________________
विहाणे मूलपडिटिइबंधो
[ गाथा ३२-३३
संनिकर्षद्वारे पुनः- “पढमस्सुक्कोसठिडं बंधतो बंधगो चित्र हवेज्जा । छ उनकोसाए asोसाई ||" इत्यादिगाथा कदम्बकेन समकालप्रवर्तनेन संनिकृष्टानां - परस्परं सम्बन्धमुपगतानां ज्ञानावरणाद्यष्टप्रकृतिसत्कैकजीवाश्रय स्थितिबन्धानामुत्कृष्टादिस्वरूपं प्रतिपादनीयं भवेत् । किमुक्तं भवति - कस्यचिदेकजीवस्य ज्ञानावरणकर्मण उत्कृष्टस्थितिबन्धे प्रवर्तमाने तदन्येषां कर्मणां स्थितिबन्धः प्रवर्तते न वा ? । प्रवर्तते चेद्, उत्कृष्टः प्रवर्तते अनुत्कृष्टो वा ? | अनुत्कृष्टः प्रवर्तते चेतु, संख्येयभागेन हीनः प्रवर्तते, असंख्येयभागेन हीनो वा प्रवर्तते ? इत्यादि, इत्थमेव दर्शनावरणादिप्रकृतीरधिकृत्य जघन्यस्थितिबन्धमधिकृत्य चाऽप्रश्नपूर्वकमेव प्रदर्शयिष्यते ।
६६ ]
"भंगविचयो" इत्यादिगाथा । तत्र तुकारो पूर्वापेक्षया विशेषद्योतनार्थः तेन चानन्तराभिहितसंनिकर्ष द्वारपर्यन्तानि द्वाराण्येकजीवमाश्रित्याभिधास्यन्ते, भङ्गविचयादीनि तु पुनर्नानाजीवानाश्रित्येत्यर्थः । ' भंगविचयो" ति भङ्गविचयद्वारम् । भङ्गाः- विकल्पाः, ते च मूलप्रकृतिसत्कोत्कृष्टादिस्थितेरेकानेकवन्धकाऽयन्धकनिष्पन्नाः कालभेदतो नानारूपेण सम्पद्यमानाः, तेषां भङ्गानां विचय:- समुहचिन्तनं वा भङ्गविचयः, स एव - " अट्टहुक्कोसार सिश्रा तुरिय-छट्ट-अट्टमा भंगा। अट्ठम-सत्तम-तइयाऽरगुक्कोसार ठिईए य ।।" इत्यादिना यत्र प्रदर्शयिष्यते तद्भङ्गविचयद्वारम् ।
"भागो" त्ति भागद्वारम् । यत्र - " उक्कोसा ठिई प्रांतभागोऽत्थि बंधगाऽहं । होति बंधगा खत्तु अणंतभागा अजेट्ठाए |" इत्यादिना ज्ञानावरणादेरुत्कृष्टादिस्थितेर्वन्धकाः शेषवन्धकानामियतिथे भागे वर्तन्ते, - संख्येयतमेऽसंख्येयतमेऽनन्ततमे संख्येयतमादिवन्दु भागेषु वा वर्तन्ते, इत्यादि प्रदर्शनीयं भवति ।
" परिमाणं" ति परिमाणद्वारम् । यत्र - ' - "उक्कोसाच ठिईए श्रट्टहं बंधा असंखेज्जा | हुन्ति कोसाए ठिई उरण बंधगाडगंता ||" इत्यादिना ज्ञानावरणादेरुत्कृष्टादिस्थितेर्वन्धकानां संख्येयाSसंख्येयादिरूपेण परिमाणम् - संख्यामानं प्ररूपयिष्यते ।
"खेत्त" ति क्षेत्रद्वारम् । यत्र -- "लोगस्स श्रसंखयमे भागे होअन्ति बंधगाउट्ठएहं । उक्कोसा दिईएऽणुक्कोसाच पुण सव्वजगे ||" इत्यादिना ज्ञानावरणादेरुत्कृष्टादितत्तत्स्थितेन्धकानां नानाजीवाश्रयं क्षेत्रम् — कस्मिन्नप्येकसमये वर्तमानानामुत्कृष्टपरिमाणवतामाधारभूतं यल्लोकसंख्येयासंख्येयभागादिरूपं तत्प्रतिपादयिष्यते ।
" फोसणा " त्ति स्पर्शेनाद्वारम् । यत्र - "फुसिया तेरह भागा सत्तरह बंधगेहि जेठाए । परिफासि दिईएऽणुक्कोसाए जगं सव्वं ॥" इत्यादिना प्रत्येकं मूलप्रकृतेरुत्कृष्टादितत्तत्स्थितेबन्धकैरनन्तेऽतीतकाले स्वस्थानमारणसमुद्घातादित इयद् रज्जु-द्विरज्जु-विरज्ज्वादिप्रमाणं क्षेत्रं स्पृष्टमित्येतप्रकटयिष्यते ।
"कालो" त्ति कालद्वारम् । यत्र - " सत्तरह बंधगाणं समयो हस्सो ठिई जेट्टाए । पल्ला - संखियभागो परमो श्रृगुरूश्र सव्वद्धा ।।" इत्यादिना पूर्ववत् सर्वासां मूलप्रकृतीनामुत्कृष्टाऽनुत्कृष्टा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org