________________
बंधविहाणे मूलपयडिठिइबंधो [प्रतिजीवभेदमष्टकर्मणां मिथः मोहनीयस्योत्कृष्टाबाधा विशेषाधिका । (१४) तत आयुषः स्थितिबन्धस्थानानि संख्येयगुणानि । (१५) तत आयुष उत्कृष्ट स्थितिवन्धो विशेषाधिकः । (१६) ततो नामगोत्रयोर्द्विगुणहानिस्थानान्यसंख्येयगुणानि । (१७) ततो ज्ञानावरणादेर्डिगुणहानिस्थानानि विशेषाधिकानि । (१८) ततो मोहनीयस्य द्विगुणहानिस्थानानि संख्येयगुणानि । (१६) तत आयुर्वर्जसप्तकर्मणां द्विगुणहानिस्थानयोरन्तरमसंसयेयगुणम् , उक्तनियमात् । (२०) ततस्तेषामेवैकमवाधाकण्डकमसंख्येयगुणम्, अत्रापि पूर्ववत् । (२१) ततो नामगोत्रयोः स्थितिबन्धस्थानान्यसंख्येयगुणानि, पल्योपमसंख्येयभागतुल्यत्वात् । (२२) ततो ज्ञानावरणादिचतुष्कस्य स्थितिबन्धस्थानानि विशेषाधिकानि । (२३) ततो मोहनीयस्य स्थितिबन्धस्थानानि संख्येयगुणानि । (२४) ततो नामगोत्रयोर्जघन्यस्थितिबन्धः संख्येयगुणः, संख्येयसागरोपमतुल्यत्वात् । (२५) ततो नामगोत्रयोरुत्कृष्टस्थितिबन्धो विशेषाधिकः । (२६) ततो ज्ञानावरणादेर्जघन्यस्थितिबन्धो विशेषाधिकः । (२७) ततो ज्ञानावरणादेरुत्कृष्टस्थितिबन्धो विशेषाधिकः । (२८) ततो मोहनीयस्य जघन्यस्थितिबन्धः संख्येयगुणः । (२६) ततो मोहनीयस्योस्कृष्टस्थितिबन्धो विशेषाधिकः । इति ।
अथ पर्याप्तचतुरिन्द्रियजीवभेदे प्रकृताल्पबहुत्वम् , तत्र-(१) नामगोत्रयोरबाधास्थानानि स्तोकानि, पूर्ववदावलिकासंख्येयभागतुल्यत्वात् । (२) ततो ज्ञानावरणादेरबाधास्थानानि विशेषाधिकानि । (३) ततो मोहनीयस्यावाधास्थानानि संख्येयगुणानि । (४) तत आयुषो जघन्याबाधा संख्येयगुणा । (५) तत आयुपो जघन्यस्थितिबन्धः संख्येयगुणः । (६) ततो नामगोत्रयोर्जघन्याबाधा संख्येयगुणा । (७) ततो नामगोत्रयोरुत्कृष्टाबाधा विशेषाधिका । (८) ततो ज्ञानावरणादेजघन्याबाधा विशेषाधिका । (8) ततो ज्ञानावरणादेरुत्कृष्टाबाधा विशेषाधिका । (१०) ततो मोहनीयस्य जघन्याबाधा संख्येयगुणा । (११) ततो मोहनीयस्योत्कृष्टाबाधा विशेषाधिका । (१२) तत आयुषोऽवाधास्थानानि संख्येयगुणानि । (१३) तत आयुष उत्कृष्टाबाधा विशेषाधिका । (१४) तत अायुषः स्थितिबन्धस्थानानि संख्येयगुणानि, देशोनपूर्वकोटीवर्षसमयमितत्वात् । (१५) तत आयुष उत्कृष्टस्थितिबन्धो विशेषाधिकः । (१६) ततो नामगोत्रयोचिगुणहानिस्थानान्यसंख्येयगुणानि ।
__ इतस्तु सप्तदशप्रभृतीन्येकोनत्रिंशत्तमपर्यन्तानि शेषपदान्यपर्याप्तसंज्ञिपञ्चेन्द्रियजीवभेदवदेव द्रष्टव्यानि, तुल्यवक्तव्यत्वादिति । पर्याप्तत्रोन्द्रियजीवभेदे पर्याप्तद्वीन्द्रियजीवभेदे च प्रकृताल्पबहुत्वमविशेषेण चतुरिन्द्रियजीवभेदवदेव द्रष्टव्यम् , स्थितिबन्धस्थानादीनां प्रमाणस्य नानात्वेऽपि तदीयाल्पबहुत्ववक्तव्यतायास्तुल्यत्वात् । इत्थमेवाऽपर्याप्तद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियलक्षणेष त्रिषु जीवभेदेषु प्रकृताल्पबहुत्वान्यपर्याप्तासंज्ञिपञ्चेन्द्रियजीवभेदवदभिधातव्यानि, प्रत्येकं पूर्ववत्प्रमाणनानात्वेऽप्यल्पबहुत्ववक्तव्यतायाः सदृशत्वात् । तदेवं गतानि पर्याप्ता-ऽपर्याप्त-संश्यसंज्ञिपञ्चेन्द्रिय-चतुरिन्द्रियत्रीन्द्रिय-द्वीन्द्रियलक्षणेषु दशजीवभेदेषु प्रत्येकमष्टकर्मणां परस्परं स्थितिबन्ध स्थानादीनामल्पबहुत्वम् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org