________________
स्थितिबन्धस्थानाद्यल्पबहु० ]
प्रथमाधिकारे ऽल्पबहुत्वद्वारम
साम्प्रतं पर्याप्तबादरैकेन्द्रियजीवभेदे प्रकृताल्पबहुत्वं प्रदश्यते - ( १ ) नामगोत्रयोरबाधास्थानानि सर्वस्तोकानि, स्थितिस्थानानामल्पत्वेनावलिकाया असंख्यभागतुल्यत्वात् । (२) ततो ज्ञानावरणादेरबाधास्थानानि विशेषाधिकानि । (३) ततो मोहनीयस्यावाधास्थानानि संख्येयगुणानि । (४) तत आयुषो जघन्याबाधाऽसंख्येयगुणा । (५) तत श्रायुषो जघन्य स्थितिबन्धः संख्येयगुणः । (६) ततो नामगोत्रयोर्जघन्यावाधा संख्येयगुणा । (७) ततो नामगोत्रयोरुत्कृष्टाबाधा विशेषाधिका (८) ततो ज्ञानावरणादेर्जघन्यावाधा विशेषाधिका । (६) ततो ज्ञानावरणादेरुत्कृष्टाबाधा विशेषाधिका । (१०) ततो मोहनीयस्य जघन्यावाधा संख्येयगुणा । (११) ततो मोहनीयस्योत्कृष्टाबाधा विशेषाधिका । (१२) तत श्रायुषोऽबाधास्थानानि संख्येयगुणानि, साधिकसप्तवर्षसहस्र तुल्यत्वात् । (१२) तत श्रायुप उत्कृष्टाबाधा विशेषाधिका । (१४) तत आयुषः स्थितिबन्धस्थानानि संख्येयगुणानि, देशोन पूर्वकोटीवर्षसमयतुल्यत्वात् । (१५) तत श्रायुष उत्कृष्टस्थितिबन्धो विशेपाधिकः । (१६) ततो नामगोत्रयोर्द्वगुणहानिस्थानान्यसंख्येयगुणानि । ( १७ ) ततो ज्ञानावरणादेर्द्विगुणहानिस्थानानि विशेषाधिकानि । (१८) ततो मोहनीयस्य द्विगुणहानिस्थानानि संख्येयगुणानि । (१६) तत श्रायुर्वर्ज - सप्तकर्मणां द्विगुणहान्योरन्तरमसंख्येयगुणम् । ( २० ) तत श्रायुर्वर्ज सप्तकर्मणामेकमवाथाकण्डकमसंख्येयगुणम् । (२१) ततो नामगोत्रयोः स्थितिबन्धस्थानान्यसंख्येयगुणानि । (२२) ततो ज्ञानावरणादेः स्थितिबन्धस्थानानि विशेषाधिकानि । ( २३ ) ततो मोहनीयस्य स्थितिबन्धस्थानानि संख्येयगुणानि । ( २४ ) ततो नामगोत्रयोर्जघन्य स्थितिबन्धोऽसंख्येयगुणः । (२५) ततो नामगोत्रयोरुत्कृष्टस्थितिबन्धो विशेषाधिकः । (२६) ततो ज्ञानावरणादेर्जघन्यस्थितिबन्धो विशेषाधिकः । (२७) ततो ज्ञानावरणादेरुत्कृष्टस्थितिबन्धो विशेषाधिकः । ( २८ ) ततो मोहनीयस्य जघन्यस्थितिबन्धः संख्येयगुण: । ( २ ) ततो मोहनीयस्योत्कृष्ट स्थितिबन्धो विशेषाधिकः । इति ।
अथाऽपर्याप्तबादरै केन्द्रियजीवभेदे प्रस्तुताल्पबहुत्वम् तत्र ( १ ) नामगोत्रयोरवाथास्थानानि स्तोकानि । (२) ततो ज्ञानावरणादेरबाधास्थानानि विशेषाधिकानि । (३) ततो मोहनीयस्यावाधास्थानानि संख्येयगुणानि । ( ४ ) तत श्रायुषो जघन्यावाधाऽसंख्येयगुणा । ( ५ ) तत श्रायुषो जघन्य - स्थितिबन्धः संख्येयगुणः । ( ६ ) तत श्रायुषोऽवाधास्थानानि संख्येयगुणानि । ( ७ ) तत आयुष उत्कृष्टाबाधा विशेषाधिका । (८) ततो नामगोत्रयोर्जघन्यावाधा संख्येयगुणा । (६) ततो नामगोत्रयोरुत्कृष्टाबाधा विशेषाधिका । (१०) ततो ज्ञानावरणादेर्जघन्यवाधा विशेषाधिका । (११) ततो ज्ञानावरणादेरुत्कृष्टाबाधा विशेषाधिका । (१२) ततो मोहनीयस्य जघन्यावाधा संख्येयगुणा । (१३) ततो मोहनीयस्योत्कृष्टाबाधा विशेषाधिका । ( १४ ) तत श्रायुषः स्थितिबन्धस्थानानि संख्येयगुणानि । (१५) तत उत्कृष्ट स्थितिबन्धो विशेषाधिकः । (१६) ततो नामगोत्रयोद्विगुणहानिस्थानान्यसंख्येयगुणानि । (१७) ततो ज्ञानावरणादेर्द्विगुणहानिस्थानानि विशेषाधिकानि । (१८) ततो मोहनीयस्य द्विगुणहानिस्थानानि संख्येयगुणानि । (१६) तत आयुर्वर्जसप्तकर्मणां द्विगुणहान्यो
Jain Education International
[ ५५
For Private & Personal Use Only
www.jainelibrary.org