________________
४२
बंधविहाणे मूलपयडिठिइबंधो [ संज्ञिवर्जद्वादशजीवभेदेषु सागरोवमकोडाकोडीत्ति काउं । ततो ठितिबंधठाणाणि संखेज्जगुणाणि, जहन्नगठितिऊणा सव्वठितित्तिकाउं । तत्तो उक्कोसिया ठिती विसेसहिया, जहन्नगठितिए अबाहाए. य सहियत्ति काउं॥” इति ॥१६।१७।१८।१६।।
तदेवमुक्तं संज्ञिपर्याप्ता-ऽपर्याप्तजीवभेदद्वये आयुर्वर्जसप्तकर्मणामुत्कृष्ट स्थितिबन्धः, जघन्यस्थितिबन्धः, उत्कृष्टाबाधा, जघन्यावाधा, अबाधाकण्डकानि, अबाधास्थानानि, स्थितिबन्धस्थानानि, निषेकसत्कद्विगुणहान्योरन्तरम्, निषेकसत्कद्विगुणहानिस्थानानि, अबाधाकण्डकपरिमाणमित्येतेषां दशपदानामल्पबहुत्वम् । साम्प्रतमेतदेव शेषद्वादशजीवभेदेषु दिदर्शयिषुराह
वारहसु सेसेसुं जीवसमासेसु हुन्ति सत्तण्हं । थोवाणि अबाहाए तुल्लाइं ठाणकंडाइं ॥२०॥ तो संखगुणाऽवाहा हस्सा तत्तो परा विसेसहिया। ताउ असंखगुणाइं ठाणाई दुगुणहाणीणं ॥२१॥ ताउ असंखगुणाइं हवन्ति एगंतरस्स ठाणाइं । ताउ असंखेज्जगुणं अबाहकंडं भवे एगं ॥२२॥ ताउ असंखगुणाई णायव्वाणि ठिइबंधठाणाणि । तो संखगुणो हस्सो ठिइबंधो तो परोऽभहियो ॥२३॥ णवरि असंखेज्जगुणा चउसुएगिदिसक्कभेएसु।
हस्साऽवाहाऽत्थि तहा लहुठिइबंधो जहाठाणं ॥२४॥ (प्रे०) "बारहसु सेसेसुं' इत्यादि अनन्तरोक्तसंज्ञिपञ्चेन्द्रियपर्याप्ताऽपर्याप्तजीवभेदद्वयवर्जा ये सूक्ष्मवादरैकेन्द्रिय-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिया-ऽसंज्ञिपञ्चेद्रियाणां पर्याप्ता-ऽपर्याप्तभेदनिष्पन्ना द्वादश शेषा जीवसमासाः-जीवभेदास्तेषु प्रत्येकम् "हुन्ति' नि भवन्ति, किमित्याह- "सत्तण्हे". त्यादि, आयुर्वर्जानां सप्तानां मूलप्रकृतीनां "थोवाणि प्रबाहाए तुल्लाई ठाणकंडाई" ति स्तोकानि, वक्ष्यमाणपदापेक्षयाऽल्पान्यबाधायाः "ठाणकंडाई" ति स्थानानि कण्डकानि च स्थानकण्डकानीति समासः, अबाधायाः स्थानान्यबाधायाः कण्डकानीत्येते द्वेऽपि पदे प्रत्येकमित्यर्थः । 'तल्लाणि" त्ति परस्परं तु तानि तुल्यानीत्यर्थः । सुगमम् । "तो" त्ति तेभ्योऽबाधास्थानाऽबाधाकण्डकैकतरेभ्यः "संखगुणाऽवाहा हस्सा" त्ति ह्रस्वा-जघन्याऽवाधा संख्येयगुणा । ननु संज्ञिपञ्चेन्द्रियपर्याप्तापर्याप्तजीवभेदयोरनन्तरं जघन्यावाधापेक्षयाऽवाधास्थानान्यवाधाकण्डकानि संख्येयगुणान्यभिहितानि. तत्प्रकते पुनः कथं वैपरित्येनावाधास्थानाऽवाधाकण्डकेभ्यो जघन्यावाधा संख्ययगुणाऽभिधीयते ? उच्यते, प्रकते द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियपर्याप्ताऽपर्याप्तलक्षणेष्वष्टजीवभेदेषु प्रस्तुतानां ज्ञानावरणादीनां सप्तप्रकृतीनां प्रत्येकमबाधास्थानान्यबाधाकण्डकानि चावलिकायाः संख्येयभागगत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org