________________ दासस्य आशाम्बरा दिगम्बरास्तेषां नये शास्त्रे प्रतिपत्तिः निश्चयोऽभूत् , तदेव प्रमाणमिति स्वीचकार / अपि शब्दादध्यात्मशास्त्रादिदिगम्बरतन्त्रेऽपि व्रतसमित्यादिप्रतिपादकग्रन्थे न प्रामाण्यमिति तन्मते निश्चय इत्यर्थः / यद्वा अध्यात्मशास्त्रश्रवणादाशाम्बरनये विप्रतिपत्तिः अनिश्चयो, व्यवहारविरोधाद्, दिगम्बरा हि प्राचीनाः स्वगुरून् मुनीन् श्रद्दधते, अस्य तु तदश्रद्धानात् , एवमन्योऽपि तन्मते विशेषः, तमेवाह-गुरूणां पिच्छिका कमण्डलु चैतवयं परिग्रहत्वान्नोचितं, दिगम्बराणां बहुषु ग्रन्थेषूक्तमपि न प्रमाणमिति तस्य बाणारसीदासस्य शंकाऽभवत्, तेन श्वेताशाम्बरनयद्वयापेक्षयाऽपि बाणारसीयमते न सम्यक्त्वमिति सिद्ध 1... वयसमिइबंभचेरप्पमुहं ववहारमेव ठावेइ / तेण पुराणं किंचिवि पमाणमपमाणमवि तस्स // 10 // टीका-सर्वेषां शास्त्राणां निश्चयनयोन्मुखत्वेऽपि निश्चयसाधनाय व्यवहार एव प्रागुक्तयुक्त्या समर्थः, ततस्तमेव मुख्यवृत्या व्यवस्थापयति / तेन हेतुना पुराणशास्त्रं किंचिदेव प्रमाण आदिपुराणादिकं, न सर्व पुराणमात्रं, किन्तु अप्रमाणमेव, किंचित्प्रमाणोक्तेरेवाप्रामाण्यं शेषस्यागतं चेत् किं पुनरुक्तेनेति न धार्य, आदिपुराणादिके प्रमाणेऽपि यत्स्वमतव्याघातकं तदप्रमाणमिति यथाछन्दत्वज्ञापनात् / यद्वा पुराणं प्राचीनं दिगम्बराचरणं प्रमाणमप्रमाणमिति व्याख्येयम्, उभयवचनात् , न मम दिक्पटमतेन कार्य, किन्तु अहं तत्वार्थी, तथा च यज्जिनवचनानुसारि तदेव प्रमाणं नान्यदिति ख्यापितं / यद्वा पुराणं जीर्ण तत्त्वार्थादिसूत्रमित्यपि ज्ञेयं, अत्र यद्यपि पुराणादि दिगम्बरमतोत्थापने त एव प्रतिविधातारस्तथापि कवलाहारादिव्यवस्थापने साक्षिकस्थानीयत्वात्पुराणप्रामाण्यं साध्यते।... अह नियमयबुड्किए पयासियं तेण समयसारस्स। चित्तकवित्तणिवेसं नाडयरूवं मइविसेसा // 11 // बाणारसीविलासं तओ परं विविहगाहदोहाइ / अवुहाण बोहणत्थं करेइ संधवणभासं च // 12 // सम्मत्तम्मि हु लद्धे बंधो गस्थित्ति अविरओ भुजा / वयमग्गस्स अफासी न कुणइ दाणं तवं बंभं // 13 // Jain Education International For Private & Personal Use Only www.jainelibrary.org