SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ द्वारनिरूपणम् ] द्वितीयाधिकारः [ ६७ दितत्तत्स्थितिमधिकृत्य जवन्येतरभेदेन कालः प्ररूपयिष्यते । केवलं पूर्वं कालद्वारे एकजीवाश्रयोसावभिधास्यते, अत्र तु नानाजीवाश्रय इति विशेषः । " "अंतर" त्ति अन्तरद्वारम् । यत्र - "अंतर मट्टएह लहुं जेट्ठा ठिई बंधगाण खणो । अंगुल - असंखभागो परमं अगुरूअ व भवे ॥" इत्यादिगाथा कदम्बकेन ज्ञानावरणादेरुत्कृष्टाऽनुत्कृष्टादिचतुर्विकल्पानामपि स्थितिबन्धानां प्रत्येकमधिकृत्य नानाजीवाश्रयं स्थितिबन्धद्रयान्तराल लक्षणं बन्धकविरहकालप्रमाणमन्तरं जघन्येतर भेदतः कथयिष्यते । "भाव" त्ति भावद्वारम् । यत्र - ' - "अठराहं कम्मारणं चव्विहारण वि ठिईए भावेरणं । ओदइ ए बंधो ||" इत्यादिनाधिकृतोत्कृष्ट जघन्यादिस्थितिबन्ध औपशमिकादिभावानां मध्ये केन भावेन निर्वत्त इत्येतत्प्ररूपयिष्यते । - "बहु" ति प्राकृतवशेनाऽकारस्य लुप्तत्वात् निर्देशस्य भावप्रधानत्वाच्चापबहुत्वद्वारम् | यत्र - " उक्कोसाथ ठिईए अठ्ठयहं बंधगा मुणेयव्वा । सव्वत्थोवा तत्तोऽगुक्कोसाए अांतगुणा ॥" इत्यादिगाथासमुहेन स्थितेर्वन्धकपरिमाणस्य बन्धप्रमाणस्य चेत्येवं मुख्यतया द्विविधमल्पबहुत्वं प्रतिपादयिष्यते, अवान्तरभेदतस्तु तत्र नानाविधान्यल्पबहुत्वानि दर्शयिष्यन्ते, तद्यथा - (१) उत्कृष्टाऽनुत्कृष्टस्थितिबन्धरूपपदद्वयापेक्षया, (२) जघन्या -ऽजघन्य स्थितिबन्धरूपपदद्वयापेक्षया, तथा (३) उत्कृष्टजघन्या- ऽजघन्यानुत्कृष्टस्थितिबन्धरूपपदत्रयापेक्षयाऽष्टानामपि कर्मणां प्रत्येकमित्येवं त्रिविधानि बन्धकाल्पबहुत्वानि । स्थितिबन्धप्रमाणस्य तु मूलाष्टकर्मणां स्वस्थान-परस्थान भेदाद्विधाऽल्पबहुत्वचिन्ता, तत्र स्वस्थाने (४) उत्कृष्ट-जघन्यपदद्वयमपेच्यैकमल्पबहुत्वम्, परस्थाने तु त्रीणि, तद्यथा – (५) आद्यं केवलमुत्कृष्टपदमधिकृत्य, (६) द्वितीयं केवलजघन्यपद मपेच्य, (७) तृतीयं पुनर्जघन्योत्कृष्टपदद्वयं प्रतीत्येति । "इइ" त्ति इति, स च द्वितीयाधिकारगतानुयोगद्वारनामप्रदर्शन समाप्तौ । नन्वेतानि द्वाराणि केन क्रमेण प्ररूपणाविषयी करिष्यन्त इत्याशंक्याह - "णेयाई जहाकमसो" त्ति यथाक्रमशःयथोक्तक्रमेण, आदौ स्थितिबन्धप्रमाणम्, ततः स्वामित्वमित्येवं मूलोक्तक्रमेण ज्ञातव्यानीत्यर्थः, मृलोक्तक्रमेणैतेषु द्वारेषु स्थितिबन्धप्रमाणादीनां प्ररूपणं करिष्यत इति भावः । इदन्तु बोध्यम्प्रत्येक द्वारे देशतश्च द्विधा प्ररूपणं करिष्यते, तत्रापि स्थितिबन्धप्रमाण-स्वामित्वादिकतिपयद्वारेषूत्कृष्ट जघन्यस्थितिबन्धरूपपदद्वयमपेच्य, साद्यादि - काला- ऽन्तरादिकतिपयद्वारेषु तुत्कृष्टजघन्य-तदितरस्थितिबन्धात्मकपदचतुष्टयमधिकृत्येति ||३२|३३|| ॥ अथ स्थितिबन्धप्रमाणद्वारम् ॥ प्रथमतः स्थितिबन्धप्रमाणद्वारे स्थितिबन्धप्रमाणमभिधातव्यम् । तच्चोत्कुष्टजघन्यभेदाद्द्द्विविधम् । तत्र कालत्रयेऽपि केनापि जीवेन यतोऽधिका स्थितिर्न बध्यते तस्याः स्थितन्ध उत्कृष्टस्थितिबन्ध उच्यते । एवं कालत्रयेऽपि केनापि जीवेन यतः स्तोका स्थितिर्न बध्यते तस्याः स्थितेर्बन्धो जघन्यस्थितिबन्ध उच्यते, केवलमुत्कृष्टस्थितिबन्धस्य जघन्यस्थितिबन्धस्य वा प्रमाणं तु तस्या उत्कृष्टाया जघन्याया वा स्थितेवेन्काले येषां बध्यमानकर्मदलिकानां सर्वचरमस्थित निषेको Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy