________________
६६ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्थानेष्वायुषः मार्गणासु प्रत्येकम् “विण्णेयो हायणपुहुत्त"ति प्रकृत आयुषो जघन्यस्थितिबन्धो 'हायनपृथक्त्वम्'वर्षपृथक्त्वं विज्ञेय इत्यर्थः । सुगमम्, प्रत्येकं सम्यग्दृष्टिदेव-नारकजीवानां प्रवेशात् , तेषां जघन्यतो यथोक्तस्थितिकमनुष्यायुष एव बन्धभावाच्च ॥७४॥ अथ यासु केवलानां सर्वसंयतानां देशसंयतानां वैव प्रवेशस्तासु मार्गणासु युगपत्प्रकृतमायुषो जघन्यस्थितिवन्धमानमेकयाऽऽर्ययाऽऽह
मणपज्जवणाणे तह संयम-सामइअ-छेअ-देसेसु ।
परिहारविसुद्धीए यो पलिश्रोवमपुहुत्तं ॥७५॥
(प्रे०) “मणपज्जवणाणे'' इत्यादि, मनःपर्यवज्ञान-संयमौघ-सामायिकसंयम-छेदोपस्थापनसंयम-परिहारविशुद्धिकसंयम-देशसंयममार्गणास्वित्येतासु षण्मार्गणास प्रत्येकम् “पलिग्रोवमपुहुत्तं"त्ति पल्योपमानां पृथक्त्वं-पल्योपमपृथक्त्वं ज्ञेयः, आयुषो जघन्यः स्थितिबन्ध इति गम्यते । कुतः ? सामायिकादिसंयमोपेतानां जघन्यतोऽपि सौधर्मकल्पे उत्पादस्योक्तत्वात् । उक्तं च पञ्चसंयतप्रकरणे-"पंचण्हं वि देवगई तिरहं पढमयाण थोव सोहम्मे” इति । अत्राक्षरगमनिका"पंचण्ह" ति सामायिक-छेदोपस्थान-परिहारविशुद्धिक-सूक्ष्मसम्पराय-यथाख्यातसंयमोपेतानां पञ्चविधानामपि संयतानां "देवगई" ति गमनम्-गतिः एकभवाच्च्युत्वाऽन्यत्र भवे उत्पत्तिलक्षणा, सा देवेष्वेव भवतीत्यर्थः । तत्रापि “तिएह पढमयाण"त्ति सामायिक-छेदोपस्थापन-परिहारविशुद्धिकाख्यसंयमोपेतानां प्रथमत्रयाणां संयतानां “थोव"त्ति जघन्या, गतिरिति गम्यते, कुत्र ? इत्याह-"सोहम्मे" त्ति सौधर्मकल्पाख्ये प्रथमे कल्प इत्यर्थः । सौधर्मे कल्पे उत्पद्यमाना अप्येते जघन्यायुष्कदेवतया नोत्पद्यन्ते किन्तु जघन्यतोऽपि पल्योपमद्वयाऽऽयुष्कदेवतयोत्पद्यन्ते । उक्तं च पञ्चसंयतप्रकरणे तदपि-“पलिया दुरिण जहएणा देवठिई तिण्ह पढमयाणं तु” । “पल्ये द्वे जघन्या देवस्थितिस्त्रयाणां प्रथमकानां तु" इति । इत्थं हि प्रकृतमार्गणागतजीवानामायुषो जघन्यस्थितिबन्धः पल्योपमपथक्त्वमभिहित इति ॥७॥ अथैकयाऽऽर्यया शेषमार्गणासु प्रकृतायुर्जघन्यस्थितिबन्धमानमाह
सुहलेसासूणेयो सुराणुसारेण जं हवेज्ज सुरो ।
से लहुठिई सामी सेसासु होइ खुड्डभवो ॥७६॥ (प्रे०) “सुहलेसासु"मित्यादि, 'शुभलेश्यासु' तेजः पद्म-शुक्लाख्यासु तिसृषु प्रशस्तलेश्यामार्गणासु प्रत्येकमित्यर्थः । तासु किमित्याह-"णेयो' इत्यादि, आयुषो जघन्यस्थितिबन्धः "सराणसारेण"ति सुरगतिमार्गणानुसारेण ज्ञेयः। कस्मात्सुरानुसारेण ज्ञातव्य इत्यत्राह-"ज हवेज्ज" इत्यादि, 'यद्'-यस्मात् प्रकृततिसृषु मार्गणासु 'सुरः'-देवः “से''ति तस्याऽऽयुषो जघन्यस्थितिबन्धस्य स्वामी भवति। इदमुक्तं भवति–शुभलेश्यापरिणता मनुष्यास्तिर्यञ्चो वा देवायुरेव बध्नन्ति, देवायुर्बध्नतां तेषामायुषो मार्गणाप्रायोग्यजघन्यस्थितिबन्धो न प्राप्यते, अतोऽन्तमुहूर्तादिस्थितिक तिर्यगाद्यायुर्वघ्नन्तो देवाः शुभलेश्यात्रये आयुषो मार्गणाप्रायोग्यजघन्यस्थितिबन्धस्वामिनो भवन्ति;
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International