________________
४४ ]
बंधवहाणे मूलपडिटिबंधो
"ताउ
[ संज्ञिवर्ज द्वादशजीवभेदेषु कुतः ? रूपोनाबाधास्थानैरधिकत्वादिति । "ताउ श्रसंखणागुई" ति तस्या अनन्तरोक्तोत्कृष्टा बाधाया असंख्येयगुणानि कानीत्याह - "ठाणाई दुगुणहाणीणं" ति असंज्ञिपञ्चेन्द्रियादिप्रायोग्योत्कृष्टस्थितौ निषेकस्य द्विगुणहानीनां स्थानानि, पल्योपमप्रथमवर्गमूलासंख्येय भागप्रमाणत्वा तेषामिति । उक्तं चानन्तरमेव — “गाणंतरठाणाई असंखिययमोऽत्थि पल्लमूलंसो" इति । " ताउ असंखगुणाई हवंति" त्ति तेभ्यो निषेकस्य द्विगुणहानिस्थानेभ्यो ऽसंख्यगुणानि भवन्ति, कानीत्याह - " एगतरस्स ठाणाई" ति निषेकस्य द्विगुणहान्योरेकान्तरस्य स्थानानि, एकान्तरगतनिषेकस्थानानीत्यर्थः । कथम् ? पूर्ववत् पल्योपमस्यासंख्येयानां प्रथमवर्गमूलानां समयप्रमाणत्वादिति । “ताउ असंखेज्जगुणं” ति तेभ्योऽसंख्येयगुणं भवेदिति परेणान्वयः, किं तदित्याह — "अबाहाकडे भवे एगं” ति एकमबाधाकंडक मेकसमयावाधाहानौ हीयमानस्थितिबन्धस्थानसमूहभूतं प्रागुक्तस्वरूपमित्यर्थः, संज्ञिजीवभेदसत्काल्पबहुत्वानुसारेण भावनीयमिदमसंख्येयगुणत्वमिति । संखगुणाई णायव्वाणि" ति तस्मादेकस्मादवाधा कण्डकाद् असंख्यगुणानि ज्ञातव्यानि, कानीत्याह — "ठिइबंधट्टणाणि" त्ति निरुक्तलक्षणानि स्थितिबन्धस्थानानि । सुगमम् । "तो संखगुणो हस्तो oिsबंधो" त्ति तेभ्योऽनन्तरोक्तासंज्ञयादीनां प्रत्येकं स्थितिबन्धस्थानेभ्यस्तेषामेव प्रत्येकं संख्येयगुणो ह्रस्वः स्थितिबन्धः । असंज्ञि - विकलेन्द्रियाणां प्रत्येकं जघन्योत्कृष्टस्थितिबन्धान्तरस्य पल्योपमसंख्येयभागप्रमाणत्वेन तेषां जघन्यस्थितिबन्धः संख्येयगुणो जायते, न पुनरेकेन्द्रियाणाम्, तेषां जघन्योत्कृष्टस्थितिबन्धान्तरस्य पल्योपमासंख्येयभागप्रमाणत्वात्, अत इदं विकलेन्द्रियासंज्ञिपञ्चेन्द्रियजीवभेदप्राधान्येन सामान्यतोऽभिहितम्, एकेन्द्रियजीव भेदापेक्षया त्वनन्तरं विशेषतो वक्ष्यतीति । "तो परोऽब्भहियो” त्ति ततः परः - उत्कृष्टः स्थितिबन्ध इत्यनुवर्तते, कियानित्याह"भहियो" त्ति अभ्यधिकः - विशेषाधिकः, असंज्ञि-विकलेन्द्रियसत्काष्टजीवभेदेषु पल्योपमसंख्येयभागेन, शेषेषु चतुर्ष्वकेन्द्रियसत्कजीवभेदेषु तु पल्योपमासंख्येयभागेनेत्यर्थः । सूक्ष्मबादरपर्याप्ताऽपर्याप्तभेदभिन्नेष्वेकेन्द्रियसत्कचतुषु जीवभेदेषु सामान्येनाभिहितमतिप्रसक्तमर्थं निराचिकीषु राह"णवरि" इत्यादि, नवरं परमयं विशेषः, कोऽयमित्याह - " असंखेज्जगुणा" इत्यादि, व्याख्यातप्रायम्, नवरं तथाशब्दः सादृश्ये, यथाऽबाधा तथा लघुस्थितिबन्धोऽसंख्यगुण इत्यर्थः, “जहाठाणं" ति यथोक्तस्थान इत्यर्थः । श्रयम्भावः - अनन्तरमवाधास्थानेभ्यो ह्रस्वाऽबाधा संख्येयगुणा उक्ता तथा स्थितिबन्धस्थानेभ्यो जघन्यस्थितिबन्धः संख्येयगुण उक्तः, एतद्द्वयमप्येकेन्द्रिय सत्केषु चतुर्ष्वपि जीवस्थानेषु न सङ्गच्छते, अतस्तेषु चतुर्ष्वपि जीवभेदेष्ववाधास्थानेभ्यो हस्वाबाधाऽसंख्येयगुणा वक्तव्या, तथा स्थितिबन्धस्थानेभ्यो लघुस्थितिबन्धोऽसंख्येयगुणोऽभिधातव्य इति । इदमप्यपबहुत्वं कर्म प्रकृति चूर्णावित्यमेवाभिहितम्, केवलमसंशिपञ्चेन्द्रिय विकलेन्द्रिसत्कजीवभेदेषु तथैकेन्द्रियसत्कचतुर्जीवभेदेषु तुल्यमिति कृत्वा निरपवादं पृथक्पृथगभिहितम् । तथा च तद्ग्रन्थः,—
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org