SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ द्विगुणहानिस्थानाद्यल्पहु० ] प्रथमाधिकारेऽबाधाकण्डकद्वारम् [ ३७ कर्मप्रकृतिचूर्णी मोहनीयस्य सप्तवर्षसहस्राण्यवाधा वर्जनीयतयाऽभिहिता, अन्यथा-भवदुक्तविवक्षया सा वर्षसहस्रद्वयमेव वक्तव्या स्यात्, तदुत्तरसमयप्रभृतेरेव नोकषायतया परिणतस्य मोहनीयदलनिषेकस्य प्राप्तः । इत्थं मोहनीयस्य मिथ्यात्वमोहनीयलक्षणोत्तरप्रकृतेः शेषकषायाद्युत्तरप्रकृत्यपेक्षयाऽधिकस्थितित्वेन तदीयदलनिषेकप्राधान्यात् मोहनीयकर्मण्यप्यनन्तरोपनिधया परम्परोपनिधया च कृता मूलोक्तप्ररूपणा सूपपन्नैव, सप्तवर्षसहस्राण्यवाधां विहाय प्रथमसमये बहुदलिकस्य ततश्च समयसमयोत्तरासु सप्ततिसागरोपमकोटीकोटीपर्यन्तासु सर्वस्थितिषु मिथ्यात्वमोहनीयदलिकानामसंख्येयगुणहीनक्रमेणैव प्राप्तेरित्यलं विस्तरेण ॥१३॥ तदेवमुत्कृष्टस्थिति यावत्पल्योपमासंख्येयभागं गत्वा गत्वा निषेकस्य द्विगुणहानिस्थानानि प्राप्यन्ते इत्युक्ते किं खल्वेतानि द्विगुणहान्योरेकान्तरालवर्तीनि पल्योपमासंख्येयभागप्रमाणानि निषेकस्थानान्युत्कृष्टस्थितौ निष्पद्यमानेभ्यो निषेकस्य द्विगुणहानिस्थानेभ्यस्तोकान्युताधिकानीत्याशङ्कायां सपरिमाणमल्पबहुत्वमाह णाणंतरठाणाइं असंखिययमोऽत्थि पल्लमलंसो। तत्तो असंखियगुणं इगंतरमसंखमूलं हि ॥१४॥ (प्रे०) “णाणंतरठाणाइमि"त्यादि, नानाप्रकाराणि यान्यन्तराणि अन्तरालजातानि स्थानानि नानाऽन्तरस्थानानि, निषेकस्य द्विगुणहानिस्थानानीत्यर्थः । तानि "असंखिययमोऽत्थि पल्लमलंसो" त्ति प्रागवत् पल्यस्य-पल्योपमस्य मूलस्य-प्रथमवर्गमूलस्यांशः पल्यमूलांशोऽसंख्येयतमोऽस्ति, पल्योपमप्रथमवर्गमूलाऽसंख्यभागगतसमयतुल्यानि भवन्तीत्यर्थः। उक्तं च कर्मप्रकृतिवृत्तौ"नानाप्रकाराणि यान्यन्तराणि-अन्तरा जातानि द्विगुणहानिस्थानानि तान्युत्कृष्ठस्थितिबन्धे पल्योपमस्य सम्बन्धिनः प्रथमवर्गमूलस्यासंख्येयतमे भागे यावन्तः समयास्तावत्प्रमाणानि भवन्ति।" इति । "तत्तो" त्ति तेभ्यो द्विगुणहानिस्थानेभ्यः "असंखियगुणं इगंतर" ति द्विगुणहान्योरेकमन्तरम् ,-द्विगुणहान्योरेकस्मिन्नन्तरे यानि निषेकस्थानानि तान्यसंख्येयगुणानि भवन्तीत्यर्थः । उक्तं च-"एकस्मिन् द्विगुणहान्योरन्तरे निषेकस्थानान्यसंख्येयगुणानि ।” इति । ___ ननु कस्मादेतद् द्विगुणहान्योरेकमन्तरमसंख्येयगुणमित्याह- "असंखमूलं हि"त्ति हियस्मात् कारणात् तद् द्विगुणहान्योरेकमन्तरम् असंख्येयमूलं-पल्योपमस्यासंख्येयवर्गमूलप्रमाणम् , असंख्येयपल्योपमानां प्रथमवर्गमूलप्रमाणमिति भावः । इति ॥१४॥ तदेवं कृतं परम्परोपनिधयाऽपि निषेकप्ररूपणम् , तथा च कृते गतम् “णिसेगो" इत्यनेनोदिष्टं द्वितीयं द्वारम् । साम्प्रतं क्रमप्राप्ताबाधाकण्डकद्वारेऽवाधाकण्डकप्ररूपणां कुर्वन्नाह-- पल्लासंखियभागं गंतूण खणे खणे अवाहखए । सत्तण्ह परात्र हवइ अवाहकंडं जहण्णा जा ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy