________________
३४ ] बंधविहाणे मूलपयडिठिइबंधो
[ निषेकप्ररूपणम वर्षसहस्रत्रयम् , अतो वर्षसहस्रत्रयं मुक्त्वा यत्प्रथमसमयः, प्रथमो ज्ञानावरणसत्कदलनिषेक इत्यर्थः । तत्र निषिक्तं दलं बहुकम् , तदनन्तरवर्तिनि द्वितीयसमये निषिक्तं दलं तु ततोऽसंख्येयभागेन हीनम् , तृतीयसमये ततोऽप्यसंख्येयभागहीनम् , एवं तावल्लभ्यते यावज्ज्ञानावरणस्य द्विचरमसमयः, मतिज्ञानावरणस्य तदानीं बध्यमानस्थितेश्वरमसमय इत्यर्थः । न पुनरेवं ज्ञानावरणस्य चरमसमयेऽपि तत्र देशघातिकानां मतिज्ञानावरणादीनां दलिकनिक्षेपाभावात् , निक्षिप्तस्य सर्वघातिनः केवलज्ञानावरणस्य दलिकानां तु पूर्वसमये निषिक्तदेशघातिदलापेक्षयाऽनन्ततमैकमागमात्रत्वेनाऽनन्तगुणहीनत्वात् । इत्थं हि स्थितेऽवाधां विहायोत्कृष्टस्थितेश्वरमदलनिषेकं यावद्यथोत्तरसमयेऽसंख्येयभागहीनमसंख्येयभागहीनं दलिकम् , तथा पल्योपमसंख्येयभागप्रमाणस्थितीरुल्लङ्घयोल्लङ्घय निषेकस्य द्विगुणहानिस्थानानि चेत्येवमुभयविधप्ररूपणा कथमुपपद्येत । न च यदा सर्वासामपि ज्ञानावरणोत्तरप्रकृतीनामुत्कृष्टस्थितिबन्धस्तदानीं यो दलिकनिपेकस्तस्य चरमसमयं यावत्पञ्चानामपि ज्ञानावरणोत्तरप्रकृतीनां निषेकस्य प्राप्त्या चरमसमयं यावदुक्ताऽसंख्यभागहीनक्रमेण दलिकनिषेकस्य लभ्यमानत्वात् तदपेक्षया मूलोक्तानन्तरोपनिधा-परम्परोपनिधालक्षणा द्विविधप्ररूपणोपपद्यत इति वाच्यम् । एवंरीत्या ज्ञानावरणस्य दर्शनावरणादीनां वा तदुपपत्तेरपि मोहनीयाख्यमूलप्रकृतिमाश्रित्य तदनुपपत्तेदुर्वारत्वात्, कथम् ? इति चेत्, मोहनीयोत्तरप्रकृतीनामुत्कृष्टस्थितेरतुल्यत्वात् । तथाहि-यदा हि मोहनीयस्य सप्ततिसागरोपमकोटिकोटीलक्षणा उत्कृष्टा स्थितिर्निवत्यते तदा न सा सर्वासांबध्यमानानां मोहनीयोत्तरप्रकृतीनां तावत्येव, किन्तु वध्यमानानामनन्तानुबन्ध्यादिषोडषकषायाणां चत्वारिंशत्सागरोपमकोटीकोट्यः, शेषाणां तु शोका-ऽरति-भय-जुगुप्सा-नपुंसकवेदलक्षणानां पञ्चानां नोकषायप्रकृतीनां विंशतिसागरोपमकोटीकोट्यः, अत्र हि मोहनीयस्योत्कृष्टस्थितिबन्धकाले बध्यमानासु मिथ्यात्वमोहनीयादिषु द्वाविंशतिप्रकृतिषु मिथ्यात्वमोहनीयं संज्वलनवर्जा द्वादशकषायाश्चेत्येवं त्रयोदशप्रकृतयः सर्वघातिन्यः, किञ्च यथोक्त प्रदेशविभाजननियमाद् बध्यमानमोहनीयदलिकेषु मिथ्यात्वादित्रयोदशप्रकृतितयाऽनन्ततमभागमानं दलिकं परिणमति, शेषसंज्वलनचतुष्क-शोकाऽरत्यादिनोकषायपञ्चकतया त्वनन्तबहुभागं दलिकं परिणमति; इत्थं च स्थिते “सागरकोडाकोडी बन्धो सत्तबह जत्तिाऽवाहा। तावइया च्च सयसमा तदृरिणो कम्मणणिसेगो।" इत्यबाधानियमाद् बध्यमानानां पञ्चानां नोकपायाणां वर्षसहस्रद्वयमबाधां त्यक्त्वा प्रथमसमये प्रभृतदलनिषेकः, ततस्तु समयोत्तरासु द्वितीयादिस्थितिघसंख्येयभागहीनक्रमेण दलिकनिषेको भवति, स च तावद्भवति यावत्संज्वलनचतुष्कस्योत्कृष्टाबाधा चत्वारि वर्षसहस्राणि, तदनन्तरसमये तु पोडपकषाय सत्कप्रथमदलनिषेकस्याऽपि प्राप्तेः समुदितो मोहनीयदलनिषेकः पूर्वसमयापेक्षया संख्येयगुणः प्राप्यते, न पुनर्विशेषहीनः । तदुत्तरसमयात् विंशतिसागरोपमकोटीकाटीलक्षणनोकषायोत्कृष्टस्थितिं यावत्पुनरप्यसंख्येयभागहीनक्रमेणैव, तावत्पर्यन्तेषु सर्वेषु स्थितिस्थानेष्वनन्तरपूर्वसमयवत् चतुष्कषाय-पञ्चनोकषायात्मकानां नवानामपि देशघातिप्रकृतीनां दलनिषेकस्य प्राप्यमाणत्वात्, एतावस्थितिस्थानेष्वेकस्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org