SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ - २, ४२] द्वितीयः सर्गः नृपतेर्मुकुलीकुर्वन्स कराम्भोरुहद्वयम् । शीतगुत्वं व्यनक्ति स्म स्वकीयं मुनिपुंगवः ॥३८।। भुवः शोभाभवद्योगाद्या जिनेन्द्रसुरेन्द्रयोः । तयोः संगतयोरासीत्सा मुनीन्द्रनरेन्द्रयोः ॥३६॥ शान्ते जयजयेत्युच्चैर्भव्यकोलाहले ततः। दत्ताशीर्मुनिना तेन जगाद जगतीपतिः ॥४०॥ निरालोके जगत्यस्मिन्नदृष्टशिववर्मनि । सन्मार्गदर्शनानाथ त्वमालोक इवोद्गतः ॥४१।। खपुष्पं तदहं मन्ये भुवने सचराचरे । दिव्यज्ञानमये यन्न स्फुरितं तव चतुषि ॥४२।। मुनेः मुनीन्द्रस्य । पुरः अने। न्यविक्षत उपाविशत । विश प्रवेशने । लुङ् ॥३७॥ नृपतेरित्यादि । नृपतेः पद्मनाभमहीपतेः । कराम्भोरुहद्वयं मुकुलोकुर्वन् कुड्मलीकुर्वन् । सः मुनिपुंगवः मुनीनां पुंगवः श्रेष्ठः । स्वकोयं स्वसंबन्धम् शीतगुत्वं शोताः गावः किरणाः यस्य [सः] शीतगुः, तस्य भावः तत् । व्यनक्ति स्म व्यक्तीकरोति स्म । अञ्जु गतिव्यक्तिम्रक्षणेषु । लट् । लटः स्म योगे भूतार्थः ॥३८।। भुव इत्यादि । जिनेन्द्रसुरेन्द्रयोः तीर्थंकरदेवेन्द्रयोः । योगात् संबन्धात । भुवः भूमेः । या शोभा द्युतिः । अभवत् अभूत् । लङ् । संगतयोः संयुक्तयोः । तयोः मनीन्द्रनरेन्द्र यो: श्रीघरमनीन्द्रपद्मनाभयोः । योगात सा शोभा । आसीत् अभवत् । अस भवि लङ ॥३९॥ शान्त इत्यादि । ततः पश्चात । जय जयेति सर्वोत्कर्षण वर्तस्वति । उच्चैः नितान्तम् । भव्यकोलाहले भव्यानां रत्नत्रयाविर्भवनयोग्यानां कोलाहले कलकले। शान्ते स्तिमिते । तेन मुनिना मुनीन्द्रेण । दत्ताशीः वितीर्णाशीः। जगतीपतिः जगत्याः लोकस्य पतिः। जगाद उवाच । गद व्यक्तायां वाचि । लिट् ॥४०॥ निरालोक इत्यादि । नाथ स्वामिन । अदष्टशिववर्त्मनि शिवस्य मोक्षस्य वर्म मार्ग: शिव. वर्त्म, अदृष्टं शिवम येन (यस्मिन) तस्मिन् । निरालोके आलोकान्निर्गतो तं] निरालोकः क] तस्मिन, प्रकाशरहित इत्यर्थः। 'आलोको दर्शनोद्योतो' इत्यमरः । अस्मिन एतस्मिन । जगति लोके । सन्मार्गदर्शनात्'' सतो विशिष्टस्य मार्गस्य अभ्युपेतप्राप्त्युपायस्य दर्शनात् प्रकाशनात् । त्वं भवान् । आलोक इव प्रदीप इव । उद्गतः उद्गच्छति स्म तथोक्तः अधिगतः । गम्लु गतौ । क्तप्रत्ययः । उपमा ।।४१।। खपुष्पमिबैठ गया ॥३७॥ मुनिराजके आगे बैठते हो पद्मनाभके दोनों हाथ अपने आप संकुचित कमलकी कलीकी भाँति जुड़ गये। अतः ऐसा प्रतीत हो रहा था मानो मुनिराजने अपना चन्द्रपना व्यक्त कर दिया हो ॥३८॥ मुनिराज और राजा पद्मनाभके संयोगसे उस समय पृथिवीकी वही शोभा उत्पन्न हो गयो जो पहले तीर्थंकर और इन्द्र के संयोगसे हुई थी ॥३९॥ भव्य जीव इस समय मुनिराजकी जयजयकार कर रहे थे। इससे बड़ा कोलाहल सुनायो पड़ रहा था। उसके शान्त होते ही पद्मनाभ मुनिराजसे आशीर्वाद लेकर यों बोलानाथ ! इस जगत् में ज्ञानका प्रकाश न रहनेसे कल्याणका मार्ग नहीं सूझ रहा था । आपके आते ही वह सूझने लगा है, अत: आप प्रकट हुए प्रकाशके समान हैं ॥४२॥ इस जंगम १. म नरेन्द्र मुनीन्द्रयोः । २. अ आ इ "देशनान्नाथ । ३. आ कर एवाम्भोरुहयो द्वयम् (करावेवा. म्भोरुहे तयोर्द्वयं करकमलयगलम )। ४. श स कराम्भो-इत्यादि मलं तद्वयाख्यानं च नास्ति । ५. = आत्मीयम् । नि । ७. श स भवन इत्यादि। ८. म नरेन्द्र मनीन्द्रयोः । ९. आ मागं । १०. आलोको। ११. अ आ इ देशनान्नाथ । १२. आ प्रतो केवलम् 'अभ्युपेतप्राप्त्युपायस्य' इति समुपलभ्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy