________________
५६ ]
___बन्धविहाणे मूलपयडिठिइबंधो [ अष्टकर्मसर्वजीवभेदानां मिथः रन्तरमसंख्येयगुणम् । (२०) तत आयुर्वर्जसप्तकर्मणामेकमवाधाकण्डकमसंख्येयगुणम् । (२१) ततो नामगोत्रयोः स्थितिबन्धस्थानान्यसंख्येयगुणानि । (२२) ततो ज्ञानावरणादेः स्थितिबन्धस्थानानि विशेषाधिकानि । (२३) ततो मोहनीयस्य स्थितिबन्धस्थानानि संख्येयगुणानि । (२४) ततो नामगोत्रयोर्जघन्यस्थितिबन्धोऽसंख्येयगुणः। (२५) ततो नामगोत्रयोरुत्कृष्टस्थितिबन्धो विशेषाधिकः । (२६) ततो ज्ञानावरणादेर्जघन्यस्थितिबन्धो विशेषाधिक । (२७) ततो ज्ञानावरणादेरुत्कृष्टस्थितिबन्धो विशेषाधिकः । (२८) ततो मोहनीयस्य जघन्यस्थितिवन्धः संख्येयगुणः । (२६) ततो मोहनीयस्योत्कृष्टस्थितिवन्धो विशेषाधिकः । इति ।
__ अथ पर्याप्ताऽपर्याप्तसूक्ष्मैकेन्द्रियलक्षणयोर्द्वयोः शेषजीवभेदयोस्तु प्रस्तुताल्पबहुत्वमपर्याप्तवादरैकेन्द्रियजीवभेदवदेव द्रष्टव्यम् , तुल्यवक्तव्यत्वात् । इति । गता चतुर्दशजीवभेदेषु पृथक् पृथक् प्रकृताल्पबहुत्ववक्तव्यता ।
साम्प्रतं चतुर्दशजीवभेदानां समुदितं स्थितिबन्धस्थानाद्यल्पबहुत्वं दर्श्यते-(१) सूक्ष्मकेन्द्रियापर्याप्तस्य नामगोत्रयोरबाधास्थानान्यबाधाकण्डकानि च स्तोकानि परस्परं तुल्यानि च । (२) ततस्तस्यैव ज्ञानावरणादीनां चतुर्णामबाधास्थानान्यबाधाकण्डकानि च विशेषाधिकानि, परस्परं तु तानि तुल्यानि । (३) ततस्तस्यैव मोहनीयस्याबाधास्थानान्यवाधाकण्डकानि च संख्येयगुणानि, परस्परं तु प्राग्वत्तुल्यान्येव । (४) ततो बादरैकेन्द्रियापर्याप्तस्य नामगोत्रयोरवाधास्थानान्यवाधाकण्डकानि च संख्येयगुणानि, परस्परं तु प्राग्वत्तुल्यान्येव । (५) ततस्तस्यैव ज्ञानावरणादेरवाधा. स्थानान्यबाधाकण्डकानि च विशेषाधिकानि, परस्परं तु प्राग्वत्तल्यान्येव । एवमेवोत्तरत्रापि तुल्यानीति स्वयमेव द्रष्टव्यम् । (६) ततस्तस्यैव मोहनीयस्याबाधास्थानान्यबाधाकण्डकानि च संख्येयगुणानि । (७) ततः सूक्ष्मैकेन्द्रियस्य पर्याप्तस्य नामगोत्रयोरबाधास्थानान्यवाधाकण्डकानि च संख्येयगुणानि । (८) ततस्तस्यैव ज्ञानावरणादेवाधास्थानान्यवाधाकण्डकानि च विशेषाधिकानि । (6) ततस्तस्यैव मोहनीयस्यावाधास्थानान्यबाधाकण्डकानि च संख्येयगुणानि । (१०) ततो बादरैकेन्द्रियपर्याप्तस्य नामगोत्रयोरबाधास्थानान्यबाधाकण्डकानि च संख्येयगुणानि । (११) ततस्तस्यैव ज्ञानावरणादेरबाधास्थानान्यवाधाकण्डकानि च विशेषाधिकानि । (१२) ततस्तस्यैव मोहनीयस्याबाधास्थानान्यबाधाकण्डकानि च संख्येयगुणानि । (१३) ततो द्वीन्द्रियापर्याप्तस्य नामगोत्रयोरबाधास्थानान्यबाधाकण्डकानि चाऽसंख्येयगुणानि । (१४) ततस्तस्यैव ज्ञानावरणादेरवाधास्थानान्यवाधाकण्डकानि च विशेषाधिकानि । (१५) ततस्तस्यैव मोहनीयस्याबाधास्थानान्यबाधाकण्डकानि च संख्येयगुणानि । (१६) ततो द्वीन्द्रियपर्याप्तस्य नामगोत्रयोरवाधास्थानान्यवाधाकण्डकानि च संख्येयगुणानि । (१७) ततस्तस्यैव ज्ञानावरणादेरबाधास्थानान्यबाधाकण्डकानि च विशेषाधिकानि । (१८) ततस्तस्यैव मोहनीयस्यावाधास्थानान्यबाधाकण्डकानि च संख्येयगुणानि । (१६) ततस्त्रीन्द्रियापर्याप्तस्य
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org