________________
आयुर्वर्जसप्तकर्मणाम् ] प्रथमाधिकारेऽल्पबहुत्वद्वारम्
[ ३६ स्कृष्टावाधायां बध्यते, कदाचिच्च द्विसमयोनोत्कृष्टावाधायां वध्यते, एवं यथासम्भवं समयादिहान्या यावदन्तमुहूर्तात्मिकायां जघन्याऽवाधायामपि बध्यते, इत्येवं तथाविधनियमाभावादायुष्यनेके भङ्गा भवन्ति । तद्यथा-जघन्यायुजेधन्याबाधा, जघन्यायुरजघन्यावाधा, जघन्यायुरुत्कष्टाबाधा, जघन्यायुरनुत्कृष्टाबाधा, उत्कृष्टायुर्जधन्यावाधा, उत्कृष्टायुरजघन्यावाधा, उत्कष्टायुरुत्कष्टाबाधेत्यादि । अत एवायुःकर्मण्यवाधाकण्डकानि नोक्तानीत्यलं विस्तरेण ॥१॥
तदेवं गतं "अबाहाकडं" इत्यनेनोद्दिष्टं तृतीयं द्वारम् । इत्थं च स्वस्थानाल्पबहुत्वादिभणनद्वारेण कृता स्थितिबन्धस्थानादिद्वारत्रयविषया प्ररूपणा । साम्प्रतं क्रमप्राप्ताऽल्पबहुत्वद्वारे तेषामेव स्थितिबन्धाऽऽबाधास्थानादीनां परस्थानाल्पवहुत्वमभिधित्सुरादौ तावत्संक्षिपञ्चेन्द्रियपर्याप्ताऽपर्याप्तयोर्द्वयोर्जीवस्थानयोरायुर्वर्जशेषसप्तकर्माण्यधिकृत्य तदाह
पज्जेयरसरणीसु सत्तण्हऽप्पा जहरणऽवाहा तो । संखगुणाणि अवाहान ठाणकंडाणि तुल्लाणि ॥१६॥ तत्तो विसेसअहिया जेट्टाऽवाहा हवेज्ज ताहिन्तो । णाणागुणहाणीणं ठाणाणि असंखियगुणाणि ॥१७॥ ताउ असंखगुणाई हवन्ति एगंतरस्स ठाणाणि । ताउ असंखेज्जगुणं अवाहकंडं भवे एगं ॥१८॥ ताउ असंखगुणोऽणू ठिइबंधो ताउ संखियगुणाई । ठिइबंधाणाइं तोऽभहियो परमठिइबंधो। १६॥
(प्रे०) 'पज्जेयरसण्णीसु" इत्यादि, "द्वन्द्वान्ते श्रृयमाणं पदं प्रत्येकमभिसम्बध्यते" इति न्यायेन संशिशब्दस्य पर्याप्तेतरयोः प्रत्येकं योजनात् पर्याप्तसंशिजीवभेदे, इतरे-अपर्याप्तसंज्ञिजीवभेदे चेत्यर्थः । “सण्णीसु" इत्यत्र बहुवचनं प्राकृतत्वात् । एतस्मिन् जीवभेदद्वये किमित्याह-"सत्तण्ह" इत्यादि, आयुर्वर्जानां सप्तानां मूलप्रकृतीनां प्रत्येकं 'प्पा" ति प्राकृतलक्षणेनाऽकारस्य लुप्तत्वात् "अप्पा" ति अल्पा-सर्वस्तोकेत्यर्थः, का इत्याह--"जहण्णऽबाहा" जघन्याऽबाधा । अस्याः संख्येयावलिकारूपत्वेन लघ्वन्तमु हूतप्रमाणत्वात् "तो" त्ति ततः,-जघन्यानाधापेक्षयेत्यर्थः "संखगुणाणि अबाहान ठाणकंडाणि" त्ति संख्ययगुणान्यबाधायाः स्थानकण्डकानि, अवाधास्थानान्यवाधाकण्डकानि च, एते द्वे पदेऽपि प्रत्येकं संख्येयगुण इत्यर्थः । अवाधास्थानान्यबाधाकण्डकानि परस्परं तु "तुल्लाणि" ति तुल्यानि-समसङ्ख्याकानि, यतः प्रत्यबाधास्थानमवाधाकण्डकं निष्पद्यते, पूर्वापेक्षया संख्येयगुणत्वं तु जघन्यावाधान्यूनोत्कृष्टावाधाया ये समयास्तैरेकरूपाधिकैस्तुल्यत्वादबाधास्थानानामबाधाकण्डकानां चेति । "तत्तो विसेसअहिया जेठ्ठाऽबाहा हवेज्ज" ति तेभ्योऽवाधा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org