________________
॥ द्वितीयाधिकारः ॥
द्वितीयोऽधिकारः, तत्र पञ्चदशानुयोगद्वाराशीति प्राक् संख्यामात्रेणाभिहितम् । साम्प्रतमधिकारप्रारम्भे तानि नामतश्राविचिकीषु हि
"
य ॥३२॥
दुइ हिगारे ग्रह पंचदसदुरगाणि ठिsमाणं । सामित्त - साइयाई कालंतर सरिणयासा भंगविचयो उ भागो परिमाणं खेत्तफोसणा कालो । अंतरभाव ऽप्पबहू इइ ऐयाई जहाकमसो ॥ ३ ॥
',
ततः
(०) "दुइ अहिगारे ग्रह" इत्यादि, अत्र अथशब्दो व्युत्क्रमेणादौ योज्यः, प्रथमाधिकारनिरूपणानन्तरं द्वितीयाधिकारे “पंचदस दुआरगाणि " ति प्राक् संख्यातः कथितानि पञ्चदशानुयोगद्वाराणि, नामत इमानीति वाक्यशेषः । तान्येवाह - "ठिइमाण ' ' मित्यादिना, तत्र " ठिइमाणं " ति बन्धविधानस्य प्रकृतत्वाद् बन्धमधिकृत्य स्थिते::- उक्त स्वरूपाया मानम् - प्रमाणं जघन्योत्कृष्ट भेदभिन्नम् - "ठिइबंधो उक्कोसो पढम - दुइ त अट्टमाण भवे । सागरकोडाकोडी तीस तुरिअस्स खलु सयरी ||" इत्यादिना यत्र प्ररूपयिष्यते तत् स्थितिमानम्, स्थितिबन्धप्रमाणद्वारमित्यर्थः "सामित्त" ति स्वामित्वम् - बनधकत्वेनाधिपत्यम् । स्थितिबन्धप्रमाणद्वारोक्त जघन्योत्कृष्टस्थितिबन्धयोः स्वामिनां - चन्धकानाम् - " सागारो जागासु ओवउत्तो परिदियो सरणी । पज्जत्तो सन्याहिं पज्जत्तीहिं चउगइट्ठो ||" इत्यादिना स्वरूपं यत्र दर्शयिष्यते तत्स्वामित्वद्वारम् |
1
"साइआई" ति साद्यादि, जघन्योत्कृष्टतत्प्रतिपक्षस्थितिबन्धानाम् – “सत्तरहं कम्माणं भंग साई अगाइधुवअधुवा । चउरो अजहराए ठिई बंधे मुणेयंव्त्रा ||" इत्यादिना तदीयैकस्वाम्यपेक्षया साद्यादिभावस्य यत्र चिन्तनं करिष्यते तत्साद्यादिद्वारम् । अत्रादिपदादनादि - ध्रुवा ध्रुवभावानां परिग्रहो बोद्धव्यः । “कालंतरसण्णियासा" त्ति कालद्वारम्, अन्तरद्वारम् संनिकर्षद्वारमित्यर्थः ।
तत्र कालद्वारे -- " सत्तरह गुरू लहू कालो समय गुरू मुहुत्ततो । अगुरू मुहुत्तंतो लहू असंखपरिट्टियरो ||" इत्यादिना उत्कृष्टाऽनुत्कृष्ट- जघन्या-ऽजघन्यादिचतुर्विकल्पानां स्थितिबन्धानामेकजीवाश्रयो निरन्तरप्रवृत्त्यवधिकः कालो जघन्योत्कृष्टभेदतश्चिन्तयिष्यते ।
अन्तरद्वारे तु - " सत्तरहुक्कोसाए ठिई लहुमंतरं मुहुत्तंतो । परममसंखपरट्टा अगुरू लहुं भवे समयो ||" इत्यादिना तेषामेवैकजीवाश्रयोत्कृष्टा दिस्थितिबन्धानां स्वनिमित्तापगमेन विरतानां भाविनि नियमेन प्रवर्तनशीलानां यो विरहकाल उत्कृष्टादिसदृशबन्धद्वयान्तराललक्षणः स एवान्तरम्, तज्जघन्योत्कृष्टभेदतो दर्शयिष्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org