________________
अनन्तरोपनिधा ] प्रथमाधिकारे निषेकद्वारम्
[ ३३ यस्थितिस्थानं तत्र निषिक्तं दलिकं तु प्रथमद्विगुणहानिस्थानापेक्षया पुनरप्यधं भवति, इदं हि द्वितीयं द्विगुणहानिस्थानम् , अत प्रारभ्य पुनरपि पल्योपमासंख्येयभागोऽतिक्रम्यते, तदाऽनन्तरवर्तिसमये तृतीयं द्विगुणहानिस्थानं भवति, अत्र निषिक्तं दलिकं पूर्ववर्तिद्विगुणहानिस्थाने निषिक्तदलिकापेक्षयाऽधमस्ति, एवं तावद्वाच्यं यावत्तत्तज्जीवभेदेषक्तस्तत्तत्कर्मणामुत्कृष्टस्थितिबन्धः; केवलं पर्याप्तसंश्यसंज्ञिजीवभेदद्वयं विवयं शेषेषु जीवभेदेष्वायुषः स्थितिवन्धे न वक्तव्यम् , तेषत्कृष्टतोऽपि पूर्वकोटीस्थितिकायुर्वन्धस्य भावात् । उक्तं च कर्मप्रकृतिचूर्णी
___“परंपरोवणिहिताण पंचिंदियाणं सरणीणं असण्णीणं पज्जत्तगाणं अट्ठण्हं कम्माणं पंचिंदियाणं सएणीणं असएणीणं अपज्जत्तगाणं चउरिंदियतेइंदियवेइंदियबायरेगिंदियाणं सुहुमएगिदियाणं पज्जत्तगापज्जत्तगाणं आउगवज्जाणं सत्तण्हं कम्माणं अबाहं मोत्तूणं पढमसमए पएसग्गाओ ततो पलिश्रोवमस्स असंखेज्जइभागं गंतूण दुगुणहीणं पदेसग्गं । ततो पुणो तत्तियं चेव गंतूण दुगुणहीणं पदेसग्गं । ततो पुणो तत्तियं चेव गंतूण दुगुणहीणं पदेसग्गं । एवं दुगुणहीणं दुगुणहीणं जाव अप्पप्पणोक्कस्सिगा ठिती । इति"
अत्र हि उत्कृष्टस्थितेश्वरमनिषेकं यावदनन्तरोपनिधायां विशेषहीन-विशेषहीनक्रमेण दलनिषेको दर्शितस्तत्र यथोत्तरस्थितिषु प्रतिनिषेकं दलिकहानिः स्वपूर्वसमयनिषिक्तदलापेक्षयाऽसंख्येयभागमात्राऽवगन्तव्या, न पुनः संख्येयभागमात्रा, संख्येयेषु स्थितिस्थानेष्वतिक्रान्तेषु निषेकस्य द्विगुणहानिस्थानापत्तेः । न च सेप्यते, पल्योपमासंख्येयभागप्रमाणेष्वसंख्येयेषु स्थितिस्थानेष्वतिक्रान्तेष्वेव द्विगुणहीनदलनिषेकस्याभिमतत्वात्, अत एवाऽनन्तरोत्तरस्थितिस्थाने जायमानाऽनन्तरोपनिधाविषयीभूता दलिकहानिर्नाऽनन्तभागमात्रेत्यपि विज्ञेयम् ।
___ ननु प्रतिसमयं ज्ञानावरणादितत्तत्प्रकृतितया वध्यमानदलिकेभ्योऽनन्ततमैकभागः सर्वघातिप्रकृतितया परिणमति, शेषानन्तबहुभागद लिकं च सर्वघातिवर्जवध्यमानप्रकृतितया परिणमति, उक्तं च प्रदेशबन्धं विवृण्वद्भिश्चिरन्तनाचार्यैः कर्मप्रकृतिचूणी
'जं सव्वघातिपत्तं' ति जं सव्वघातिजोग्गं 'सगकम्मपएसाणंतिमो भागो' ति अप्पप्पणो कम्मपएसाणंतिमो भागो सव्वघाती भवति । कहं ? भएणइ-सव्यकम्मपएसाणं जे णिद्धयरा पोग्गला ते थोवा सव्वकम्मदव्याणं अणंतिमो भागो, ते च सव्वघातिजोग्गा। अणंतिमे भागे फिट्ट सेसस्स कम्मदलियस्स सेसकम्मेहि भागो। 'आवरणाण चउद्धा तिहा य' त्ति णाणावरणदसणावरणाणं जहकम्मेण चत्तारि तिन्नि य भागा। णाणावरणस्स जं दलितं ततो केवलणाणावरणीयस्स अणंतिमो भागो फेड्डिजति, सेसं चत्तारिभागा कीरति, आभिणिबोहियणाणावरणादीणं चउपहइत्यादि ।
किञ्च ज्ञानावरणस्योत्कृष्टायां स्थितौ बध्यमानायां सर्वासां ज्ञानावरणोत्तरप्रकृतीनामुत्कृष्टा स्थितिरेव बध्यत इति न नियमः, किन्तु कासाञ्चित्समय-द्विसमयप्रभृतेर्यावत्पल्योपमासंख्येयभान न्यनोत्कृष्टस्थितिरपि बध्यते । इत्थं च यदा मूलप्रकृतेज्ञानावरणस्योत्कृष्टस्थितिबन्धस्तदा यदि केवलज्ञानावरणस्यैव त्रिंशत्सागरोपमकोटिकोटीलक्षणोत्कृष्टस्थितिबन्धः, शेषाणां मतिज्ञानावरणादि प्रकृतीनां तु समयोनोत्कृष्टस्थितिबन्धस्तदा पञ्चानामपि ज्ञानावरणोत्तरप्रकृतीनामका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org