________________
निषेका-ऽबाधानियमः ] द्वितीयाधिकारे स्थितिबन्धप्रमाणद्वारम्
[६६ त्ति कम्माणं" ||४२॥ इति । अयमत्राभिप्रायः-ज्ञानावरणादीनां वक्ष्यमाणस्थितिबन्धप्रमाणे प्रत्येक मियत्यबाधावाधोनस्थितिषु कर्मदलनिषेकश्चेत्येतदने पार्थक्येन न वक्ष्यते, अतस्तत्र प्रकृतनियमानुसारेणेयत्यबाधा, अबाधावर्जस्थितिषु कर्मदलनिषेक इत्येतत् स्वयमेव योजनीयमिति ॥ ३४ ॥
तदेवमुक्तः सागरोपमकोटीकोटीतदधिकस्थितिबन्धेष्यबाधाकर्मदलनिषेविषयो नियमः । साम्प्रतं ततो न्यूनस्थितिबन्धविषयं तं दर्शयन्नाह -
सत्तण्ह अवाहा खलु ठिइबंधा अंतकोडिकोडीए ।
सगलहुठिइबंधं जा सव्वह हवए मुहूत्तंतो ॥ ३५ ॥ (प्रे०) “सत्तण्ह अबाहा" इत्यादि, अत्र खलुशब्दस्यावधारणार्थत्वाद् व्युत्क्रमेण "मुहूतंतो" इत्यस्योत्तरं योजनाच्चायुर्जानां सप्तानां मूलप्रकृतीनां प्रत्येकमुक्तस्वरूपाऽबाधा मुहूर्तान्तःअन्तमुहूर्तमेव भवतीति परेणान्धयः । सप्तानां कियति स्थितिबन्धे सत्यवाधाऽन्तमुहूतमेव भवतीत्याह-"ठिइबंधा अंतकोडिकोडीए” इत्यादि, सागरोपमाणामन्तःकोटीकोटीप्रमाणास्थितिबन्धादारभ्य यावज्ज्ञानावरणादीनां सप्तानां स्वकीयस्वकीयजघन्यस्थितिबन्धस्तावत्सर्वत्रेत्यर्थः । अन्तःकोटीकोटीसागरोपमगतसर्वस्थितिबन्धविकल्पेष्वन्तम हूर्तप्रमाणस्थितिषु कर्मदलनिपेको न भवत्यतोऽन्तमुहूर्त विना शेषकर्मस्थितिप्रमाणः कर्मदलनिषेको वाच्य इति भावः ॥ ३५ ॥
अथाऽऽयुष उत्कृष्टोऽपि स्थितिबन्धस्त्रयस्त्रिंशत्सागरोपमप्रमाण एव, तर्हि तत्रावाधायाः को नियमः ? इति जिज्ञासायामाह
पाउस्स जाणियब्वो ठिइबंधी चेव कम्मणणिसंगी।
जेट्ठाऽवाहा पुवा कोडितिभागो लहू मुहुत्तंतो ॥३६॥ (प्रे०) "अाउस्स जाणियन्वो' इत्यादि, आयुःकर्मणो यावास्थितिवन्धो वक्ष्यते तावानन्तमुहूर्तादिप्रमाणः कर्मदलनिषेको ज्ञातव्य इत्यर्थः । कुतः ? यत आयुषोऽवाधाऽऽयुदलनिषेकस्याऽनधीना, ततः सा पृथगभिधास्यते । अनधीनाऽपि सा उत्कृष्टतो जघन्यतश्च कियती भवतीत्याह"जेट्टाऽबाहा पुव्वा कोडितिभागो' इत्यादि, उत्कृष्टावाधा एकस्याः कोटेस्त्रिभागः-तृतीयभागः पूर्वाणि, पूर्वकोटीतृतीयभागप्रमाणा भवतीत्यर्थः । इदमुक्तं भवति-पृथक पृथगभववद्धयोयद्वा वेद्यमानाऽवेद्यमानयोरायुषोः परस्परं संक्रमाभावात् सवेदा तयोः पार्थक्यमेव, किञ्चाबाधा वेद्यमानायुरवशेषरूपा, बध्यमानायुस्तूत्तरभवसत्कम् , एवं सत्यायुषो निषेकाऽवाधे शेषकर्मनिषकाबाधापेक्षया विलक्षणेऽनियते च, अनयत्यं तु तत्र उत्कृष्टायामनुन्कृष्टायां वाऽबाधायामुत्कृष्टस्याऽनुत्कृष्टस्य वाऽऽयुर्वन्धस्यापि भावात् । तद्यथा—पारभविकायुर्वन्धो वेद्यमानायुश्चरमे तृतीयभागे नवमभागे सप्ताविंशतितमभागे एवं त्रिभागत्रिभागकरणप्रकारेण चरमैकाशीतितमादिभागे वेदयितुमारब्धे सति क्रियते । किमुक्तं भवति-वेद्यमानायुपश्चरमे तृतीयभागे वेदयितुमनारब्धे न केनाऽपि जीवेन परभवायुर्वन्धः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org