________________
स्थितिबन्धस्थानाद्यल्पबहु० ] प्रथमाधिकारेऽल्पबहुत्वद्वारम्
[५३ (२६) ततो ज्ञानावरणादिचतुष्कस्य स्थितिबन्धस्थानानि विशेषाधिकानि। (२७) ततो ज्ञानावरणादिचतुर्णामुत्कृष्टस्थितिबन्धो विशेषाधिकः । (२८) ततो मोहनीयस्य स्थितिवन्धस्थानानि संख्येयगुणानि । (२६) ततो मोहनीयस्योत्कृष्टस्थितिबन्धो विशेषाधिकः । इति ।
__अथ पर्याप्तासंज्ञिपञ्चेन्द्रियजीवभेदे प्रकृताल्पबहुत्वम्-तत्र (१) नामगोत्रयोरबाधास्थानानि अबाधाकण्डकानि स्तोकानि परस्परं तुल्यानि च, स्थितेरल्पत्वेनावलिकाया लघुसंख्यभागगतसमयतुल्यत्वात् (२) ततो ज्ञानावरणादिचतुष्कस्यावाधास्थानानि विशेषाधिकानि, । (३) ततो मोहनीयस्यावाधास्थानानि संख्येयगुणानि । (४) तत आयुषो जघन्यावाधा संख्येयगुणा । (५) तत आयुषो जघन्यस्थितिबन्धः संख्येयगुणः । (६) ततो नामगोत्रयोर्जघन्याबाधा संख्येयगुणा । (७) ततो नामगोत्रयोरुत्कृष्टाबाधा विशेषाधिका । (८) ततो ज्ञानावराणादेर्जघन्याबाधा विशेषाधिका । (8) ततो ज्ञानावरणादेरुत्कृष्टाबाधा विशेषाधिका । (१०) ततो मोहनीयस्य जघन्याबाधा संख्येयगुणा । (११) ततो मोहनीयस्योत्कृष्टाबाधा विशेषाधिका । (१२) तत आयुषोऽवाधास्थानानि संख्येयगुणानि । (१३) तत आयुष उत्कृष्टाबाधा विशेषाधिका । (१४) तत आयुषो द्विगुणहानिस्थानान्यसंख्येयगुणानि । (१५) ततो नामगोत्रयोर्द्विगुणहानिस्थानान्यसंख्येयगुणानि । (१६) ततो ज्ञानावरणादेदिगुणहानिस्थानानि विशेषाधिकानि । (१७) ततो मोहनीयस्य द्विगुणहानिस्थानानि संख्येयगुणानि । (१८) ततोऽष्टकर्मणां द्विगुणहान्योरन्तरमसंख्येयगुणम् । (१६) तत आयुर्वर्जसप्तकर्मणामेकमवाधाकण्डकमसंख्येयगुणम् । (२०) तत अायुषः स्थितिवन्धस्थानान्यसंख्येयगुणानि । (२१) तत आयुष उत्कृष्टस्थितिवन्धो विशेषाधिकः । (२२) ततो नामगोत्रयोः स्थितिबन्धस्थानान्यसंख्येयगुणानि । (२३) ततो ज्ञानावरणादिचतुष्कस्य स्थितिबन्धस्थानानि विशेषाधिकानि । (२४) ततो मोहनीयस्य स्थितिबन्धस्थानानि संख्येयगुणानि । (२५) ततो नामगोत्रयोजघन्यस्थितिबन्धः संख्येयगुणः । (२६) ततो नामगोत्रयोरुत्कृष्टस्थितिवन्धो विशेषाधिकः । (२७) ततो ज्ञानावरणादेजघन्यस्थितिबन्धो विशेषाधिकः । (२८) ततो ज्ञानावरणादेरुत्कृष्टस्थितिबन्धो विशेषाधिकः । (२६) ततो मोहनीयस्य जघन्यस्थितिबन्धः संख्येयगुणः (३०) ततो मोहनीयस्योत्कृष्टस्थितिवन्धो विशेषाधिकः । इति ।
अथाऽपर्याप्तासंज्ञिपञ्चेन्द्रियजीवभेदे-(१)नामगोत्रयोरबाधास्थानानि स्तोकानि, (२) ततो ज्ञानावरणादेरवाधास्थानानि विशेषाधिकानि, । (३) ततो मोहनीयस्यावाधास्थानानि संख्येयगुणानि । (४) तत आयुषो जघन्यावाधा संख्येयगुणा, संख्येयावलिकाप्रमाणत्वात् । (५) तत अायुषो जघन्यस्थितिबन्धः संख्येयगुणः । (६) तत आयुषोऽवाधास्थानानि संख्येयगुणानि । (७) तत आयुष उत्कृष्टाबाधा विशेषाधिका । (८) ततो नामगोत्रयोर्जघन्याबाधा संख्येयगुणा । () ततो नामगोत्रयोरुत्कृष्टबाधा विशेषाधिका । (१०) ततो ज्ञानावरणादेर्जवन्याबाधा विशेषाधिका । (११) ततो ज्ञानावरणादेरुत्कृष्टाबाधा विशेषाधिका । (१२) ततो मोहनीयस्य जघन्यावाधा संख्येयगुणा । (१३) ततो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org