SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ अंधविहाणे मूलपयडिठिइबंधो [प्रतिजीवभेदमष्टकर्मणां मिथः विषयीकतव्यानि भवन्ति विदुषां विविदिपाविच्छेदायेति मन्यामहे, तथाऽपि न तानि सर्वाणि ग्रन्थविस्तरभयाद्वितन्मः, किन्तु प्रथमगुणस्थाने भव्याभव्यसाधारणबन्धप्रायोग्यस्थितिबन्धस्थानादीन्यधिकृत्याऽष्टानामपि मूलकर्मणां परस्थानत एकैकजीवभेदेषु पार्थक्येन, चतुर्दशजीवभेदेषु सामस्त्येन चोच्यन्ते । तत्र पृथग्यक्तव्ये श्रादो तावत्पर्याप्तसंज्ञिपञ्चेन्द्रियजीवभेदे--(१) आयुषो जघन्याबाधा सर्वस्तोका, क्षुल्लकभवत्रिभागादपि सुबहुन्यूनत्वात्तस्याः । (२) तत आयुपो जघन्यस्थितिबन्धः संख्येयगुणः, क्षुल्लकभवप्रमाणत्वात् । (३) ततो नामगोत्रयोजघन्याबाधा संख्येयगुणा, अन्तमुहूर्तमात्रत्वेऽपि चुल्लकभवापेक्षया संख्येयगुणवहदन्तमु हूतेप्रमाणत्वात् । (४) ततो ज्ञानावरण-दर्शनावरणवेदनीया-ऽन्तरायलक्षणस्य ज्ञानावरणादिचतुष्कस्य जघन्यावाधाऽन्तमुहूर्तमात्रा सत्यपि विशेषाधिका, कुतः ? नामगोत्रयोर्जघन्यस्थितिबन्धापेक्षयाऽस्य चतुष्कस्य जघन्यस्थितिबन्धस्य विशेषाधिकत्वात, जघन्याबाधाया जघन्यस्थितिबन्धाधीनत्वाच्च । ननु नामगोत्रयोर्जघन्यस्थितिबन्धापेक्षयाऽस्य ज्ञानावरणादेजघन्यस्थितिबन्धो विशेषाधिक इति कथं ज्ञायते ? भण्यते-पायुवेजेसप्तमूलकर्मणामेकेन्द्रियादिस्वामिकानां जघन्यस्थितिवन्धानामुत्कृष्टस्थितिबन्धानां च प्रमाणस्योघोत्कृष्टस्थितिबन्धप्रमाणानुभारेण भावात् । इदमुक्तं भवति-प्रोघतो नाम-गोत्रयोः प्रत्येकमुत्कृष्टस्थितिबन्धस्य विंशतिसागरोपमकोटीकोटीलक्षणस्यापेक्षया ज्ञानावरणादेः प्रत्येकमुत्कृष्टोऽपि स्थितिबन्धो विशेषाधिकः, त्रिंशत्काटाकोटीसागरोपमप्रमाणत्वात्, एवमेवौघतो ज्ञानावरणादेरुत्कृष्टस्थितिबन्धापेक्षया मोहनीयस्योत्कृष्टस्थितिबन्धः संख्येयगुणः, यतो मोहनीयस्योत्कृष्टा स्थितिरोषतः सप्ततिसागरोपमकोटीकोटीप्रमाणा बध्यते, यस्य च नामादेः कर्मण ओघोत्कृत्ष्टस्थितिबन्धो ज्ञानावरणादेरुत्कृष्टस्थितिबन्धापेक्षया स्तोकस्तस्य जघन्यस्थितिबन्धोऽप्येकेन्द्रियादिजीवैरुत्कृष्टस्थितिबन्धवत् स्तोकः क्रियते, यस्य च ज्ञानावरणादेरुत्कृष्टस्थितिबन्ध ओघतो नामादेः कर्मण उत्कृष्टस्थितिबन्धापेक्षया विशेषाधिको मोहनीयस्य संख्येयगुणो वा तस्योत्कृष्टो वा जघन्यो वा स्थितिवन्धोऽप्येकेन्द्रियादिजीवैस्तथाविध अोघोत्कृष्टस्थितिबन्धानुसारी विशेषाधिकः संख्येयगुणो वा क्रियते । यतो यस्या यस्या मतिज्ञानावरणाद्यत्तरप्रकृतेरोधोत्कृष्टस्थितिबन्धो ज्ञानावरणादिमूलप्रकृत्युत्कृष्टस्थितिबन्धतुल्यो जायते, ताः प्रकृतयः प्रथमगुणस्थानके अोघतो वध्यन्ते, तीर्थकरनामा-ऽऽहारकद्विकवजानां सप्तदशाभ्यधिकशतसंख्याकानामुत्तरप्रकृतीनां बन्धस्य मिथ्यात्वगुणस्थानेऽभिधानात् । न चैवं सासादनादिगुणस्थानेष्वपि, मोहनीयाख्यमूलप्रकृतेरुत्कृष्टस्थितिबन्धतुल्योत्कृष्टस्थितिबन्धाया अद्वितीयाया मिथ्यात्वमोहनीयप्रकृतेः सासादनगुणे केषामपि जीवानामबन्धात्, एवमेवोत्तरत्रापि तथाविधप्रकृतीनां विच्छेदात्, इत्थं हि मिथ्यात्वमोहनीयादिप्रकृतीनां बन्धकः पर्याप्तसंज्ञिपञ्चेन्द्रियजीवो वाऽपर्याप्तसंज्ञिपञ्चेन्द्रियजीवो वैकेन्द्रियादीनामन्यतमो वा जीवो नामगोत्रयोर्यावतीमुत्कृष्टां स्थिति बध्नाति तदपेक्षया ज्ञानावरणादीनां चतुर्णा तां विशेषाधिका बध्नाति, ज्ञानावरणाद्यपेक्षया मोहनीयस्य तु तां संख्येयगुणां बध्नाति, यथा उत्कृष्टां तथा जघन्यामपि नामगोत्रयोरपेक्षया ज्ञानावरणादेविशेषाधिकां, तदपेक्षया मोहनीयस्य संख्येयगुणां च बध्नाति, अत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy