SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ६४] बंधविहाणे मूलपयडिठिइबंधो [स्थितिबन्धस्थानाद्यल्पबहु० ऽपर्याप्तस्य नामगोत्रयोर्जघन्यस्थितिवन्धो विशेषाधिकः । (२९३) ततस्तस्यैव नामगोत्रयोरुत्कृष्टस्थितिबन्धो विशेषाधिकः । (२९४) ततोऽसंज्ञिपञ्चेन्द्रियपर्याप्तस्य नामगोत्रयोरुत्कृष्टस्थितिबन्धो विशेषाधिकः । (२९५) ततस्तस्यैव ज्ञानावरणादेर्जघन्यस्थितिबन्धो विशेषाधिकः । (२९६) ततोऽसंज्ञिपञ्चेन्द्रियापर्याप्तस्य ज्ञानावरणादेर्जघन्यस्थितिबन्धो विशेषाधिकः । (२९७) ततस्तस्यैव ज्ञानावरणाद्युत्कृष्टस्थितिवन्धो विशेषाधिकः । (२९८) ततोऽसंज्ञिपञ्चेद्रियपर्याप्तस्य ज्ञानावरणादेरुत्कृष्टस्थितिबन्धो विशेपाधिकः । (२९९) ततस्तस्यैव मोहनीयजघन्यस्थितिबन्धः संख्येयगुणः । (३००) ततोऽसंज्ञिपञ्चेन्द्रियापर्याप्तस्य मोहनीयस्य जघन्यस्थितिबन्धो विशेषाधिकः । (३०१) ततस्तस्यैव मोहनीयोत्कृष्टस्थितिवन्धो विशेषाधिकः । (३०२) ततोऽसंज्ञिपञ्चेन्द्रियपर्याप्तस्य मोहनीयस्योत्कृष्टस्थितिबन्धो विशेषाधिकः । (३०३) ततः संज्ञिपञ्चेन्द्रियपर्याप्तस्य नामगोत्रयोर्जधन्यस्थितिबन्धः संख्येयगुणः । (३०४) ततस्तस्यैव ज्ञानावरणादेर्जघन्यस्थितिबन्धो विशेषाधिकः । (३०५) ततस्तस्यैव मोहनीयस्य जघन्यस्थितिबन्धः संख्येयगुणः। (३०६) ततः संज्ञिपञ्चेन्द्रियाऽपर्याप्तस्य नामगोत्रयोर्जघन्यस्थितिबन्धः संख्येयगुणः । (३०७) ततस्तस्यैव ज्ञानावरणादेर्जघन्यस्थितिवन्धो विशेषाधिकः (३०८) ततस्तस्यैव मोहनीयस्य जघन्यस्थितिबन्धः संख्ये ग्गुणः । (३०९) ततस्तस्यैव नामगोत्रयोः स्थितिवन्धस्थानानि संख्येयगुणानि । (३१०) ततस्तस्यैव नामगोत्रयोरुत्कृष्टस्थितिबन्धो विशेषाधिकः । (३११) ततस्तस्यैव ज्ञानावरणादेः स्थितिबन्धस्थानानि विशेषाधिकानि । (३१२) ततस्तस्यैव ज्ञानावरणादेरुत्कृष्ट स्थितिबन्धो विशेषाधिकः । (३१३) ततस्तस्यैव मोहनीयस्य स्थितिधन्धस्थानानि संख्येयगुणानि (३१४) । ततस्तस्यैव मोहनीयस्योत्कृष्ट स्थितिबन्धो विशेषाधिकः। (३१५) ततः संज्ञिपञ्चेन्द्रियपर्याप्तस्य नामगोत्रयोः स्थितिवन्धस्थानानि संख्येयगुणानि । (३१६) ततस्तस्यैव नामगोत्रयोरुत्कृष्ट स्थितिबन्धो विशेषाधिकः । (३१७) ततस्तस्यैव ज्ञानावरणादेः स्थितिबन्धस्थानानि विशेषाधिकानि । (३१८) ततस्तस्यैव ज्ञानावरणादेरुत्कृष्टस्थितिबन्धो विशेषाधिकः । (३१९) ततस्तस्यैव मोहनीयस्य स्थितिबन्धस्थानानि संख्येयगुणानि । (३२०) ततस्तस्यैव मोहनीयस्योत्कृष्टस्थितिबन्धो विशेषाधिक इति ॥२९-३०-३१॥ तदेवमभिहितं प्रसङ्गात्प्रथमगुणस्थाने प्रतिजीवभेदं समुदितजीवभेदेषु च मूलप्रकृतिमत्कस्थितिबन्धस्थानादिपदानामल्पबहुत्वम् । तस्मिँश्चाभिहिते समाप्तं प्रथमाविकारचरमद्वारम् । तत्समाप्तौ च समाप्तः प्रथमोऽधिकारः ।। इत्यमधिकारमाद्यं विवृत्य मयकाप्तसुकृतगुरुदण्डैः। निहताः कुकर्मचौरा न विशन्तु कदाऽपि भव्यजोवगहे ।। (गीतिः) S इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे प्रथमेऽधिकारे चतुर्थमल्पबहुत्वद्वारं समाप्तम् ॥ ॥ इति श्रीबन्धविधाने-मूलप्रकृतिस्थितिबन्धे प्रथमोऽधिकारः ॥ S TRY (RH SORN For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy