________________
स्थितिबन्धस्थानाद्यल्पबहु० ] प्रथमाधिकारेऽल्पबहुत्वद्वारम
[ ५१ एव नामगोत्रयोर्जघन्यस्थितिवन्धापेक्षया ज्ञानावरणादिचतु णां जघन्यस्थितिवन्धो विशेषाधिक उच्यते । इत्थमेव ज्ञानावरणादीनां स्थितिबन्धस्थानाऽवाधास्थान-जघन्योत्कृष्टावाधादीनां निषेकद्विगुणहान्यबाधाकण्डकवर्जानां पदानां जघन्योत्कृष्टस्थितिबन्ध-तदन्तरालाधीनतया तेषां वक्ष्यमाणसंख्येयगुणत्वादिकस्य जघन्योत्कृष्टस्थितिबन्धानुसारेण भावना कर्तव्येति । अथ प्रस्तुतम्-(५) ज्ञानावरणादिचतुष्कस्य जघन्यावाधापेक्षया मोहनीयस्य जयन्यावाधान्तमुहूर्तमात्रा सत्यपि संख्येयगुणा, अस्य जघन्यस्थितिबन्धस्य संख्येयगुणत्वात् (६) ततो नामगोत्रयोरबाधास्थानानि संख्येयगुणानि, कुतः ? अन्तमुहूर्तोनवर्षसहस्रव्यप्रमाणत्वात् । (७) ततोऽनयोरेवोत्कृष्टावाधा विशेषाधिका, समयोनजघन्यावाधायास्तत्र प्रवेशात् । (८) ततो ज्ञानावरणादिचतुष्कस्यावाधास्थानानि विशेषाधिकानि, नामगोत्रयोरपेक्षया ज्ञानावरणादेर्जघन्योत्कृष्टस्थितिबन्धान्तरालस्य विशेषाधिकत्वात्, अबाधास्थानानां तदधीनत्वाच्च । (६) ततोऽस्यैव चतुष्कस्योत्कृष्टाबाधा विशेषाधिका, समयोनजघन्याबाधायाः प्रक्षेपात् । (१०) ततो मोहनीयस्यावाधास्थानानि संख्येयगुणानि, अस्यौधोत्कृष्टस्थितिबन्धस्य संख्येयगुणत्वेन जघन्योत्कृष्टस्थितिबन्धान्तरस्यापि संख्येयगुणत्वात्, । (११) ततोऽस्यैव मोहनीयस्योत्कृष्टावाधाविशेषाधिका, समयोनजघन्यावाधायुतत्वेन सप्तवर्षसहस्रमितत्वात् । (१२) तत आयुषोऽबाधास्थानानि संख्येयगुणानि, अन्तमुहूर्तोनपूर्वकोटीत्रिभागतुल्यत्वात् । (१३) तत आयुष उत्कृष्टावाधाविशेषाधिका, समयोनजघन्याबाधायास्तत्र प्रवेशेन पूर्वकोटीत्रिभागतुल्यत्वात् । (१४) ततोऽस्यैवायुष उत्कृष्टस्थितिबन्धे निषेकस्य द्विगुणहानिस्थानान्यसंख्येयगुणानि, पल्योपमासंख्येयभागप्रमाणत्वात् । (१५) ततो नामगोत्रयोस्तानि संग्व्येयगुणानि, अनयोरुत्कृष्टस्थितिबन्धस्य संख्येयगुणत्वात् । (१६) ततो ज्ञानावरणादिचतुष्कस्य तानि विशेषाधिकानि, अस्योत्कृष्टस्थितिवन्धस्य विशेषाधिकत्वात् । (१७) ततो मोहनीयस्य तानि निषेकद्विगुणहानिस्थानानि संख्येयगुणानि, अस्योत्कृष्टस्थितिबन्धस्य संख्येयगुणत्वात् निषेकद्विगुणहानिस्थानानां तदधीनत्वाच्च । (१८) ततोऽष्टानामपि ज्ञानावरणादीनां निपेकद्विगुणहानिस्थानयोरेकमन्तरमसंख्येयगुणम् , द्विगुणहानिस्थानान्तरस्याऽसंख्यपल्योपमप्रथमवर्गमूलतुल्यनियतपरिमाणतया सर्वत्र द्विगुणहानिस्थानापेक्षयाऽसंख्येयगुणत्वादत्रापि तथैव बोद्धव्यम् । एवमेवोत्तरत्रापि द्रष्टव्यम् । विशेषभावना तु मूलोक्ताल्पबहुत्ववृत्त्यनुसारेण स्वमेव कर्तव्या । (१६) अनन्तरोक्तनिषेकद्विगुणहानिस्थानयोरेकान्तरापेक्षयाऽऽयुर्वर्जेसप्तकर्मणामेकमबाधाकण्डकमसंख्येयगुणम्, अस्यापि पल्योपमासंख्येयभागतुल्यत्वेऽपि सर्वत्र निषेकद्विगुणहानिस्थानान्तरापेक्षयाऽसंख्येयगुणत्वेन नियतत्वादेवासंख्येयगुणत्वमवसातव्यम् । इत्थमेवोत्तरत्रापि द्रष्टव्यम् । अत्रापि विशेषभावना प्रागिव कर्तव्या । (२०) अनन्तरोक्तकावाधाकण्डकापेक्षयाऽऽयुषः स्थितिबन्धस्थानान्यसंख्येयगुणानि, देशोनत्रयस्त्रिंशत्सागरोपमप्रमाणत्वात् । (२१) तत आयुष उत्कृष्टस्थितिबन्धो विशेषाधिकः, क्षुल्लकभवग्रहणलक्षणेनाऽन्तमुहूर्तेनाधिकत्वात् । (२२) ततो नामगोत्रयोजघन्यस्थितिबन्धः संख्येयगुणः, अन्तःकोटीकोटीसागरोपमप्रमितत्वात् । (२३) ततो ज्ञानावरणादिचतुणां जघन्यस्थितिवन्धो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org