________________ १५-युक्तिप्रबोधके उद्धरण टीका-...श्रीशान्तिसूरिवादिदेवसूरिप्रभृतयस्तद्वितर्कविघटनकरणानि...भूरिप्रकरणानि विदधिरे इति न तत्र पुनः प्रयास: साधीयान, तथाप्यधुना द्वेधापि उग्रसेनपुरे वाणारसीदासश्राद्धमतानुसारेण प्रवर्तमानैराध्यात्मिका व्यमिति वदद्भिर्वाणारसीयापरनामभिर्मतान्तरीयैर्विकल्पकल्पनाजालेन विधीयमानं कतिपयभव्यजनमोहनं वीक्ष्य तथा भविष्यत्श्रमणसंघसन्तानिनां एतेऽपि पुरातना जिनागमानुगता एव, सम्यक् चैषां मतं, न चेत्कथं ‘छन्याससएहिं . नवोत्तरेहिं सिद्धिं गयस्स वीरस्स / तो वोडियाण दिट्ठी रहवीरपुरे समुप्पण्णा / ' इत्युत्तराध्ययननिर्युक्ती श्रीआवश्यकनियुक्तौ च इत्यादिवत् कुत्रापि श्रीश्रमणसंघधुरीणैरेतन्मतोत्पत्तिक्षेत्रकालप्ररूपणाभेदादि च नाभिहितम् इत्येवं लक्षणां भ्रान्ति समुद्भाविनीं विज्ञाय तनिरासार्थमेतन्मतोत्पत्त्याद्यभिधेयमेव, न च दिगम्बरमतानुसारित्वादस्य तन्मताक्षेपममाधानाभ्यामस्याप्याक्षेपसमाधाने इति किमेतदुत्पत्त्याद्यभिधानेनेति वाच्यं, कथंचिदभेदेऽपि उत्पत्तिकालप्ररूपणादिकृतभेदात् , ततश्चैतन्मतोत्पत्त्याद्यभिधित्सुग्रन्थकर्ता...गाथामाह पणमिय वीरजिणिदं दुम्मयमयमयविमद्दणमंयदं / वुच्छं सुयणहियत्थं वाणारसियस्स मयभेयं // 1 // टीका-.. ततश्च एतेषां बाणारसीयानां तु श्वेताम्बरमतापेक्षया सर्वसिद्धान्तप्रतिपादितस्त्रीमोक्षकेवलिकवलाहारदिकमश्रद्दधतां दिगम्बरनयापेक्षयाऽपि पुराणाद्युक्तपिच्छिकाकमण्डलुप्रमुखाणामनङ्गीकरणेन कथं सम्यक्त्वं श्रद्धेयं ? यज्ञब्रह्मचारिपिच्छिकाकमण्डलुप्रभृतिपरिभाषकत्वेन आर्षवाक्यं विना पौरुषेयवाक्यस्यैव केवलं प्रमाणकारकत्वेन सर्वविसंवादिनिह्नवरूपत्वेन च दिगम्बरनयस्यापि अस्मत्प्राचीनाचार्यैः प्रथमगुणस्थानित्वं निरणायि, तर्हि तदनुगतश्रद्धावतां वाणारसीयानां तत्त्वे किं वक्तव्यमिति / * * * सिरि आगराइनयरे सद्रो खरयरगणस्स संजाओ। सिरिमालकुले बणिओ बाणारसिदासणामेणं // 2 // सो पुत्वं धम्मरुई कुणइ य पोसहतवोवहाणाई / आवस्सयाइपढणं जाणइ मुणिसावयायारं // 3 // Jain Education International For Private & Personal Use Only www.jainelibrary.org