________________
हा मूलपइबंधो
[ पर्याप्ता-पर्याप्तसंज्ञिभेदयोः
स्थानाऽबाधाकण्डकैकतरेभ्यो विशेषाधिका ज्येष्ठा - उत्कृष्टावाधा भवेद्, बाधास्थान संख्येयभागमात्राया जघन्याबाधाया अत्र प्रवेशात् । " ताहिन्तो" त्ति तस्या ज्येष्ठावाधायाः " णाणागुणहाणीणं ठाणाणि संखियगुणाणि "त्ति नानाऽन्तरनिष्पन्नानि निषेकसत्कद्वि गुणहानिस्थानान्यसंख्येयगुणानीत्यर्थः । कुतः ? पर्याप्तसंज्ञिजीवभेदे प्रकृतसप्तानामुत्कृष्टाबाधा संख्येयशतवर्षमात्रा, अपर्याप्तसंज्ञिजीवभेदे च साऽन्तर्मुहूर्त मात्रा भवति निषेकसत्कद्विगुणहानिस्थानानि पुनः पल्योपमप्रथमवर्गमूलस्यासंख्येयभागतुल्यानि सन्त्यपि असंख्येयवर्षसमय तुल्यानि ततश्चेमान्यसंख्येयगुणानि जायन्त इति । "ताउ प्रसंखगुणाई हवन्ति" त्ति तेभ्यो नानागुणहानिस्थानेभ्योऽसंख्यगुणानि भवन्ति, कानीत्याह - एगतरस्स ठाणाणि" त्ति निषेकसत्कद्विगुणहान्योरेकान्तरस्य स्थानानि, यत इमानि पल्योपमस्यासंख्येयप्रथमवर्गमूलतुल्यानि । उक्तं च प्राग् – “इगंतरमसंखमूलं हि " इति । " ताउ श्रसंखेज्जगुणं अबाह कडं भवे ए ं" ति तेभ्य एकमबाधाकण्डकमसंख्येयगुणं भवेत् । कुतः ? उच्यते, एकस्यान्तरस्य स्थानान्यानयनायाऽबाधाहीनोत्कृष्ट स्थितिः पल्योपमप्रथमवर्गमूलाऽसंख्यांशगतसमयैर्विभज्यते, अबाधाकण्डकमानयनाय तु जघन्यस्थित्या न्यूनोत्कृष्टस्थितिर्देशोन त्रिसहस्रादिवर्षसमयतुल्यैरबाधास्थानर्विभज्यते, एवं च भाज्यसंख्यायास्तुल्यत्वे सति भागहारसंख्याया अन्तर्मुहूर्त न्यूनत्रिसहस्रवर्षादिसमयतुल्यायाः पल्योपमप्रथमवर्गमूलाऽसंख्यांशगतसमयापेक्षयाऽसंख्येयगुणहीनत्वेन भागफलस्यासंख्येयगुणाधिकलाभात् । भागफलप्रमाणस्थानानां ह्येकं कण्डकमिति तु सुगममिति । " ताउ प्रसंखगुणोऽणू ठिइबधो” त्ति तस्मादेककण्डकस्थानात्, एककण्डकगतस्थितिस्थानेभ्य इत्यर्थः । असंख्यगुणोऽणुःजघन्यः स्थितिबन्धः, सप्तप्रकृतीनामिति सर्वत्राऽनुवर्तते । सुगमं चैतत् यतः संज्ञिनां जघन्योऽपि स्थितिबन्धोऽन्तःकोटीकोटीसागरोपमप्रमाणो जायते । ननु संयतस्य जघन्यस्थितिबन्धः प्रागन्तमुहूर्तता सर्वस्तोको दर्शितः, संयतानां संज्ञित्वेन स एव संज्ञिनां जघन्यस्थितिबन्धो भवति, तत्कथमत्र संज्ञिनां जघन्योऽपि स्थितिबन्धोऽन्तः कोटीकोटी सागरोपमप्रमाणो जायते इत्युच्यते ? भण्यते- श्रत्र श्रेणिमनारूढानां संज्ञिनां यः सर्वस्तोकः स्थितिबन्धः स जघन्यस्थितिबन्धतया ग्राह्यः, न पुनः श्रेणि समारूढानाम्, कर्म प्रकृतिवृत्तौ मलयगिरिपादैः प्रकृताल्पबहुत्ववृत्तौ तथैव व्याख्यातत्वात्, सङ्गतेश्च । यदुक्तं तै:। तस्माज्जघन्यः स्थितिबन्धोऽसंख्येयगुणः, अन्तः सागरोपमकोटीकोटीप्रमाणत्वात्, संज्ञिपञ्चेन्द्रिया हि श्रेणिमनारूढा जघन्यतोऽपि स्थितिबन्धमन्तःसागरोपमकोटीकोटीप्रमाणमेव कुर्वन्तीति ।" इति ।
,
४० ]
"
I
"ताउ संखियगुणाई ठिइबंधट्ठाणाई” त्ति तस्माज्जघन्यस्थितिबन्धात् स्थितिबन्धस्थानानि संख्येयगुणानि । यतो जघन्यस्थितिबन्धोऽन्तः कोटी कोटी सागरोपममात्रो गृहीतः, स्थितिबन्धस्थानानि तु जघन्यस्थितिबन्धादारभ्योत्कृष्ट स्थितिमभिव्याप्य यावन्तः समयास्तावन्ति भवन्तीति । "तोऽब्भहियो परमठिइबंधो” त्ति ततोऽभ्यधिकः - विशेषाधिक उत्कृष्ट स्थितिबन्धः सप्तानामित्यनुवर्तत एव । सुगमं चेदमपि जघन्यस्थित्या अत्र प्रक्षेपादिति । कर्मप्रकृतिचूणां प्रकृताल्पबहुत्वमित्थमेव । तथा च
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International