________________
बंधविहाणे मूलपयडिठिइबंधो
६८ ] [ निषेकाऽबाधानियमः भवति तेषामवस्थान कालेयत्तामपेच्य प्रदश्यते, न तु तदन्येषां द्विचरम- त्रिचरमादिस्थितिषु निषिक्तदलिकानामियत्ता मपेक्ष्य | इदमुक्तं भवति - ज्ञानावरणस्योत्कृष्टस्थितिबन्धकाले त्रिसहस्र वर्षप्रमाणामबाधां विवर्ज्यानन्तरसमयप्रभृतिषु निरन्तरास्वसंख्येवर्षप्रमाणस्थितिषु प्रत्येकं यथोत्तरं कर्मदलिकानां विशेषहीन-विशेषहीनक्रमेण निषेको भवति । उक्तं च प्राग् निषेकद्वारे – “ चउदसविहजीवेसु अट्ठण्ह् भवे दलं सगमबाहं । मोत्तूण पढमसमये बहु कमित्तो विसेसूर || १२ ||" इति ॥
तत्र यश्वरमनिषेकस्तस्य यावती स्थितिस्तामपेच्योघतो ज्ञानावरणस्योत्कृष्ट स्थितिबन्धप्रमाणमुच्यते । एवं ज्ञानावरणस्य जघन्यस्थितिबन्धकालेऽप्यन्तम् हृतात्मिकां जघन्यामबाधां विव तदनन्तरसमयात्प्रारभ्यान्तमुहूर्त प्रमाणस्थितिषु प्रत्येकं यथोत्तरं विशेषहीनक्रमेण कर्मद लिकानां निषेको भवति, तत्र यथरमनिषेकस्तदीयस्थित्यपेक्षया जघन्यस्थितिबन्धप्रमाणमुच्यते । एवमेव ज्ञानावरणस्य मध्यमस्थितिबन्धप्रमाणविषये, दर्शनावरणादीनामुत्कृष्टादिस्थितिबन्धप्रमाणविषये चावसातव्यम् । इदमपि चरमनिषेकाधीनायाः स्थितेः प्रमाणं बन्धसमयप्रभृतिकं सत् कर्मरूपतावस्थान - लक्षणस्थितिबन्धप्रमाणमुच्यते, यदा तु तद्वाधाऽनन्तरप्रथम निषेकप्रभृतिकं गण्यते तदाऽनुभव योग्यस्थितिवन्धप्रमाणमुच्यते । कुतः ? अबाधाकाले बन्धतः प्राप्तस्थितिकानां दलिकानां करणान्तरस्य साहाय्यमन्तरेणाननुभवात् । कर्मरूपतावस्थानलक्षणस्थितिबन्धस्य प्रमाणं बन्धसमयप्रभृतिकचरमनिषेकपर्यन्तमितिकृत्वा वच्यमाणं ज्ञानावरणादीनां त्रिंशत्सागरोपमकोटीको ट्यादिलक्षणं भवति । अनुभव योग्य स्थितिबन्धस्य तु तदबाधाकालेन हीनं भवति । उक्तं च पञ्चसंग्रहवृत्तौ श्रीमन्मलगिरिसूरिपादै: - " अनुभवयोग्या पुनरबाधाकालहीना" इति । प्रकृते कर्मरूपतावस्थान लक्षण स्थितिबन्धोऽधिकृतः, स चोक्तनीत्याऽयाधानिषेको भयरूपः, बन्धसमयप्रभृति चरमनिषेकपर्यन्तत्वात्तस्य त उत्कृष्टजघन्यभेदभिन्नं प्रमाणमपि तदुभयापेक्षया दिदर्शयिषुरादौ तावदबाधा-कर्मदल निषेकप्रमाणविषयं नियममभिदधाति—
सागरको डाकोडी बंधो सत्तरह जत्तियाऽवाहा ।
तावइया च्च सयसमा तदृणियो कम्मणपिसेगो ॥ ३४ ॥
(प्रे०) “सागरकोडाकोडी" इत्यादि "सत्तण्ह" त्ति आयुर्वर्जानां सप्तानां मूलप्रकृतीनां " बन्धो" त्ति प्रकृतत्वात् स्थितिबन्धः " जत्ति" ति यावत्यः । का इत्याह- "सागरकोडाकोडी" ति " भीमो भीमसेन" इति न्यायात् 'सागरकोटी कोट्यः' - सागरोपमाणां कोटी कोट्य इत्यर्थः । वच्यत इति शेषः । " बाहा तावइश्राच्च सयसमा " त्ति लुप्ताकारस्य दर्शनादवाधा तावत्यः शतसमा एव । उक्तं च पञ्चसंग्रहमलयगिरीयवृत्तौ - "येषां च कर्मणां यावत्यः सागरोपमकोटीको यस्तेषां तावन्ति वर्षशतान्यबाधाकालः" इति । " तदृणियो कम्मणणिसेगो" ति तयाऽबाधया ऊनः शेषस्थितिबन्धप्रमाणः कर्मनिषेको भवति । कुतः ? श्राधायां कर्मनिषेकाभावदिति । उक्तं चशतकभाष्ये – “होइ बाहाकालो जो किर कम्मरस अदयकालो । कम्मटिइ अबाहूणा कम्मनिसेगो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org