________________
अनन्तरोपनिधा ] - प्रथमाधिकारे निषेकद्वारम् अपि देशघातिमोहनीयप्रकृतेर्बन्धस्याऽवर्धनादविच्छेदाच्चेत्यर्थः । न च यथोक्तावाधानियमान्मिथ्यात्वस्य सप्तवर्षसहस्रप्रमाणोत्कृष्टाबाधोत्तरसमये मिथ्यात्वदलिकस्य वर्धनात्तस्मिन् समये तत्पूर्वसमयापेक्षया विशेषाधिको दलनिषेकः स्यादिति वाच्यम् । यतस्तत्र मिथ्यात्वमोहनीयदलनिषेकसम्बन्धिप्रथमस्थितो मिथ्यात्वदलिकस्य वर्धनेऽपि तन्मिथ्यात्वदलिकं पूर्वसमयनिषिक्तदलिकापेक्षयाऽनन्ततमभागमात्रमस्ति, सर्वघातिप्रकृतेः सर्वदलिकस्य देशघात्यादिदलिकापेक्षयाऽनन्ततमभागमात्रत्वात्, इत्थं च पूर्वसमयापेक्षया मिथ्यात्वमोहनीयप्रथमनिषेके दलवृद्धिरनन्तभागमात्रा, हानिः पुनरसंख्येयभागमात्रा, पूर्वसमयनिषिक्तदेशघातिदलिकापेक्षयाऽत्रनिक्षिप्तदेशघातिदलिकस्याऽसंख्येयभागहीनत्वात एवं हि पूर्वसमयनिपिक्तदलापेक्षयाऽनन्तरोत्तरे मिथ्यात्वमोहनीयप्रथमनिषेकसमये मोहनीयदलनिषेको संख्येयभागहीन एव, न पुनर्विशेषाधिकः। इत्थं कषायमोहनीयद्वितीयस्थितिनिषेकप्रभृतेनॊकपायमोहनीयचरमनिषेकयावन्नियाघातेन यथोत्तरसमयेष्वसंख्येयभागहीनक्रमेणैव दलनिषेकः प्राप्यते । नोकषायमोहनीयचरमनिषेके गते तदुत्तरसमये यनिषेकस्तत्र तु यद् देशवातिदलिकं तत्कषायमोहनीयसत्कमेव, तच्च पूर्वसमयनिषिक्तकषाय-नोकषायमोहनीयसत्कद्विविधदेशघातिदलिकराश्यपेक्षया संख्येयभागहीनं विद्यते, न पुनरसंख्येयभागहीनम् । कुतः ? नोकषायमोहनीयसर्वदलिकापेक्षया संज्वलनचतुष्कसर्वदलिकस्यापि विशेषाधिकतया नोकषायमोहनीय-कपायमोहनीयसमुदितदलिकापेक्षया कषायमोहनीयसर्वदलिकस्य किञ्चिदधिकार्धतया संख्येयभागहीनत्वात् । तदुत्तरसमयात् कषायमोहनीयस्य चत्वारिंशत्सागरोपमप्रमाणोत्कृष्टस्थितिं यावत्तु पुनरपि यथोत्तरसमये प्राग्वदसंख्येयभागहीनक्रमेणैव दलनिषेकः प्राप्यते । कषायमोहनीयचरमनिषेके गते तु तदुत्तरसमयात्केवलस्य मिथ्यात्वमोहनीयसत्कदलिकस्य निषेकोऽवशिष्यते, मिथ्यात्वस्य तु सर्वघातिप्रकृतितया तदीय भागाऽवाप्तदलिकं संज्वलनकषायप्रधानकपायमोहनीयदालिकराश्यपेक्षयाऽनन्ततमभागमात्रम् , अतः कषायमोहनीयचरमस्थितौ निषिक्तमोहनीयदलिकापेक्षयाऽनन्तरोत्तरसमये निषिक्तं दलिकमनन्तगुणहीनं प्राप्यते, न त्वसंखेयभागहीनम् , इत्थं च मोहनीयकर्मणः सर्वासामुत्तरप्रकृतीनामुत्कृष्टस्थितौ बध्यमानायामपि तासामुत्कृष्टस्थितेरेवाऽतुल्यत्वादबाधां विहाय कुत्रचित्स्थितिविशेषे संख्ययगुणाधिकदलनिषेकः. यथा-बन्धसमयाच्चत्वारिवर्षसहस्राण्यतिक्रम्य कषायमोहनीयप्रथमस्थितौ। कुत्रचित्तु संख्यातभागहीनदलनिषेकः, यथा-नोकषायमोहनीयचरमनिषकादनन्तरोत्तरसमये । कुत्रचित्पुनरनन्तगुणहीनदलनिषेकः, यथा-कषायमोहनीयचरमस्थितिनिपेकादनन्तरोत्तरसमये । अत्र स्थापना- (३६ तमे पृष्ठे)
___ एवं हि मौलस्य मोहनीयकर्मणो दलनिषेकेऽनन्तरोपनिधायां समयसमयोत्तरासु सर्वासु स्थितिस्वसंख्येयभागहीनक्रमेण दलिकस्यानुपपत्तिरेव, ततश्च परम्परोपनिधायामपि नियतपल्योपमाऽसंख्येयभागातिक्रमणेन दलिकानां द्विगुणहानयो ऽप्यनुपपन्ना एव ? इति चेत्, समाधीयते, यद्भवताऽभिहितं तदेतत्सर्वमेवाधिकृतविवक्षाया अपरिज्ञानात् , यतो नात्र बध्यमानसर्वोत्तरप्रकृतिसत्कदलिकसमुदायमादायानन्तरोपनिधया परम्परोपनिधया वा प्ररूपणा कृता, किन्तु यस्या ज्ञानावरणादिसत्कोत्तरप्रकृते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org