________________
आयुर्वर्जसप्तकर्मणाम् ] प्रथमाधिकारेऽल्पबहुत्वद्वारम्
[ ४३ समयतुल्यानि भवन्ति । कुतः ? प्रत्येकं स्थितिस्थानानां पन्योपमसंख्येयभागमात्रत्वेन तावन्मात्राणां स्तोकानामेवाबाधास्थानानां निष्पत्तेः । इदमुक्तं भवति-अधिकृतजीवभेदेषु न संज्ञिपञ्चेन्द्रियपर्याप्तापर्याप्तजीवभेदयोरिव सप्तानां जघन्योत्कृष्टस्थितिबन्धयोरन्तरालं संख्येयसागरोपमादिप्रमाणम्, किन्तु पल्योपमसंख्येयभागमात्रमेव । वक्ष्यते चात्रैव ग्रन्थे स्थितिबन्धप्रमाणं निरूपयता ग्रन्थकृता"सव्वविगलेसु सगगुरुठिइबंधो पलियसंखभागूणो । सत्तरह लहू णेयो'' इत्यनेन, इत्थं हि जघन्योत्कृष्टस्थितिबन्धान्तरालाधीनानि स्थितिबन्धस्थानान्यपि प्रकृते स्तोकानि पल्योपमसंख्येयभागमात्राणि प्राप्यन्ते, तानि चैकाबाधास्थाननिष्पादकपल्योपमाऽसंख्येयभागप्रमाणेनियतसंख्याकैः स्थितिबन्धस्थानयंदा विभज्यन्ते तदाऽऽवलिकायाः संख्येयभागगतसमयप्रमाणं भागफलं लभ्यते, भागफलतुल्यान्येवाबाधास्थानानीति तु सुगमः। यावन्त्यवाधास्थानानि तावन्त्यवाधाकण्डकानीति तु प्राग् दर्शितमेव, अन्तमुहूर्तमात्राऽपि जघन्यावाधा तु संख्येयावलिकाप्रमाणा, अत एव प्रकृतेऽवाधास्थानाऽवाधाकण्डकेभ्यो जघन्यावाधा संख्येयगुणाऽभिहितेति । इदं हि संख्येयगुणत्वं सूक्ष्मवादरपर्याप्ताऽपर्याप्तात्मकैकेन्द्रियसत्कजीवभेदचतुष्कसम्बधिष्वल्पबहुत्वेषु न सङ्गच्छते, यत एकेन्द्रियाणां जघन्यस्थितिबन्धापेक्षयोत्कृष्टोऽपि स्थितिवन्धः पल्योपमस्याऽसंख्येयभागेनैवाधिको जायते, तथा च सति तेषां स्थितिबन्धस्थानान्यप्यतीवस्तोकानि पल्योपमासंख्येयभागमात्राणि, तानि च पूर्ववदेकाबाधास्थाननिष्पादकपल्योपमाऽसंख्येयभागप्रमाणैर्नियतसंख्याकैः स्थितिबन्धस्थानयंदा विभज्यन्ते तदाऽऽवलिकाया असंख्येयभागगतसमयप्रमाणं भागफलं प्राप्यते । जघन्यावाधाऽपि प्रकृतसूक्ष्मबादरपर्याप्ताऽपर्याप्तैकेन्द्रियजीवभेदेषु यद्यपि द्वीन्द्रियाद्यपेक्षया स्तोका, तथाऽपि संख्येयावलिकाप्रमाणैव, कुतः ? द्वीन्द्रियाणां जघन्यस्थितिबन्धापेक्षयैकेन्द्रियाणां जघन्यस्थितिबन्धस्य संख्येयभागगतत्वेनाबाधाया अपि संख्येयभागगतत्वात् । इत्थं टेकेन्द्रियसत्कचतुर्जीवभेदसम्बन्ध्यल्पबहुत्वेष्वावलिकाया असंख्येयभागगतसमयप्रमाणेभ्योऽवाधास्थानेभ्यः संख्येयावलिकाप्रमाणा जघन्याबाधाऽसंख्येयगुणा भवति । न चैतावन्मात्रम् , किं तर्हि ? उत्तरत्र “तो संखगुणो ठिइबंधो” इत्यनेनाधिकृतशेषद्वादशजीवभेदेषु वक्ष्यमाणं स्थितिबन्धस्थानापेक्षया जघन्यस्थितिबन्धस्य संख्येयगुणत्वमपि चतुर्वेकेन्द्रियसत्कजीवभेदेषु न सङ्गच्छते, कुतः ? उक्तहेतोरेव, एकेन्द्रियसत्कचतुर्जीवभेदेषु स्थितिबन्धस्थानानां पल्योपमाऽसंख्येयभागमात्रत्वात्, तत एव पल्योपमासंख्येयभागेनोनसागरोपमत्रिसप्तभागादिप्रमाणस्य ज्ञानावरणादिसत्कजघन्यस्थितिबन्धस्याऽसंख्येयगुणत्वादिति भावः । ननु यद्येवं तर्हि कथमेकेन्द्रियसत्काश्चत्वारो जीवभेदाः शेषद्वादशजीवभेदेषु संगृह्याल्पबहुत्वमभिहितम् ? लाघवार्थम, पदद्वयं विवर्य शेषपदेषु तुल्यवक्तव्यत्वाच्च, न चैवं सत्यतिप्रसक्तिः स्यादिति वाच्यम् । यत एकेन्द्रियसत्कचतुर्जीवभेदापेक्षयाऽघटमानपदद्वये—“णवरि असंखेज्जगुणा” इत्यादिना ग्रन्थकारः स्वयमेवापवदिष्यतीत्यलं प्रसङ्गेन । अथ प्रकृतम्-"तत्तो परा" ति उक्तसप्तकर्मसत्का परा-उत्कृष्टा, अबाधा इत्यनुवर्तते, कियतीत्याह-"विसेसाहिया" ति विशेषाधिकाः, संख्येयभागमात्रेणाधिकेत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org