________________
३८ ]
बंधविहाणे मूलपयडिठिइबंधो [ अबाधाकण्डकप्ररूपणम् (प्रे०) “पल्लासंखियभागमि"त्यादि, अबाधायाः क्षये क्षणे क्षणे-समये समये, समयसमयप्रमाणाबाधाक्षये सतीत्यर्थः । आयुर्वजसप्तकर्मणामुत्कृष्टस्थितेः प्रारभ्य पल्योपमासंख्येयभागम् "गंतूण" इति शब्दो द्विराक्तते, ततो गत्वा गत्वाऽवाधाकण्डकमेकमेकं भवति यावज्जघन्या स्थितिरित्यर्थः । इदमुक्तं भवति-आयुर्विवज्ये कस्यचिदपि कर्मण उत्कृष्टस्थितो बध्यमानायामबाधाऽप्युत्कृष्टा भवति, समयमात्राबाधाहानौ पुनरुत्कृष्टा स्थितिनियमेन पल्योपमासंख्येयभागेनोना बध्यते, एवं द्विसमयावाधाहानौ तूत्कृष्टा स्थितिरपि द्वयेन पल्योपमासंख्येयभागेनोना बध्यते, एवमवाधाहानौ प्रतिसमयं स्थितिबन्धोऽपि पल्योपमासंख्येयभागेन न्यूनो न्यूनो जायते इति द्रष्टव्यं यावदेकत्र जघन्यावाधाऽन्यत्र च जघन्यस्थितिबन्धः । अयम्भावः-उत्कृष्टस्थितिबन्धे यथोत्कृष्टाऽवाधा भवति, तथा समयोनोत्कृष्टस्थितिबन्धेऽप्युत्कृष्टावाधैव भवति, एवं द्विसमयोनोत्कृष्टस्थितिबन्धेऽप्यबाधा उत्कृष्टैव भवति, त्रिसमयोनोत्कृष्टस्थितिबन्धेऽपि तावत्येवोत्कृष्टावाधा भवति, न तु समयमात्रेणापि न्यूना, एवं यावत्समयोनपल्योपमासंख्येयभागेन न्यूनोत्कृष्टस्थितिबन्धस्तावबाधा तूत्कृष्टैव । इतस्तु समयद्विसमयादिना हीने स्थितिबन्धेऽबाधा न उत्कृष्टा, किन्तु समयोनोत्कृष्टा भवति, एवं तावद्रष्टव्यं यावत्समयोनद्वितीयपल्योपमासंख्येयभागन्यूनोत्कृष्टस्थितिवन्धः, तावदबाधा तावत्येव समयोनोत्कृष्टा भवति । उक्तं च कर्मप्रकृतिचूर्णी
“आउगाणि मोत्तणं सेसाणं सव्वकम्माणं उक्कस्सिगाए अबाहाए बट्टमाणो उक्कस्सट्ठिति वा समयूणं वा बिसमयूणं वा जाव पलिअोवमस्स असंखेज्जभागूणं वा ठिइं बन्धइ । जइ अबाहा एगेण समएण ऊणा तो णियमादेव पलिओवमस्स असंखेज्जत्तिभागमेत्तेणं कंडगेण उणियं उक्कोसियं ठिति बन्धइ।" इत्यादि।
___ अकसमयावाधाहानौ पल्योपमासंख्येयभागप्रमाणस्थितीनां हानिर्भवति, तेन पल्योपमासंख्येयभागप्रमाणस्थितीनां समूह एकसमयाबाधोपलक्षितः सन्नेकमबाधाकण्डकमुच्यते, एवम्भूतान्यबाधाकण्डकान्युत्कृष्टस्थितावबाधास्थानतुल्यानि भवन्ति, अत्र “जहएणा जा" इत्यत्र या जघन्यस्थितिरुक्ता सा श्रेणिसमारूढजीववजशेषजीवापेक्षया बोद्धव्या । इदं हि सामान्यतोऽभिहितमपि पर्याप्ताऽपर्याप्तसूक्ष्म-बादरैकेन्द्रियादिचतुर्दशजीवभेदेषु प्रत्येक विशेषत इत्थमेव बोद्धव्यम् , सर्वत्र तुल्यवक्तव्यत्वात् । उक्तं च कर्मप्रकृतिचूर्णी-“एवं एगिदियाण सव्वेसि समाणं ।” इति ।
___ नन कथमत्रायुषोऽवाधा कण्डकानि नोच्यन्ते ? भण्यते-आयुषोऽबाधा नाऽऽयुषः स्थितिबन्धप्रमाणस्याधीना, एवमायुरपि नाऽबाधाप्रमाणाधीनम् , ततश्च तत्रावाधाकण्डकान्यपि न भवन्ति । इदमुक्तं भवति-ज्ञानावरणादीनामिवाऽऽयुषीऽवाधाविषये न कश्चित्तथाविधो नियमः, यद् "इयदायुष्येतावत्याऽवाधया भवितव्यम्" इति, न चावाधया सममनियते आयुःकर्मण्यवाधाकण्डकसम्भवः, यतः कदाचिदुत्कृष्टायामेवाबाधायां जघन्यतोऽन्तमु हूतमुत्कृष्टतश्च समयादिवृद्धया यावत् त्रयस्त्रिंशत्सागरोपमाण्यायुध्यते, कदाचित्तु तदेव जघन्यमुत्कृष्टं तदन्तस्थं वाऽऽयः समयोनो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org