्वकोटीतृतीयभागोबाधा, अबाधोना कर्मस्थितिः कमनिषेक इति प्रकारान्तरेणाऽपि वक्तुयुज्यते, नवरमत्रोक्तविवक्षयाऽसौ तथा नाभिहित इति । नामगोत्रयोरुत्कृष्टस्थितिबन्धो विंशतिसागरोपमकोटीकोटयो दर्शितस्ततस्तत्र द्वे वर्षसहस्रऽबाधा, अबाधोना कर्मस्थितिः कर्मनिपेको भवति । उक्तं च शतकचूणौ -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org