________________
आयुःकर्मणः ] प्रथमाधिकारेऽल्पबहुत्वद्वारम्
[४७ जघन्याबाधया न्यूनपूर्वकोटीविभागप्रमाणानि, अर्थात्पटपञ्चाशदभ्यधिकद्विशतावलिकाप्रमाणजघन्यायुबन्धापेक्षया संख्येयवर्षप्रमाणान्यबाधास्थानानि सुतरां संख्येयगुणानि भवन्तीति । "ताहिन्तो" त्ति तेभ्योऽवाधास्थानेभ्यः "उक्कोसिया अबाहा होएइ विसेसप्रोऽब्भहिया" ति उत्कृष्टाऽवाधा विशेषतोऽभ्यधिका, विशेषाधिका भवतीत्यर्थः। कुतः ? पूर्वकोटीत्रिभागप्रमाणत्वादिति । "ताउ असंखगुणाई हवन्ति" ति ततोऽसंख्यगुणानि भवन्ति, कानीत्याह-"ठाणाणि दुगुणहाणीण" त्ति निषेकस्य द्विगुणहानीनां स्थानानीत्यर्थः, कुतः ? पल्योपमप्रथमवर्गमूललक्षणयथोक्तप्रमाणत्वात् । ततोऽसंख्यगुणानि "ठाणाइं अंतरे एगे' ति आयुषो निषेकस्य द्विगुणहान्योरेकस्मिन्नन्तरे यानि निषेकस्थानानि तानीत्यर्थः, कुतः ? असंख्येयपल्योपमप्रथमवर्गमूललक्षणयथोक्तप्रमाणत्वात् । “ताउअसंखगुणाइं णायव्याणि" ति तेभ्योऽसंख्यगुणानि ज्ञातव्यानि भवन्ति, कानीत्याह-"ठिइबंधठाणाणि" ति श्रायुषः स्थितिबन्धस्थानानि, यत इमानि पर्याप्तसंश्यसंज्ञिजीवभेदयोः क्रमेण समयोनषट्पञ्चाशदधिकशतद्वयावलिकान्यूनत्रयस्त्रिंशत्सागरोपम - पल्योपमासंख्येयभागसमयतुल्यानीति । “ताहिन्तो” त्ति तेभ्यः-आयुषः स्थितिबन्धस्थानेभ्यः "अब्भहियो ठिइबंधो होइ उक्कोसो" ति आयुष उत्कृष्टः स्थितिबन्धोऽभ्यधिकः'-विशेषाधिको भवति, समयोनक्षुल्लकभवग्रहणस्य तत्र प्रक्षेपादिति । उक्तं च कर्मप्रकृतिचूणी---
“पंचिंदियाणं सन्नीणं असन्नीणं पज्जत्तगाणं आउगम्स सव्वत्थोवा अबाहा । सा य असंखिज्जद्धा। ततो जहन्नगो ठितिबंधो संखेज्जगुणो। सो य खुड्डागभवो त्ति काउं । ततो अबाहाहाणणि संखेज्जगणाणि ।
पर्याप्तसंज्ञि-पर्याप्तासंज्ञिजीवभेदयोरायुःकर्मणः स्थितिबन्धस्थानादी
नामष्टपदानामल्पबहुत्वयन्त्रम्
जघन्याबाधा
सर्वस्तोका असंक्षेप्याद्धा जघन्यस्थितिबन्धः संख्येयगुणः खुल्लकभवः अबाधास्थानानि | संख्येयगुणानि | देशोनपूर्वकोटितृतीयभागसमयतुल्यानि उत्कृष्टाबाधा | विशेषाधिका पूर्वकोटितृतीयभाग० निपेकद्विगुणहानयः । असंख्येयगुणाः | पल्योपमप्रथमवर्गमूलस्याऽसंख्येयभागप्रमाणाः द्विगुणहान्योरन्तरम् | असंख्येयगुणम् | असंख्येयपल्योपमप्रथमवर्गमूलम् स्थितिबन्धस्थानानि असंख्येयगुणानि | क्षुल्लकभवन्यूनोउत्कृष्टस्थितिबन्धसमयतुल्यानि उत्कृष्टस्थितिबन्धः विशेषाधिकः | ३३ सागरोपमाणि तथा पल्यासंख्यभागः क्रमेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org