SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आयुः कर्मणः ] प्रथमाधिकारेऽल्पबहुत्यद्वारम् [ ४६ प्रायेण त्वन्यथाऽपि भावनीया । इत्थं ह्युभयापेक्षयाऽपि जघन्यायाधायाः समानत्वात् न कश्चिद्विरोधः, पदार्थान्तरं वेति । 1 अथ प्रकृतम् -- "तत्तो संखगुणो हस्सठिइबंधो" त्ति ततः संख्येयगुणो ह्रस्वः - जघन्यः स्थितिबन्धः, आयुष इत्यनुवृच्या बोद्धव्यम् । एवमुत्तरत्रापि "प्रागस्स" इत्यस्यानुवृत्तिर्द्रष्टव्या । "ता संखगुणाई प्रबाहठाणाणि हुन्ति" त्ति तस्मादायुषो जयन्यस्थितिबन्धादायुपोऽबाधास्थानानि संख्येयगुणानि भवन्ति । जघन्याबाधोनस्वोत्कृष्टायुस्त्रिभाग समय प्रमाणत्वादिति । "ताहितो " त्ति तेभ्योऽवाधास्थानेभ्यः “उक्कोसिया अबाहा होएइ विसेसोऽब्भहिया" त्ति सुगमम्, जघन्यावाधाया यत्र प्रक्षेपादिति । " तो संखगुणाई णायव्वाणि ठिइबंधठाणाई" ति सुगमम्, स्थितिबन्धस्थानानामन्तर्मुहूर्तोन पूर्वकोटीसमयप्रमाणत्वात् । "ताहिन्तो अब्भहियो ठिइबंधो होइ उक्कोसो" त्ति सुगमम्, समयोन क्षुल्लकभवलक्षणस्यान्तमुहूर्त कालस्यात्र प्रक्षेपादिति । उक्तं च कर्म प्रकृतिचूण “पंचिंदियाणं सन्नीणं असन्नी अपज्जत्तगाणं चउरिंदियारणं तेइंदियारणं बेइंदियाणं बायर एगिंदियाणं सुहुम एगिंदियाणं पज्जत्तगपज्जत्तगाणं उगस्स सव्वत्थोवा जहरिया अबाहा, साय असंखेद्धा | जहण्णगो ठितिबंधो संखेज्जगुणो, खुड्डागभवग्गणत्ति काउं । अबाहाद्वाराणि संखेज्जगुणाणि । उक्कसिया बाहा विसेसाहिया । ठितिबंधट्ठाणाणि संखेज्जगुणाणि, पुव्वकोडीजहन्नगट्ठिति (ऊ) णत्ति काउं । उक्कस्सगो ठितिबंधो विसेसाहिओ" । इति । पर्याप्तसंज्ञय संज्ञिवर्जद्वादशजीव भेदेष्वायुपः स्थितिबन्ध स्थानादीनामल्पबहुत्वयन्त्रम् पदानि क्रमः ― १ जघन्याबाधा २ जघन्यस्थितिबन्धः ३ बाधास्थानानि ४ उत्कृष्टाबाधा ५ स्थितिबन्धस्थानानि ६ | उत्कृष्टस्थितिबन्धः Jain Education International अल्पबहुत्वम् सर्वस्तोका संख्येयगुणः संख्येयगुणानि विशेषाधिका संख्ये विशेषाधिकः प्रमाणम् संक्षेप्याद्धाप्रमाणा क्षुल्लकभवप्रमाणः देशोन स्वोत्कृष्टायु स्त्रिभागसमय तुल्यानि स्वोत्कृष्टायु स्त्रिभागप्रमाणा देशोनपूर्वकोटिसमयप्रमाणानि एका पूर्वकोटि : तदेवं व्याख्यातानि चतुर्थद्वारे प्रत्येकं मूलकर्मणां पृथक् पृथक् स्थितिबन्धस्थानादेः परस्थानाल्पबहुत्वानि । अथैतान्येव मूलोत्ताल्पबहुत्वानि बीजपदीकृत्याष्टकर्मणां परस्थानतस्तानि सामस्त्येनोपपादयितु ं युज्यन्ते, एवं गुणस्थानेषु जीवस्थानान्यधिकृत्य पृथक् पृथक् सामस्त्येन च चिन्ता - For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy