SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ४६ [२,६२ चन्द्रप्रभचरितम् जीवे सिद्धेऽपि गर्भादिमरणान्ते स्वेदनात् । प्रागूज़ च कथं सिद्धस्तस्येति यदि मन्यसे ॥ ६२ ॥ सदकारणवत्त्वेन सिद्धा तत्राप्यनादिता। अनन्तता च वाय्वग्निपृथिवीपयसामिव ॥ ६३ ॥ न च सिद्धमहेतुत्वं हेतोः कस्याप्ययोगतः । भूतानां न च हेतुत्वं सहप्रत्येकपक्षयोः ।। ६४ ।। प्रमाणेन बाधा पीडा । कथं केन प्रकारेण । न भवेत्, अपितु भवेदेव । भू सत्तायां लिङ् ॥६१॥ जीव इत्यादि । स्ववेदनात् स्वसंवेदनप्रत्यक्षात । गर्भादिमरणान्ते गर्भ एवादिर्मरणमेवान्तो मरणान्तः; गर्भादिर्मर. णान्तो यस्य तस्मिन् । जोवे जीवपदार्थे । सिद्धेऽपि निष्पन्नेऽपि । तस्य जीवपदार्थस्य । प्राक् गर्भात् प्राक् । ऊध्वं च मरणावं च । चकारः समुच्चयार्थः । कथं केन प्रकारेण । सिद्धिः अस्तित्वम् । इति यदि मन्यसे जानासि । मनि ज्ञाने लट् ॥६२।। सदित्यादि । तत्रापि जीवपदार्थेऽपि । सदकारणवत्त्वेन सतो नित्यस्याकारणवत्त्वं तेन, 'सदकारणवन्नित्यम्' इत्यभिधानात् । वाय्वग्निपृथिवीपयसामिव वायुश्चाग्निश्च पृथिवी च पयश्च तयोक्तानि । अनादिता न विद्यते आदिर्यस्य [ सः ] अनादिः तस्य भावः तथोक्ता आदिरहितत्वम् । अनन्तता न विद्यतेऽन्तोऽवसानो [नं] थस्य [सः] अनन्तः तस्य भावोऽनन्तन्ता अवसानराहित्यम् । सिद्धा निष्पन्ना ॥६३॥ न चेत्यादि । अहेतुत्वम् असाधनत्वम् । असिद्धम् अप्रसिद्धम् [अनिष्पन्नम्] । न च न भवति । कस्यापि हेतोः साधनस्य । अयोगत: अयोगादयोगतोऽघटनात । सहप्रत्येकपक्षयोः सह सहितश्च प्रत्येकश्च सहप्रत्येकी तौ च ती पक्षी च तयोक्ती, तयोः योगपद्य-अ(पार्थक्यपक्षयोः, वाय्वग्निपृथिवीपयांसि जीवस्य युगत्कारणानि पृथिव्यायेकैकं प्रत्येकतया कारणम् इति सहप्रत्येकपक्षी तयोरित्यर्थः । भूतानां पृथिव्यादीनाम् । हेतुत्वं सिद्ध हो जानेपर तत्त्वोपप्लववादियों को प्रत्यक्ष बाधा क्यों नहीं होगी ? ॥६१॥ यदि तुम स्वसंवेदन प्रत्यक्षके आधारपर गर्भसे लेकर मरण पर्यात जीवकी सत्ताको मानकर भी यह पूछो कि 'गर्भसे पहले और मरणके बाद उसकी सत्ता कैसे मानी जा सकती है ?' तो सुनो, जो पदार्थ सत् हों और जिनकी उत्पत्ति किसीसे न हुई हो, वे सब निश्चित ही अनादि और अनन्त होते हैं। जैसे पृथिवी, जल, अग्नि और वायु ॥६२-६३॥ जोवकी उत्पत्तिका कोई हेतु नहीं है-वह किसीसे उत्पन्न नहीं हुआ, यह असिद्ध है, ऐसा भी नहीं कह सकते; क्योंकि उसको उत्पत्तिका कोई हेतु सिद्ध नहीं है । यदि यह कहा जाये कि पृथिवी, जल, अग्नि और वायु ये चार भूत उसकी उत्पत्ति में हेतु हैं, तो दो विकल्प उठते हैं-(१) चारों भूत मिलकर जीवकी उत्पत्तिमें हेतु हैं, (२) या एक-एक करके ? वे दोनों ही तरह जीवकी उत्पत्तिमें हेतु १. विरोधः । २. श स यस्मिन् । ३. श स वन्नित्याभिधानात् । ४. = वादिप्रतिवाद्यपेक्षया व्यवस्थाप्यमानो जोवः पक्षः, अनाद्यनन्तो भवति, सदकारणवत्त्वात् । येषां सदकारणवत्त्वं तेषामनाद्यनन्तत्वम् । यथा वाय्वग्निपृथिवीपयसाम् । सदकारणवांश्चासौ तस्मादनांद्यनन्तः । ५. अ आ इन चन हेतु = अकारणवत्त्वम् । ६. = सहपक्षो योगपद्यपक्षः, प्रत्येकपक्षः क्रमपक्षः । Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy