________________
बंधविहाणे मूलपयडिठिइबंधो [ निषेका-ऽबाधानियमः प्रारभ्यते, न च भवचरमतृतीयभागे वेदयितुं प्रारब्धे सवैरपि जीवेरायुबन्धः प्रारभ्यत एव, किन्तु कैश्चिज्जीव रेव प्रारभ्यते, यैस्तु तदाऽऽयुर्वन्धो न प्रारभ्यते तैर्भवनवमभागे वेद्यमाने आयुर्वन्धः प्रारभ्यते, तदापि पारभविकायुर्वन्धो नारब्धश्चेद् भवसप्तविंशतितमे भागे वेदयितुमारब्धे सति पारभविकायुर्वन्धः प्रारभ्यते, एवमवशिष्टायुस्तृतीयतृतीयभागप्रकारेण तावद्वत्तव्यं यावद्भवचरमान्तमुहर्ते आयुर्वन्धे कृते जधन्यावाधाऽवशिष्टा भवति । अनया नीत्योत्कृष्टाऽप्यबाधा भवतृतीयभागप्रमाणा प्राप्यते, सा पूर्वकोटीवर्षायुष्कानां मनुष्याणां तिरश्चां वा वेद्यमानायुस्तृतीयभागमपेक्ष्य प्रकृते पूर्वकोटीतृतीयभागप्रमाणा दशितेति । न चानुत्तरविमानवासिनां सप्तमपृथिवीनरयिकानां वा भवस्थितेः सर्वदीर्घत्वात् तदपेक्षयोत्कृष्टाऽवाधा द्रष्टव्या भवतीति वाच्यम् । असंख्येयवायुपां तियग्मनुष्याणामिव सर्वेषां देवनारकाणामपि निरुपक्रमायुष्कत्वेन पण्मासेऽनवशेषे स्वीयवेधमानायुषि पारभविकायुबन्धो न जायते, इत्थं चोत्कृष्टस्थितिकदेवनारकापेक्षया उत्कृष्टस्थितिकतिर्यग्मनुष्यापेक्षया चोत्कृष्टाऽवाधा पण्मासात्मिका एवं प्राप्यते न पुनरधिका । उक्तं च पञ्चसंग्रहवृत्तौ-"निरुपक्रमायुषाम्-अनपवर्तनीयायुषां देवनारकाणामसंख्येयवर्षायुषां च तिर्यग्मनुष्याणां परभवायुपो बन्धकानां परभवायुषोऽबाधा षण्मासापण्मासप्रमाणा॥” इति । ननु मा भवत्वसंख्येयवर्षायुष्कतिर्यग्मनुष्यापेक्षया देवनारकापेक्षया वा उक्ताधिकाबाधा, पूर्वकोटिवदधिकभवस्थितिकान् संख्येयवर्षायुपान् तियन्मनुष्यान् समाश्रित्य तु सा पूर्वकोटित्रिभागादधिका भवेत् ? इति चेद्, न, तेषामप्यसंख्येयवर्षायुष्केषु प्रविष्टत्वात् । कथम् ? तथैवागमेषु परिभाषणात् । उक्तं च श्रीमदभयदेवसूरिपादैः पञ्चमाङ्गवृत्तौ-"इहासंख्यातवर्पायुर्जघन्यस्थितिकः प्रक्रान्तः, स च सातिरेकपूर्वकोट्यायुर्भवति, तथैवागमे व्यवहृतत्वात" इति । इत्थं च पूर्वकोट्यधिकसंख्येयवर्षायुषामपि पल्योपमासंख्येयभागाद्यसंख्येयवर्षायुषां जीवानामिव षण्मासेऽनवशेषे स्वायुषि पारभविकायुर्वन्धस्याऽसम्भवः, ततश्च तानपेक्ष्योक्ताधिकाबाधाया छाप्यसम्भव एव । यत्पुनः पञ्चसंग्रहे-"पलियासंखेज्जंसं जुगलधम्मीण वयंतन्ने ॥४१॥” इत्यनेन मतान्तरेण युग्मिनां पल्योपमासंख्येयभागप्रमाणेऽवशेषे स्वायुपि पारभविकायुर्वन्धोऽभिहितः, सत्वत्र नाधिकृत इति । "लह महत्ततो" ति लघुः-जघन्याऽबाधा तु मुहूर्तान्तः-अन्तमुहृतम्, कुतः ? पूर्वमबद्धायुष्कजीवरसंक्षेप्याद्धाप्रवेशप्रथमसमयादेवायुबन्धस्य नियमेन करणात्, असंक्षेप्याद्धाया भवचरमान्तमुहूर्तात्मकस्वाच्च । न च सत्यन्तमुहूर्त यावत्प्रवर्तमान आयुषः स्थितिबन्धोऽन्तमुहर्तात्मिकथा असंक्षेप्याद्धया समं निष्ठां गच्छेत्, इत्थं चोभयोर्भवचरमसमये समाप्तिभावे वेद्यमानायुषोऽवशेषरूपाऽबाधा सर्वथैव न लभ्यतेति वाच्यम् । अन्तमुहूर्तस्यासंख्येयभेदभिन्नत्वेनाऽसंक्षेप्याद्धाप्रमाणान्तमु हर्ते आयुर्वन्धाद्धायास्तदनन्तरभाविजधन्यावाधायाश्चेत्येवमन्तर्मुहूर्तद्वयस्यापि सुखेन समावेशादन्तमुहूर्तशेष वेद्यमानायुषि पारभविकायुर्वन्धसमाप्त्या वेद्यमानायुरवशेषरूपाऽवाधाऽपि सुखेन लभ्येतेति न कश्चिद्दोष इति । इत्येवं प्रागुक्तनीत्या भिन्न-भिन्नभवसम्बन्धिन्यावायुषो निषेकावाधे पृथक्पृथग्भवतः । भण्यमाने स्थितिबन्धप्रमाणे मार्गणास्थानेष्वायुष अबाधा तु भिन्नभिन्नप्रमाणा भवति, सा च कर्मरूपता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org