________________
उत्कृष्टपदे श्रोतः ]
द्वितीयाधिकारे स्थितिबन्ध प्रमाणद्वारम
[ ७१
वस्थानलक्षणस्थितिबन्धस्य प्रमाणाभिधानेन न गम्येतेतिकृत्वाऽवाधावर्जस्थितेरेव प्रमाणं वच्यते, बाधा च पृथग्वच्यते, तथापि कर्मरूपतावस्थानलक्षणस्य स्थितिबन्धस्य वक्तुं प्रक्रान्तत्वात् तद्पेक्षयैव स्वामित्वादिद्वारेषु स्वाम्यादीनां प्ररूपणीयत्वाच्चायुष उत्कृष्टं स्थितिबन्धप्रमाणमुत्कृष्टावाघां प्रक्षेप्य स्वयमेवानेतव्यम् । एवमेवाऽऽयुषो जघन्य स्थितिबन्धप्रमाणमपि जघन्यावाधा प्रक्षेप्यानेतव्यम् | यावच्च लभ्येत तावत्प्रमाणमपेच्य स्वामित्वादिप्ररूपणमुपपादनीयं चेति ||३६||
wwwxxxxxx.
तदेवमुक्तो ग्रन्थलायवार्थं पृथगेवाष्टकर्मणामवाधानिषेकप्रमाण नियमः । साम्प्रतमुत्कृष्टजघन्यभेदन्निं प्रमाणं द्रष्टव्यम्, तदप्योघतः - सामान्येन सर्वं स्थितिबन्धकजीवराशिमाश्रित्य, तथाऽऽदेशतः-प्रकृतिबन्धयन्निरयगत्याद्यनाहारिपर्यन्तासु मूलोत्तरभेदभिन्नासु मार्गणासु मार्गणागतस्थितिबन्धकजीवराशिमपेच्य प्रदश्यते, तत्रादावुत्कृष्टस्थितिबन्धप्रमाणमभिधित्सुरोघत ग्राहटिबंधो उक्कोसी पढम - दुइ त टुमाण भवे । सागरको डाकोडी तीसा तुरिअस्स खलु सयरी ॥ ३७ ॥ उस गुरू ऐयो ठिइबंधी सागराणि तेत्तीसा | वीसा कोडाकोडो जलहीणं नामगोत्राणं ॥ ३८ ॥
(प्रे०) "ठिइबंधो उक्कोसो" इत्यादि, उक्तस्वरूपः स्थितिबन्धो भवेदिति परेण योगः । कीदृश: ? " उक्कोसो" त्ति उत्कृष्ट:- उत्कृष्टपदपतितः, न पुनर्जघन्यः, तस्याग्रे वच्यमाणत्वादिति । उत्कृष्टस्थितिबन्धः केषां कर्मणां कियां भवेदित्याह - ' पढमदुइ" इत्यादि, अत्र प्रथमद्वितीये - त्यादिना ज्ञानावरण - दर्शनावरण - वेदनीय - मोहनीया - ऽऽयु - नाम - गोत्रा - ऽन्तराय लक्षणानि प्रकृतिबन्धग्रन्थे उक्तनिरुक्तान्यष्टौ मूलकर्माणि क्रमेण गृह्यन्ते । कस्मादेतेन क्रमेण प्रथमादिना ज्ञानावरणादीन्येव गृह्यन्ते ? एतेन क्रमेण तेषां सहेतुकप्रसिद्धेः । उक्तं च चान्यत्रैतेषां दर्शितक्रमोपपत्तिः
;
“इह ज्ञानं दर्शनं च जीवस्य स्वतत्त्वभूतम, तदभावे जीवत्वस्यैवायोगात् चेतनालक्षणो हि जीवः, ततः स कथं ज्ञानदर्शनाभावे भवेत् ? ; ज्ञानदर्शनयोरपि च मध्ये प्रधानं ज्ञानम्, तद्वशादेव सकलशास्त्रादिविचारसन्ततिप्रवृतेः । अपि च--सर्वा अपि लब्धयो जीवस्य साकारोपयोगोपयुक्तस्योपजायन्ते, न दर्शनोपयोगोपयुक्तस्य, “सच्चा लडीओ सागारोवओगोवउत्तरस, जो अणगारो गोत्र उत्तस्स" इति वचनप्रामाण्यात् । अन्यच्च यस्मिन् समये सकलकर्मविनिर्मुक्तो जीवः सज्जायते तस्मिन् समये ज्ञानोपयोगोपयुक्त एव, न दर्शनोपयोगोपयुक्तः, दर्शनोपयोगस्य द्वितीयसमये भावात् ततो ज्ञानम् प्रधानम्, तदावारकं च ज्ञानावरणं कर्म, ततस्तत् प्रथममुक्तम् तदनन्तरं च दर्शनावरणम, ज्ञानोपयोगाच्च्युतस्य दर्शनोपयोगेऽवस्थानात् । एते च ज्ञानदर्शनावरणे स्त्रविपाकमुपदर्शयन्ती यथायोगमवश्यं सुखदुःखरूपवेदनीय कर्मविपाकोदयनिमित्ते भवतः । तथाहि - ज्ञानावरणमुपचयोत्कर्षप्राप्तं विपाकतोऽनुभवन् सूक्ष्मसूक्ष्म तरवस्तुविचारासमर्थमात्मानं जानानः खिद्यते भूरिलोकः, ज्ञानावरणकर्मक्षयोपशमपाटवोपेतश्च सूक्ष्मसूक्ष्मतराणि वस्तूनि निजप्रज्ञयाऽभिजानानो बहुजनातिशायिनमात्मानं पश्यन् सुखं वेदयते, तथाऽतिनिबिडदर्शनावरणविपाकोदये जात्यन्धादिरनुभवति दुःखसन्दोहं वचनगोचरातिक्रान्तम्, दर्शनावरणक्षयोपशमपटिष्ठतापरिकरितश्च स्पष्टचक्षुराद्युपेतो
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org