________________
अग्रेऽपि शिष्याः ६३ त्रिषष्टयः५६ पठन्ति । तेषां भोजनादिकं स्वयं यच्छति । सोऽपि चरणौ लगित्वा तत्र स्थितः । तत्रैव भुते ।
रात्रौ उमादेवी सोमशर्मणि सुप्ते शिष्येषु सुप्तेषु स्वयमुत्थाय दण्डेन आचाम्लिका चटित्वा आहता । उत्पटिता। सा दृष्टा"" कपटनिद्रया सुप्तेन ।
द्वितीयदिने राजा आचाम्लिकायां चटित्वा स्थितः । रात्रौ पुनरपि तया उत्पाटिता । साथै गतः । परद्वीपे प्रासादे गत्वा उत्तरिता । ६४ योगिन्यो नमस्कृताः । तावता क्षेत्रपाल आयातः । सोऽपि तया नतः ।
तदा क्षेत्रपालेनोक्तम् । “ त्वं कथं बलिं न यच्छसि ?" ।
तयोक्तम् । “६४ चतुःषष्टिशिष्याः सङ्ख्येयाः । ६५ पञ्चषष्टिमयोऽयं पण्डितः तव योग्यः । योगिनीनाम् -- ६४ योगिनीनां ६४ शिष्या बलियोग्या जाताः। कृष्णचतुर्दशीदिने गोमयमण्डलोपरि पट्टलकान् मुक्त्वा दण्डं पूजयित्वा बलिं कृत्वा दोरकं करे बद्धा यावता सङ्कल्पं कृत्वा नमस्कारं करिष्यति सूदा अस्मदीया ।
प्रच्छन्नेन राज्ञा सर्व श्रुतम् । पुनरपि आरूढः । आचाम्लिका तत्रैवाऽऽगता। प्रभाते पण्डितस्याऽग्रे निवेदितम् । “ ४दिने पञ्चषष्टिजनानां मरणमस्ति ।"
तया तस्मिन् चतुर्दशीदिवसे सर्व कृतम् । दोरको बद्धः । यावता सङ्कल्पं करोति तावता राजा दोरकं त्रोटयित्वा दण्डं गृहीत्वा आचाम्लिकामारूढः ६४ शिष्यपण्डितैः२५२ समम् । दण्डेनाऽऽहता उत्पाटिता । परद्वीपे शून्यपुरे उत्तारिता । आचाम्लिकामुत्तीर्य पुरमध्ये राज्ञो आवासे गतः । राजकन्या एका दृष्टा । सन्मुखमागता ।
राज्ञा पृष्टम् । “ कथं शून्य" पुरम् , त्वम् एकाकिनी कथम् ? "
तया कथितम् । “ राक्षसो रुष्टस्तेन नगरं विनाशितं सराजकम् । तेनाऽहं परिणयनाय स्थापिताऽस्मि । अधुना समेष्यति" । त्वं याहि । अकाले मा मर ।"
राज्ञा कथितम् । “ भयं मा कुरु ।” प्रच्छन्नीभूय स्थितः । यदा विवाहसामग्री५० लात्वा राक्षसः समेतः तदा खड्ङ्गेनाऽऽहत्य मारितः ।
२४६. त्रिषष्टय.२४७. तां दृष्ट्वा. २४८. संख्याः . २४९. प्रच्छनेन. २५०. गताः. २५१. राज्ञा. २५२. शिष्या. २५३. सून्यपुरे. २५४. सून्यं. २५५. परिणनाय. २५६. समेस्यति. २५७. सामग्री.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org