SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ५२ ] बंधविहाणे मूलपयडिठिइबंधो [प्रतिजीवभेदमष्टकर्मणां मिथः विशेषाधिकः, तेषामोधोत्कृष्टस्थितिबन्धस्य नामगोत्रयोरोघोत्कृष्टस्थितिबन्धापेक्षया विशेषाधिकत्वात्, भव्याभव्यसाधारणजघन्यस्थितिबन्धस्य तदधीनत्वाच्च । (२४) ततो मोहनीयस्य जघन्यस्थितिबन्धोऽन्तःकोटीकोटीसागरोपमप्रमाणः सन्नपि संख्येयगुणः, अोषोत्कृष्ट स्थितिबन्धस्य संख्येयगुणत्वात् । (२५) ततो नामगोत्रयोः स्थितिबन्धस्थानानि संख्येयगुणानि, अन्तःकोटीकोटीसागरोपमन्यूनविंशतिसागरोपमकोटीकोटीनां समयतुल्यत्वात् । (२६) ततो नामगोत्रयोरुत्कृष्टस्थितिबन्धो विशेषाधिकः, सम्पूर्णविंशतिसागरोपमकोटीकोटीप्रमाणत्वात् । (२७) ततो ज्ञानावरणादिचतुर्णा स्थितिवन्धस्थानानि विशेषाधिकानि, देशोनत्रिंशत्सागरोपमकोटीकोटीप्रमाणतया द्विगुणादपि हीनत्वात् । (२८) ततस्तेषामेव चतुर्णामुत्कृष्टस्थितिबन्धो विशेषाधिकः, समयोनजघन्यस्थित्या अन्तःकोटीकोटीलक्षणायास्तत्र प्रवेशेन परिपूर्णत्रिंशत्सागरोपमकोटीकोटीप्रमाणत्वात् । (२६) ततो मोहनीयस्य स्थितिबन्धस्थानानि संख्येयगुणानि, अन्तःकोटीकोटीसागरोपमन्यूनसप्ततिसागरोपमकोटीकोटीप्रमाणत्वात् । (३०) ततस्तस्यैव मोहनीयस्योत्कृष्टस्थितिबन्धो विशेषाधिकः, अन्तःकोटीकोटीसागरोपमप्रमाणजघन्यायाः स्थितेस्तत्र प्रवेशादिति ।। अथाऽपर्याप्तसंज्ञिपञ्चेन्द्रियजीवभेद आयुष उत्कृष्टस्यापि स्थितिबन्धस्य पूर्वकोटीवर्षप्रमाणत्वेन निषेकद्विगुणहानिस्थान-तदन्तरयोरसम्भवात् पदद्वयवर्जानां शेषाणां ज्ञानावरणादेः स्थितिबन्धस्थानादीनामल्पबहुत्वम् । तत्र-(१) आयुषो जघन्याबाधा सर्वस्तोका, (२) तत आयुषो जघन्यस्थितिबन्धः संख्येयगुणः, (३) तत आयुषोऽवाधास्थानानि संख्येयगुणानि, (४) तत आयुष उत्कृष्टावाधा विशेषाधिका, (५) ततो नामगोत्रयोजघन्यावाधा संख्येयगुणा, (६) ततो ज्ञानावरणादिचतुष्कस्य जघन्याबाधा विशेषाधिका, (७) ततो मोहनीयस्य जघन्याबाधा संख्येयगुणा, (८) ततो नामगोत्रयोरवाधास्थानानि संख्येयगुणानि, (6) ततो नामगोत्रयोरुत्कृष्टाबाधा विशेषाधिका, (१०) ततो ज्ञानावरणादेरवाधास्थानानि विशेषाधिकानि, (११) ततो ज्ञानावरणादेरुत्कृष्टावाधा विशेषाधिका, (१२) ततो मोहनीयस्याबाधास्थानानि संख्येयगुणानि, (१३) ततो मोहनीयस्योत्कृष्टाबाधा विशेषाधिका, (१४) तत आयुषः स्थितिबन्धस्थानानि संख्येयगुणानि, (१५) तत आयुष उत्कृष्टस्थितिवन्धो विशेषाधिकः, पूर्वकोटीवर्षप्रमाणत्वात् । (१६) ततो नामगोत्रयोनिषेकस्य द्विगुणहानिस्थानान्यसंख्येयगुणानि, (१७) ततो ज्ञानावरणादेर्द्विगुणहानिस्थानानि विशेषाधिकानि, (१८) ततो मोहनीयस्य द्विगुणहानिस्थानानि संख्येयगुणानि, (१६) तत आयुर्वजसप्तकर्मणां निषेकस्य द्विगुणहानिस्थानयोरन्तरमसंख्येयगुणम् , अत्र हेतुः पूर्वोक्तसंज्ञिपर्याप्तजीवभेदवज्ज्ञेयः । (२०) ततस्तेषामेवैकमवाधाकण्डकमसंख्येयगुणम् , अत्रापि हेतुः पूर्वोक्तसंज्ञिपर्याप्तजीवभेदवज्ज्ञेयः । (२१) ततो नामगोत्रयोजघन्यस्थितिबन्धोऽसंख्येयगुणः । (२२) ततो ज्ञानावरणादिचतुष्कस्य जघन्यस्थितिवन्धो विशेषाधिकः । (२३) ततो मोहनीयस्य जघन्यस्थितिबन्धः संख्येयगुणः। (२४) ततो नामगोत्रयोः स्थितिबन्धस्थानानि संख्येयगुणानि । (२५) ततो नामगोत्रयोरुत्कृष्टस्थितिवन्धो विशेषाधिकः । For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy