SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ -२, ५४] द्वितीयः सर्गः इत्युक्त्वा वाचमुच्चार्थी विरराम नरेश्वरः । भारतीमथ गम्भीरां जगाद परमेश्वरः॥ ५१ ॥ त्वयैयं ब्रुवता सूक्तं नृप सत्यमिदं कृतम् । उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः॥ ५२ ॥ जीवाजीवादि यत्पृष्टमस्पृष्टपरदूषणम्। यथा भवति तत्सर्व तथाहं कथयामि ते ॥ ५३ ॥ जीवो नास्तीति पक्षोऽयं प्रत्यक्षादिनिराकृतः ।। तत्र हेतुमुपन्यस्यन्कुर्यात्कः स्वविडम्बनाम् ॥ ५४ ॥ इतीत्यादि। नरेश्वर: नराणां मनुष्याणामीश्वरः पद्मनाभः । उच्चामि उच्चो गम्भीरभूतो अर्योऽभिधेयो यस्याः ताम् । वाचं वाणीम् । इति एवं प्रकारेण । उक्त्वा प्रोच्य । विरराम तुष्णीं स्थितः । रमि क्रोडा. याम् । लिट् । 'न पर्याङ्वे रमः' इति तङ्-निषेधः । अथ विरामानन्तरम् । परमेश्वरः परमश्चासौ ईश्वरश्च तथोक्तः श्रीधराचार्यवर्यः । गम्भीरां गम्भीर भूताम् । भारती वाणीम् । जगाद उवाच । गद व्यक्तायां वाचि । लिट् ॥५१॥ त्वयेत्यादि । नृप ! नून् जनान् पातीति नृपः, तस्य संबुद्धिः । एवम् उक्तप्रकारेण । ब्रुवता ब्रूज व्यक्तायो वाचि ब्रवीतीति ब्रवन् तेन ब्रुवता शतृप्रत्ययः वदता इत्यर्थः । त्वया भवता। इदं सूक्तं प्रश्नवचनम् । सत्यं तथ्यम् । कृतं विहितम् । ईश्वरबुद्धयः ईश्वराणां पुण्यवतां बुद्धयो मतयः । "ईश्वरो विभवैराढ्य शम्भो स्वामिनि मन्मथे ।" इति विश्वः । बुद्धीनां ज्ञानानाम् । उपर्युपरि पुरः पुरः । चरन्ति प्रवर्तन्ते । उपर्युपरि वैशद्यरूपेण वर्तन्ते इत्यर्थः । चर गतो लट् ॥५२॥ जीवेत्यादि । यत् जीवाजीवादितत्त्वम् । दृष्टं श्रुतम् ( ? )। अस्पृष्टपरदूषणं न स्पृष्टम् अस्पृष्टं परेषां मिथ्यावादिभिरुक्तं दूषणं तथोक्तम् अस्पृष्टं परदूषणं यस्मिन् कर्मणि तत् । यथा येन प्रकारेण भवति । तथा तेन प्रकारेण । अहं श्रीधरमुनिः । तत्सर्वं तत्समस्तम् । ते तव । कथयामि ब्रवीमि । कथ वाक्यप्रबन्धे । लट् ॥५३॥ जीव इत्यादि । जीवः जीवपदार्थः, नास्तीति, अयम एषः, पक्षः अङ्गीकारः। प्रत्यक्षादिनिराकृतः प्रत्यक्षानुमानादिप्रमाणनिराकृत: तिरस्कृतः । तत्र जीवो नास्तीति पक्षे हेतूं जीवो नास्त्यनुपलम्भादिति साधनम् । उपन्यस्य प्रयोज्य । स्वविडम्बना स्वस्य विडम्बनां तिरस्कारम् । कः पुरुषः। कुर्यात् विधीयात् । डुकृञ् करणे। लिङ् ॥५४॥ बताइए ।॥५०॥ इस प्रकार राजा पद्मनाभ उत्कृष्ट अर्थ-भरे शब्दोंमें अपनी बात कहकर चुप हो गये। इसके बाद मुनिराजने गम्भीर शब्दोंमें यों उत्तर दिया- ॥५१॥ राजन् ! इस प्रकारसे अपनी बात कहकर तुमने इस कहावतको सत्य सिद्ध कर दिया कि 'पुण्य वान् पुरुषोंकी बुद्धि अन्य बुद्धिमानोंकी बुद्धिके आगे चलती है' ॥५२॥ जिन जीव और अजीव आदि तत्त्वोंके विषयमें तुमने पूछा है, उनको मैं तुम्हें ऐसे ढंगसे बतलाये देता हूँ, जिससे अन्यवादियोंके दोष उनका स्पर्श तक न कर सकें ॥५३॥ 'जीव नहीं है' यह तत्त्वोपप्लववादियोंका पक्ष प्रत्यक्ष आदि प्रमाणोंसे खण्डित है। ऐसी अवस्थामें 'क्योंकि उसकी उपलब्धि १. अपरहर्षणम् । २. आ रम् । ३. संबुद्धौ। ४. आ ब्रूङ् । ५. = सुभाषितम् । ६. आ श स कृतं विहितम् । इदं सूक्तं प्रश्नवचनम् । सत्यं तथ्यम् । ७. प्रत्यग्रप्रतिभाः। ८. आ प्रती श्लोकस्यास्य व्याख्या नोपलभ्यते । ९. = पृष्टं जिज्ञासितम्। १०.= जीवो नास्तीति चार्वाकैरुपन्यस्यते। प्रसिद्धो धर्मी पक्षः. तत्र चार्वाकाप्रसिद्धस्य जीवस्य पक्षत्वकरणे स्वविडम्बनां कः कुर्यात् ? प्रसिद्धपक्षस्य हेतुविषयत्वं क्रियते । अथवा जीवो नास्ति, अनुपलब्ध:-इति भवतानुपलम्भविषयी क्रियमाणो जीवः पक्षः, प्रत्यक्षेणोपलम्भेन स्वसंवेदनलक्षणेनैव निराकृत इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy