SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ४८ ] बंधविहाणे मूलपयडिठिइबंधो [पर्याप्तसंज्यसंज्ञिवर्जजीवभेदेषु पूवकोडितिभागो जहन्नावाहूणो त्ति काउं। उक्कोस्सिा अबाहा विसेसाहिया। जहन्नाबाहासहिय त्ति काउं। ततो नाणापएसगुणहारिणठाणंतराणि असंखिज्जगुणाणि । कारणं पुव्वुत्तं । तो ठितिबंधट्ठाणाणि असंखेज्जगुणाणि, जहन्नगठितिहीणा सव्वठितित्ति काउं। तो उक्कोसगो ठितिबंधो विसेसाहिओ जहन्नगठितिसहिओत्ति काउं ॥ इति ।। २५/२६/२७/२८ ॥ अथोक्तशेषद्वादशजीवभेदेषु प्रकृतमायुषः स्थितिबन्धस्थानादीनामल्पबहुत्वं दर्शयन्नाह-- वारहसु सेसेसु जीवसमासेसु अाउगस्सऽप्पा । हस्साऽवाहा तत्तो संखगुणो हस्सठिइबंधो ॥२६॥ ताश्रो संखगुणाई अबाहठाणाणि हुन्ति ताहिंतो । उक्कोसिया प्रवाहा होएइ विसेसोऽभहिया ॥३०॥ तत्तो संखगुणाइं गायब्वाणि ठिइबंधठाणाइं । ताहिन्तो अभहियो ठिइबंधो होइ उक्कोसो ॥३१॥ (प्रे०) “बारहसु सेसेसु"मित्यादि, अनन्तरोक्तपर्याप्तसंश्यसंज्ञिपञ्चेन्द्रियजीवभेदद्वयं विहाय सूक्ष्म-बादर-पर्याप्ता-ऽपर्याप्तैकेन्द्रिय-पर्याप्ता-ऽपर्याप्तद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रिया-ऽपर्याप्तसंझ्यसंज्ञिपञ्चेन्द्रियलक्षणेषु द्वादशः शेषेषु जीवसमासेपु-जीवभेदेषु प्रत्येकमित्यर्थः, एतेषु प्रत्येक किमित्याह"प्राउगस्सऽप्पा" इत्यादि, आयुष्कस्य ह्रस्वा-जघन्याऽबाधाऽल्पा, वक्ष्यमाणपदेभ्योः स्तोकेत्यर्थः । इयं ह्यायुषो बन्धकालेन न्यूनासंक्षेप्याद्धाप्रमाणा सती संख्येयावलिकातुल्या भवति ।। ___ ननु कर्मप्रकृतिचूणौं तु साऽसंक्षेप्याद्धाप्रमाणा दर्शिता, अत्र तु ततोऽपि न्यूनाभिधाने कथं न विरोधः ? इति चेद, न, विवक्षाभेदेनेत्थमभिधानेऽपि न कश्चिद्विरोधः, "जीवाज्जीवाऽऽश्रव-बन्धसंवरनिर्जरा-मोक्षा-स्तत्वम् इत्यनेन सप्तविधतत्त्वप्रतिपादने “जीवाजीवा पुण्णं, पावा-सव-संवरो य निज्जरणा । बंधो मुक्खो य तहा, नव तत्ता हुंति नायव्वा' इत्यनेन नवविधतत्त्वाभिधानेऽप्यविरोध इव । इदमुक्तं भवति,-कुत्रचिद्ग्रन्थे जघन्याबाधाऽसंक्षेप्यद्धामानाऽभिहिता । यथा कर्मप्रकृतिचूर्णी- “पाउगस्स सव्वत्थोवा जहणिया अबाहा, सा य असंखिप्पद्धा' इत्यनेन । ततश्च कर्मप्रकृत्यभिप्रायेण यस्या अर्वाक् पूर्वमबद्धपारभविकायुष्कजीवेन नियमेनायुबन्धो समाप्यते सा वेद्यमानायुरवशेषरूपाऽसंख्येप्याद्धेति ज्ञायते, तस्या एवायुषो जघन्यावाधात्वेन संघटनात् । प्रज्ञापनावृत्यादौ तु "त्रिभागादिना प्रकारेण या संक्षेप्तुं न शक्यते सा असंक्षेप्या सा चासौ अद्धा च असंक्षेप्याद्धा" इत्येवंव्याख्यानाद् यस्या अर्वाक् पूर्वमबद्धपारभविकायुर्जीवो नियमेनायुर्वन्धं प्रारभते सा असंक्षेप्याद्धा, इत्येवमसंक्षेप्याद्धाऽऽयुर्वन्धकालेनाधिकजघन्याबाधाप्रमाणा लक्ष्यते, आयुषोऽबाधा तु यावति वेधमानायुष्यवशेषे परभवायुबन्धः समाप्यते तावन्माना सर्वेषामभिप्रता, प्रकृते च जघन्याबाधा प्रज्ञापनावृत्त्याद्यभिप्रेताऽसंक्षेप्याद्धाव्याख्यानानुसारेण भाविता, कर्मप्रकृत्यभि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy