________________
४५
-२,६१]
द्वितीयः सर्गः अनवस्थालता च स्यान्नभस्तलविसर्पिगी। यदेवाविदितं तेषु तन्न पूर्वस्य वेदकम् ।। ५८ ॥ तस्माद्विषयविज्ञानमप्रत्यक्षमवरिथतम् । तदप्रत्यक्षतायां च विषयस्यापि सा गतिः ॥ ५६ ।। परोक्षादपि चेज्ज्ञानादर्थाधिगतिरिष्यते । परेण विदितोऽप्यर्थस्तथा स्वविदितो भवेत् ।। ६० ॥ तस्मात्स्ववेदने सिद्धे प्रत्यक्ष सति युक्तितः ।
प्रत्यक्षबाधा न भवेत्कथं नास्तित्ववादिनाम् ॥ ६१ ॥ कस्मात्, इत्युक्ते । अपरापरबोधस्य अपरापरस्य उत्तरोत्तरस्य बोधस्य ज्ञानस्य । वेदनीयस्य ज्ञातव्यस्य । संभवात् अस्तित्वात् ॥५७॥ अनवस्थेत्यादि । तेषु अपरापरबोधेषु । यदेव ज्ञातम् । अविदितम् अज्ञातम् । ज्ञानम्। पूर्वस्य प्रथमज्ञानस्य। वेदकं बोधकम् । 'कृतकामुकस्य'-इत्यादिना कर्मणि षष्ठी। न भवति। नभस्तलविसर्पिणी नभसः आकाशस्य तले प्रदेशे विसर्पिणो प्रसारिणी, अवसानरहितेत्यर्थः । अनवस्थालता अनवस्यैव अनवस्था दोष एव लता वृततिश्च तथोक्ता । स्यात् । अस भुवि लिङ्॥५८॥ तस्मादित्यादि। तस्मात् कारणात । विषयविज्ञानं विषयस्य पदार्थस्य विज्ञानं परिज्ञानम् । अप्रत्यक्ष परोक्षम् । अवस्थितं स्थितम् । तदप्रत्यक्षतायां तस्य विषयपरिज्ञानस्याप्रत्यक्षतायां च । विषयस्यापि पदार्थस्यापि । सा परोक्षता । गतिः शरणम् । स्यादित्यध्याहारः ॥५९॥ परोक्षादित्यादि । परोक्षादपि अप्रत्यक्षादपि। ज्ञानात् परिज्ञानात् । अर्थाधिगतिः अर्थस्य विषयस्य अधिगतिः निश्चयः। इष्यते चेत् अङ्गोक्रियते चेत् । परेण अन्यज्ञानेन सन्तानान्तरज्ञानेन वा । विदितोऽपि ज्ञातोऽपि । अर्थः घटादिपदार्थः । तथा परप्रत्यक्षप्रकारेण । स्वविदितः स्वेन विदितो ज्ञातः । भवेत् स्यात् । भू सत्तायां लिङ ॥६०॥ तस्मादित्यादि। तस्मात् स्वेन ज्ञात: ( ? ) अन्यस्य ज्ञानेन स्वस्य ज्ञानं न जायते तस्मात् । युक्तितः विचारात् । स्ववेदने स्वस्य वेदनं तस्मिन् स्वसंवेदने प्रत्यक्षे-प्रत्यक्षप्रमाणे। सिद्धे निष्पन्ने सति । 'यदभावो भावलक्षणम्' इति सप्तमो। नास्तित्ववादिनां नास्तित्वं वदन्तीत्येवंशोलाः तेषां शून्यवादिनाम् । प्रत्यक्षवाधा प्रत्यक्षेण प्रत्यक्ष
को जान लेता है' तो यह भी ठीक नहीं; क्योंकि उत्तरोत्तर जितने भी ज्ञान होंगे, वे सब अगले-अगले ज्ञानके वेद्य ही तो होंगे ॥५७॥ पूर्व-पूर्व ज्ञानको उत्तरोत्तर होनेवाले ज्ञान जानकर उन्हें पदार्थोंको जानने योग्य बनाते रहेंगे, ऐसा माननेपर तो अनवस्था दोषकी बेल पूरे आकाशमें फैल जायेगी-आकाशकी तरह उसका भी अन्त नहीं आयेगा। उत्तरोत्तर होनेवाले ज्ञानोंको यदि स्वतः अस्वसंवेदी ही मानते हैं तो वे पूर्व-पूर्व ज्ञानको नहीं ही जान सकेंगे ॥५८।। ऐसी अवस्था में पदार्थों को जाननेवाला ज्ञान अप्रत्यक्ष ही बना रहेगा। उसके अप्रत्यक्ष रहनेसे विषयकी भी वही गति होगी-वह भी अप्रत्यक्ष बना रहेगा ॥५९।। यदि परोक्ष ज्ञानसे भी पदार्थों का ज्ञान हो जाता है, यह स्वीकार करते हो तो एक मनुष्यने जिस पदार्थको जाना है, उसकी जानकारी दूसरेको भी हो जानी चाहिए ॥६०॥ इसलिए युक्तिबलसे स्वसंवेदन प्रत्यक्षके
१. = यदि ज्ञानमन्येन ज्ञानेन विदितं सद् वेदकं स्यात् तदा। २. आ प्रतावेव केवलं 'परोक्षम्' इत्युपलभ्यते । ३. आ निराकृतम्। ४. = तस्मात् कारणाद् युक्तित: प्रमाणोपपत्त्या स्ववेदने स्वसंवेदने नाम्नि प्रत्यक्षे प्रमाणे सिद्ध व्यवस्थापिते सति नास्तित्ववादिनां चकितत्त्वोपप्लवानां प्रत्यक्षेण बाधा प्रत्यक्षबाधा कथं न भवेत ? अध्यक्षेण जीवमपहनुवानानां तेषां प्रत्यक्षमेव जीवव्यवस्थापकं भवेत इति भावः। ५. तत्त्वोपप्लववादिनाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org